कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

प्रथमः काण्डः · अव्ययवर्गः

॥ इति जलवर्गः समाप्तः ॥

॥ अथ अव्ययवर्गः प्रारभ्यते ॥

प्रादुराविः प्रकाशले श्वस्त्वनागतवासरे ।परेद्यवि परश्वः स्यात्प्रपरश्वस्तदुत्तरे ॥ १ ॥
1.10.1 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
दुष्ठु प्रोक्तं जुगुप्सायां सुष्ठु प्राशस्त्यवाचकम् ।अधुना सम्प्रतीदानीं स्यादेतर्हि च साम्प्रतम् ॥ २ ॥
1.10.2 · p. 74
अनुष्टुप्
समया निकषाऽसन्ने प्रभाते प्रातरुच्यते ।सन्ध्याकाले स्मृतं सायमुषा रात्र्यन्तमीरितम् ॥ ३ ॥
1.10.3 · p. 74
अनुष्टुप्
बत हर्षे विषादे च स्याद्यथार्थे यथायथम् ।कच्चित्कल्याणपृच्छायामुद्याऽस्मिन्नहनीष्यते ॥ ४ ॥
1.10.4 · p. 75
अनुष्टुप्
ह्यो गतेऽहन्यद्रुते तु शनैः प्रायस्तु भूमनि ।अयि कोमलसंबुद्धावोमा मेवं च सम्मतौ ॥ ५ ॥
1.10.5 · p. 75
अनुष्टुप्
स्वीकृता वस्तुपर्याप्ते कामं वा स्याद्विकल्पने ।बाह्ये बहिरदृष्टेऽस्तं स्यादनेके च निश्चये ॥ ६ ॥
1.10.6 · p. 75
अनुष्टुप्
उच्चैरूर्ध्वं सना नित्येऽधस्तान्नीचैः पुनर्मुहुः ।मामास्माऽलं निरोधे स्युः पुरस्तादयतः पुरः ॥ ७ ॥
1.10.7 · p. 75
अनुष्टुप्
न नो नहि निषेधेऽर्थे हा खेदेऽहो तु विस्मये ।सत्रा साकं समं सार्धं सहार्थे धिक् च भर्त्सने ॥ ८ ॥
1.10.8 · p. 75
अनुष्टुप्
यदि चेदन्यपक्षे द्वे ह्यः पूर्वेद्युः समावुभौ ।एकदा युगपत्सद्यः सपद्यऽत्र त्विहार्थकम् ॥ ९ ॥
1.10.9 · p. 76
अनुष्टुप्
तदानीं तदा तस्मिन्कालेऽमुत्र भवान्तरे ।किञ्चिदीषन्मनागल्पे स्याद्व्यर्थे तु मुधा वृथा ॥ १० ॥
1.10.10 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चिरं च चिररात्राय चिरस्य च चिराय च ।चिराच्चिरे चिरेणाऽपि चिरार्थे योजिताः पुरा ॥ ११ ॥
1.10.11 · p. 76
अनुष्टुप्
कदाचिज्जातु तुल्ये द्वे सहसाऽतर्किते मतम् ।विनामध्यार्थयोः प्रोक्ता व्यन्तरेणाऽन्तरेऽन्तरा ॥ १२ ॥
1.10.12 · p. 76
अनुष्टुप्
तिर्यगर्थे तिरः साचि दिष्ट्याऽऽनन्देऽर्चने स्वति ।सम्बोधनेऽङ्ग हे है भोः किल सम्भाव्यवार्तयोः ॥ १३ ॥
1.10.13 · p. 76
अनुष्टुप्
उताहो किमुताऽऽहो च तु विकल्पे नु निश्चये ।नीचाह्वाने त्वरे रे च त्वरा च सम्भ्रमः समौ ॥ १४ ॥
1.10.14 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
प्रसह्य तु हठार्थे स्यात्प्रतिक्षणमनुक्षणम् ।वर्जने स्तो हिरुक् नाना हेतौ यत्तद्यतस्ततः ॥ १५ ॥
1.10.15 · p. 77
अनुष्टुप्
सुदि शुक्ले दले कृष्णे वदि संवत्तु वत्सरे ।अह्नीत्यर्थे दिवा नक्तं दोषा च रजनाविति ॥ १६ ॥
1.10.16 · p. 77
अनुष्टुप्
स्वयं स्यादात्मनेत्यर्थे तत्त्वेऽद्धाऽर्वाक् तथाऽवरे ।निश्चये पादपूर्तौ च तुहि च स्म ह वै इति ॥ १७ ॥
1.10.17 · p. 77
अनुष्टुप्
साम्ये यथा तथा वे वाऽतिशयेऽतीव सुष्ठु च ।झटित्यह्नाय मङ्क्षुद्रा गञ्जसा सपदि द्रुते ॥ १८ ॥
1.10.18 · p. 78
अनुष्टुप्
हविर्दाने स्वधा स्वाहाऽसाकल्पे चित् चनेत्युभे ।तूष्णीं च तूष्णिकां मौनेऽवश्यं नूनं च निश्चिते ॥ १९ ॥
1.10.19 · p. 78
अनुष्टुप्
आम् एवं निश्चये प्रातः प्रभातार्थे प्रगेऽपि च ।तर्के वितर्के हुं प्रश्ने ऊं ननु द्वे प्रयोजिते ॥ २० ॥
1.10.20 · p. 78
अनुष्टुप्
एषमोऽस्मिन् परुत् पूर्वे परार्यद्बे ततोऽपि च ।पूर्वोत्तराऽपराऽन्याऽन्यतरादितरतोऽधरात् ॥ २१ ॥
1.10.21 · p. 79
अनुष्टुप्
पूर्वाद्यहःसु पूर्वेद्युरादयः स्युः क्रमादिमे ।रुद्रकोशे तु पूर्वेद्युः प्रातर्वा पूर्ववासरे ॥ २२ ॥
1.10.22 · p. 79
अनुष्टुप्
परेद्यवि परेऽह्नि स्यादुभयेद्युर्दिनद्वये ।वितथे स्तो मृषा मिथ्या सत्त्वेऽस्ति नमने नमः ॥ २३ ॥
1.10.23 · p. 79
अनुष्टुप्
सर्वतः परितो विष्वक् समन्तादभितस्तथा ।
1.10.24 · p. 80