कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

तान्ताः · तद्विकम्

ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च ॥ १०७ ॥
12.4.107 · p. 70
कीर्तिः ख्यातिः समाज्ञा च -------- ।पताकायां द्युतौ केतुर्ग्रहोत्पातारिलक्ष्मसु ॥ १०८ ॥
12.4.108 · p. 70
अनुष्टुप्metre not read in every line
स्त्री क्षुत् क्षुतं क्षवश्छिक्का -------- ।गातुः पुंस्कोकिले भृङ्गे गन्धर्वे दिव्यगायने ॥ १०९ ॥
12.4.109 · p. 71
अनुष्टुप्metre not read in every line
------- चिन्ताऽऽध्या चिन्तिया स्मृतिः ।दमिते त्रिषु दान्तः स्यात् तपःक्लेशसहेऽपि च ॥ ११० ॥
12.4.110 · p. 71
अनुष्टुप्metre not read in every line
पतिर्भर्ता प्रियंकरः धवः संस्कारशंकरौ ।पातिः स्वामी रक्षकः स्यात् सम्पातिः पक्षिराजनि ॥ १११ ॥
12.4.111 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable)
-------- पोतो बालवहित्रयोः ।ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयोर्लता ॥ ११२ ॥
12.4.112 · p. 72
अनुष्टुप्metre not read in every line
वस्तयः स्युर्दशसूत्रे वस्तिर्नाभेरधो द्वयोः ।-------- वातिरादित्यसोमयोः ॥ ११३ ॥
12.4.113 · p. 72
metre not recognised
वृत्तोऽतीतेऽङ्गीकृतेऽपि वर्तुलेऽपि वृते मृते ।दृढेऽन्यलिङ्गवान् क्लीबं छन्दश्चरितवृत्तिसु ॥ ११४ ॥
12.4.114 · p. 72
अनुष्टुप्
दुर्बले निशिते स्यातां शीतशाताविमौ त्रिषु ।वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु ॥ ११५ ॥
12.4.115 · p. 72
अनुष्टुप्
---- शुक्तं पूताम्लनिष्ठुरे ।श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम् ॥ ११६ ॥
12.4.116 · p. 73
metre not recognised
शर्करायां सिता शुक्ले बद्धे चावसिते त्रिषु ।सीता लाङ्गलरेखा स्याद् व्योमगङ्गा च जानकी ॥ ११७ ॥
12.4.117 · p. 73
अनुष्टुप्