All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
रान्ताः · रत्रिकम्
अक्षरः कन्दुके चित्ते चतुरानननाकयोः ।-------- अक्षरं ब्रह्मवर्णयोः ॥ २३९ ॥
23.3.239 · p. 110
अनुष्टुप्metre not read in every line
अगुरु क्लीबे शिंशपायां ------- ।इन्द्रपुर्यां गुडूच्यां च स्थूणायाममराध्वनिः ॥ २४० ॥
23.3.240 · p. 110
अनुष्टुप्metre not read in every line
असुरी राजिकायां स्यात् -------- ।आधार आलवालाधिकरणाम्बुविधारणः ॥ २४१ ॥
23.3.241 · p. 110
अनुष्टुप्metre not read in every line
उर्वरा सर्वसस्याढ्यवसुधायां क्षितावपि ।औशीरं चामरे दण्डे शयनासनयोर्मतम् ॥ २४२ ॥
23.3.242 · p. 110
अनुष्टुप्
-------- कडारो दासपिङ्गयोः ।कण्डरा तु महास्नायुः कालेयं कालखण्डकम् ॥ २४३ ॥
23.3.243 · p. 111
अनुष्टुप्metre not read in every line
कर्परः स्यात् कपालेऽपि शस्त्रभेदकटाहयोः ।कर्मारो लोहकारः स्यात् -------- ॥ २४४ ॥
23.3.244 · p. 111
अनुष्टुप्metre not read in every line
दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः ।-------- काश्मरी कालवृन्तिका ॥ २४५ ॥
23.3.245 · p. 111
अनुष्टुप्metre not read in every line
कुठारः स्त्री च स्वधितिः परशुश्च परश्वधः ।कुठाटङ्कः पर्शुरथ च्छुरिका कोशशायिका ॥ २४६ ॥
23.3.246 · p. 112
अनुष्टुप्
केनारः कुम्भिनरके शिरःकपालसन्धिषु ।सिंहच्छटासु पुंनागे वकुले नागकेसरे ॥ २४७ ॥
23.3.247 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
केसरः पुंसि किञ्जल्के न स्त्री हिङ्गुनि न द्वयोः ।-------- कोटीरस्तु जटा सटा ॥ २४८ ॥
23.3.248 · p. 112
अनुष्टुप्metre not read in every line
कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।कौबेरं भास्वरं कुष्ठं पारिभाव्यं गदाह्वयम् ॥ २४९ ॥
23.3.249 · p. 113
अनुष्टुप्
क्रकरस्तु करीरद्रौ दीनक्रकचयोश्च ना ।द्वयोस्तु पक्षिभेदे स्यात् -------- ॥ २५० ॥
23.3.250 · p. 113
अनुष्टुप्metre not read in every line
क्लीबं दम्भे गुहायां च निकुञ्जे पुंसि गह्वरः ।गायत्री खदिरे स्त्री स्याच्छन्दस्यपि षडक्षरे ॥ २५१ ॥
23.3.251 · p. 113
अनुष्टुप्
चामरा चामरं वालव्यजनं रोमगुच्छकम् ।झणरी झल्लरी च द्वौ हुडुक्के वालचक्रके ॥ २५२ ॥
23.3.252 · p. 114
अनुष्टुप्
मुरलायां दरीभस्त्रानीरजःस्त्रीषु नर्मरा(दा) ।क्लीबं स्याद्द्रुमकर्पूरे ना राजमानवेऽर्जुने ॥ २५३ ॥
23.3.253 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ।-------- मञ्जीरोऽस्त्री स नूपुरः ॥ २५४ ॥
23.3.254 · p. 115
अनुष्टुप्metre not read in every line
(मधुरा)
दूर्वायां मधुयष्ट्यां च मिश्रेयाशतपुष्पयोः ।मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा ॥ २५५ ॥
23.3.255 · p. 115
अनुष्टुप्
मेदायां च ---- क्लीबं तु गरले -- ।मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ ॥ २५६ ॥
23.3.256 · p. 115
अनुष्टुप्metre not read in every line
वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् ।मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः ॥ २५७ ॥
23.3.257 · p. 116
अनुष्टुप्
-------- टेरे वलिरकेकरौ ।विशारदे गताऽतङ्के मुमुक्षौ बाडवे वृके ॥ २५८ ॥
23.3.258 · p. 116
अनुष्टुप्metre not read in every line
निर्झरेऽपि विशाले च वागरे वारके पुमान् ।वानीरवेतसावभ्रपुष्पो विदुल इत्यपि ॥ २५९ ॥
23.3.259 · p. 117
अनुष्टुप्
काकचिञ्चीभवे बीजे वाचि क्रिमिजनीरयोः ।दक्षिणावर्तशङ्खे च वार्दरं स्यात् ---- ॥ २६० ॥
23.3.260 · p. 117
अनुष्टुप्metre not read in every line
विधुरं स्यात् परविश्लेषे क्लीबे विकरणे त्रिषु ।विष्टरः कुशमुष्टौ स्यादासनेऽपि महीरुहि ॥ २६१ ॥
23.3.261 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शर्करा खण्डविकृतावुपलेऽपि च दृश्यते ।शाक्वरो वाडबेयः स्यात् ककुद्मानक्षधूर्तिलः ॥ २६२ ॥
23.3.262 · p. 117
अनुष्टुप्
-------- भूषणे शेखरोऽस्त्रियाम् ।श्वद्रंष्ट्रो गोक्षुरपुटः श्वदंष्ट्रा स्वादुकण्टकः ॥ २६३ ॥
23.3.263 · p. 118
अनुष्टुप्metre not read in every line
स्त्रिलिङ्गा श्वशुरा ब्राह्म्याम् -------- ।क्लीबं तु सम्बरं नीरबौद्धव्रतविशेषयोः ॥ २६४ ॥
23.3.264 · p. 118
अनुष्टुप्metre not read in every line
विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ।सिन्दूरं रोचनारक्तचूरणधातकिकासु च ॥ २६५ ॥
23.3.265 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रण (syllable split)
गर्ते गर्ताऽन्विते वाद्यविशेषे सुषिरं त्रिषु ।सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ २६६ ॥
23.3.266 · p. 119
अनुष्टुप्
स्रोतोऽञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च ।
23.3.29 · p. 119