कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

दान्ताः · दत्रिकम्

स्त्री ककुत् ककुदोऽप्यस्त्री वृषाङ्गे राड्ध्वजे वरे ।सत्कृत्याऽलंकृतां कन्यां कूकुदः कुकुदो ददत् ॥ १२५ ॥
14.4.125 · p. 76
अनुष्टुप्
क्षणदा स्त्री हरिद्रायां कीलाले तु नपुंसकम् ।गोष्पदम् गोपदश्वभ्रे गवां च गतिगोचरे ॥ १२६ ॥
14.4.126 · p. 77
अनुष्टुप्
ननन्दा तु स्वसा पत्युः ननान्दा नन्दिनी च सा ।पुलिन्दः कथ्यते म्लेच्छे पुलिन्देऽपि निगद्यते ॥ १२७ ॥
14.4.127 · p. 77
अनुष्टुप्
शारदः सप्तपर्णाख्यो बृहत्त्वग्ग्रहनाशनः ।
14.4.4 · p. 77