कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Rabhasakośa

रभसकोश Rabhasakośa

445 verses · text only, tagging comes next

षान्ताः · षद्विकम्

अक्षो विभीतके नेत्रे शकटव्यवहारयोः ।रथस्यावयवे क्षेत्रे पाशकेऽप्यक्षमिन्द्रिये ॥ ३५० ॥
27.3.350 · p. 148
अनुष्टुप्
उषा स्याद्रजनीशेषे उष इत्यपि दृश्यते ।कक्षा स्यादन्तरीयस्य पश्चदञ्चलपल्लवे ॥ ३५१ ॥
27.3.351 · p. 148
अनुष्टुप्
स्पर्धापदे ना दोर्मूले कच्छवीरुत्तृणेषु च ।करीषाग्नौ पुमान् कर्षुः कुल्यायामपि च स्त्रियाम् ॥ ३५२ ॥
27.3.352 · p. 148
अनुष्टुप्
कोशोऽस्त्री कुट्मले खड्गपिधानेऽर्थौघदिव्ययोः ।पेश्यां पात्रे जातिकोषे -------- ॥ ३५३ ॥
27.3.353 · p. 149
अनुष्टुप्metre not read in every line
झषा नागबलायां स्याज्झषो मत्स्ये झषं खिले ।धान्यत्वचि तुषः पुंसि विभीतकतरावपि ॥ ३५४ ॥
27.3.354 · p. 149
अनुष्टुप्
कान्तौ वाचि रचौ त्विट् स्त्री -------- ।पक्षो मासार्धके पार्ष्णिग्रहे साध्यविरोधयोः ॥ ३५५ ॥
27.3.355 · p. 149
अनुष्टुप्metre not read in every line
चुल्लिरन्ध्रे पतत्त्रे च राजकुञ्जरपार्श्वयोः ।प्रार्थनाभृतिसेवासु भिक्षा भिक्षितवस्तुनि ॥ ३५६ ॥
27.3.356 · p. 150
अनुष्टुप्
लाक्षायां रक्षणे रक्षा -------- ।सङ्ख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः ॥ ३५७ ॥
27.3.357 · p. 150
अनुष्टुप्metre not read in every line
पुंनपुंसकयोर्वर्षं जम्बुद्वीपे च वत्सरे ।वृष्टौ च वर्षाकालेषु वर्षा भौमनि योषिति ॥ ३५८ ॥
27.3.358 · p. 150
अनुष्टुप्
विड्व्यापने च विष्ठायां शुषिः स्त्री बिलशोषयोः ।कपिकच्छ्वां वृषः पुंसि शृङ्गीमूषिकवासके ॥ ३५९ ॥
27.3.359 · p. 151
अनुष्टुप्
धर्मशुक्रलयोः सौरभेये पुंराशिभेदयोः ।श्रेष्ठे स्यादुत्तर्स्थश्च व्रतिनामासनं वृषी ॥ ३६० ॥
27.3.360 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दु (syllables merged)
शोषो यक्ष्मा राजयक्ष्मा प्रतिश्यायस्तु पीनसः ।आपीनसः प्रतिश्या स्यात् -------- ॥ ३६१ ॥
27.3.361 · p. 152
metre not recognised