All kośas › Rabhasakośa
रभसकोश Rabhasakośa
445 verses · text only, tagging comes next
तान्ताः · ततृतीयकम्
तृतीयाप्रकृतौ लाजेष्वक्षतं त्रिष्वहिंसिते ।उमा भूर्देवमाता च्याप्यदितिः ---- ॥ ९६ ॥
12.3.96 · p. 66
अनुष्टुप्metre not read in every line
त्रिषु स्यादस्फुटेऽव्यक्तः क्लीबं तु परमात्मनि ।-------- आघातं नामघातयोः ॥ ९७ ॥
12.3.97 · p. 67
अनुष्टुप्metre not read in every line
-------- आवुत्तो भगिनीपतिः ।आस्फोता विष्णुक्रान्तायां वनमल्ल्यर्कपर्णयोः ॥ ९८ ॥
12.3.98 · p. 67
metre not recognised
मिथ्योक्तौ ताडिते विद्यादाहतं गुणिते तथा ।एकान्तं निश्चिते शैघ्र्ये प्रसिद्धौ पुंनपुंसकम् ॥ ९९ ॥
12.3.99 · p. 67
अनुष्टुप्
किरातश्चिरतिक्तश्च भूनिम्बहिमकावपि ।जीवे जीवनभैषज्ये जीवातुः पुंनपुंसकम् ॥ १०० ॥
12.3.100 · p. 68
अनुष्टुप्
-------- दीक्षान्तावभृथौ समौ ।बिन्दौ पृषन्मृगे क्लीबं पृषतोऽप्यनयोर्नरि ॥ १०१ ॥
12.3.101 · p. 68
अनुष्टुप्metre not read in every line
त्रिषु श्वेते बिन्दुयुक्ते (स्रोतः पतनरक्तिते) ।विस्तारे प्रततिर्वल्यां -------- ॥ १०२ ॥
12.3.102 · p. 68
metre not recognised
प्रख्यातज्ञातहृष्टेषु प्रतीतः सादरे त्रिषु ।प्रोक्षितं निहते सिक्ते -------- ॥ १०३ ॥
12.3.103 · p. 69
अनुष्टुप्metre not read in every line
महर्ष्टिव्यासरचिते जम्बूद्वीपे च भारतम् ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ १०४ ॥
12.3.104 · p. 69
अनुष्टुप्
लोहितं रक्तगोशीर्षकुङ्कुमादिकुचन्दने ।पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति ॥ १०५ ॥
12.3.105 · p. 69
अनुष्टुप्
-------- वासितं भाविते रुते ।विविक्तं त्रिषु विजनेऽप्यसम्पृक्तपवित्रयोः ॥ १०६ ॥
12.3.106 · p. 70
metre not recognised
सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि ।
12.3.12 · p. 70