कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

सान्ताः · सद्विकम्

स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः ।इक्षुपक्षिभिदोश्चाषः -------- ॥ ३७४ ॥
28.3.374 · p. 155
अनुष्टुप्metre not read in every line
कैवर्तभृत्ययोर्दासो दासी बाणा च चेटिका ।भासो ना भासि गृध्रे च गोष्ठ्यकुक्कुटकेऽपि च ॥ ३७५ ॥
28.3.375 · p. 156
अनुष्टुप्
स्यान्मांस्यां शतपुष्पायां मधुरायां मिसिः स्त्रियाम् ।देहधातुप्रभेदे च पारदस्वादयो रसः ॥ ३७६ ॥
28.3.376 · p. 156
अनुष्टुप्
गन्धरसे स्त्रियां जिह्वासल्लकीकङ्गुभूमिषु ।देवभेदाग्निभायोक्त्रबकराजसु ना वसु ॥ ३७७ ॥
28.3.377 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
क्लीबे वृद्धौषधश्यामरैरत्ने मधुरे त्रिषु ।वासुर्मनुजगोविन्दशम्भुवीचिप्रभादिके ॥ ३७८ ॥
28.3.378 · p. 157
अनुष्टुप्