All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
प्रथमः काण्डः · सुरवर्गः
अथ सुरवर्गः प्रारभ्यते ।
देवलोकः स्वर्गनाकौ त्रिदिवस्त्रिदशालयः ।क्लीबे त्रिविष्टपं स्त्रीत्वे द्यौदिवौ द्वे स्वरव्ययम् ॥ १ ॥
1.2.1 · p. 7
अनुष्टुप्
देवोऽस्वप्नस्त्रिदशौ निर्जरो विबुधोऽमरः ।अनिमेषी दिवौकाश्च सुपर्वा सुमनाः सुरः ॥ २ ॥
1.2.2 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृन्दारकाऽदितिसुतौ देवतं पुंनपुंसकम् ।बर्हिमुखक्रतुभुजौ गीर्वाणो देवतास्त्रियाम् ॥ ३ ॥
1.2.3 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
आदित्यदिविषल्लेखा अमर्त्याऽमृतभोजनौ ।दानवारिरिमे पुंसि लेखा देवे स्त्रियां मता ॥ ४ ॥
1.2.4 · p. 7
अनुष्टुप्
देवाश्चतुर्विधाः प्रोक्ता आद्या भवनवासिनः ।वानव्यन्तरज्योतिष्काः पुनर्वैमानिका मताः ॥ ५ ॥
1.2.5 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
असुराद्या दशविधा देवा भवनवासिनः ।व्यन्तराश्च पिशाचाद्या इमे षोडश सम्मता ॥ ६ ॥
1.2.6 · p. 8
अनुष्टुप्
पिशाचा भूत यक्षाश्च राक्षसाः किन्नरास्तथा ।किंपुरुषा महोरगाः गन्धर्वा अप्रज्ञप्तिकाः ॥ ७ ॥
1.2.7 · p. 8
अनुष्टुप्metre not read in every line
पंचप्रज्ञप्तिका ऋषिवादिनो भूतवादिनः ।क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतगास्तथा ॥ ८ ॥
1.2.8 · p. 8
metre not recognised
ज्योतिष्काः पञ्चचन्द्रार्कग्रहनक्षत्रतारकाः ।वैमानिकाः कल्पभवाः सौधर्मादिनिवासिनः ॥ ९ ॥
1.2.9 · p. 8
अनुष्टुप्
सौधर्म ईशानसनत्कुमारा माहेन्द्रको ब्रह्मततश्च लान्तकः ।शुक्रः सहस्रारक आनतश्च, ततः परं प्राणत आरणाच्युतौ ॥ १० ॥
1.2.10 · p. 9
upajati mixed
ग्रैवेयका अनुत्तराः कल्पातीताश्चतुर्दशः ।
1.2.11 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्त (wrong syllable)
शतमन्युर्विडौजाश्च पुरुहूतो दिवस्पतिः ।जिष्णुर्वज्री वृत्रहा च मरुत्वान् पाकशासनः ॥ १२ ॥
1.2.12 · p. 9
अनुष्टुप्
सक्रन्दनः सुरपतिर्गोत्रभिद्वासवो वृषा ।सुरेश्वरो बलारातिः सहस्राक्षः शचीपतिः ॥ १३ ॥
1.2.13 · p. 9
अनुष्टुप्
हरिर्हरिहयो मेघवाहनो जम्भभेदनः ।आखण्डलो देवराजः स्वाराड्देवेन्द्र इत्यपि ॥ १४ ॥
1.2.14 · p. 9
अनुष्टुप्
पुत्रो जयन्त एतस्य प्रियेन्द्राणी शची मता ।उच्चैःश्रवा घोटकश्च नगरी त्वमरावती ॥ १५ ॥
1.2.15 · p. 10
अनुष्टुप्
ऐरावतो गजः प्रोक्तः स ऐरावण उच्यते ।सारथिर्मातलिः पर्षत् सुधर्मा नन्दनं वनम् ॥ १६ ॥
1.2.16 · p. 10
अनुष्टुप्
पारिजातश्च सन्तानो मन्दारः कल्प इत्यपि ।पञ्चैते देवतरवः पुंसि वा हरिचन्दनम् ॥ १७ ॥
1.2.17 · p. 10
अनुष्टुप्
दम्भोलिर्वज्रमस्त्री स्याद् ह्रादिनी भिदुरं पविः ।शतकोटिः स्वरुः शंबः कुलिशमशनिर्द्वयोः ॥ १८ ॥
1.2.18 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 लि (wrong syllable)
ब्रह्मात्मभूरब्योनिर्विधाता चतुराननः ।परमेष्ठी सुरज्येष्ठः स्वयंभूः कमलासनः ॥ १९ ॥
1.2.19 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भू (syllables merged)
वेधा विरिञ्चिर्लोकेशो विधिः स्रष्टा प्रजापतिः ।विश्वसृट् सत्यको धाता सृष्टिकर्त्ता पितामहः ॥ २० ॥
1.2.20 · p. 11
अनुष्टुप्
नाभिजन्माण्डजो हंसवाहनः कमलोद्भवः ।हिरण्यगर्भो द्रुहिणो रजोमूर्तिश्चतुर्मुखः ॥ २१ ॥
1.2.21 · p. 11
अनुष्टुप्
हरिर्विष्णुर्हृषीकेशः केशवो गरुडध्वजः ।गोविन्दो माधवः कृष्णः स्वभूर्दामोदरोऽच्युतः ॥ २२ ॥
1.2.22 · p. 12
अनुष्टुप्
नारायणश्चक्रपाणिः शौरिः श्रीशश्चतुर्भुजः ।उपेन्द्रः पुण्डरीकाक्षो वासुदेवो जनार्दनः ॥ २३ ॥
1.2.23 · p. 12
अनुष्टुप्
त्रिविक्रमः पद्मनाभः श्रीपतिर्जगतीपतिः ।देवकीनन्दनो विष्वक्सेनः श्रीवत्सलाञ्छनः ॥ २४ ॥
1.2.24 · p. 12
अनुष्टुप्
वनमाली बलिध्वंसी कंसारिर्विश्वनायकः ।अधोक्षजो मधुरिपुर्मुकुन्दः पुरुषोत्तमः ॥ २५ ॥
1.2.25 · p. 12
अनुष्टुप्
विश्वरूपः कैटभजिद् मुरारिर्मधुसूदनः ।
1.2.27 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कै (wrong syllable)
स्याद्रामस्तु प्रलंबघ्नो बलदेवो हलायुधः ।बलभद्रो रौहिणेयो बली नीलाम्बरो हली ॥ २७ ॥
1.2.27 · p. 13
अनुष्टुप्
अनङ्गो दर्पकः कामः पञ्चबाणो मनोभवः ।कुसुमेषुः पुष्पधन्वा शम्बरारिरनन्यजः ॥ ३० ॥
1.2.30 · p. 13
अनुष्टुप्
नागान्तको वैनतेयो गरुत्मांश्च खगेश्वरः ।पक्षिराजो विष्णुरथः सुपर्णो भोगिभोजनः ॥ ३३ ॥
1.2.33 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वि (wrong syllable)
श्रीपतेः पाञ्चजन्यः स्याद् शंखश्चक्रं सुदर्शनम् ।गदा कौमोदकी खड्गो नन्दकः कौस्तुभो मणिः ॥ ३४ ॥
1.2.34 · p. 14
अनुष्टुप्
अथ शम्भुः शिवः शूली शर्व ईशो महेश्वरः ।ईशानः शंकरश्चन्द्रशेखरो गिरिशो मृडः ॥ ३५ ॥
1.2.35 · p. 15
अनुष्टुप्
भूतेश ईश्वरः खण्डपरशुः प्रमथाधिपः ।मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् ॥ ३६ ॥
1.2.36 · p. 15
अनुष्टुप्
उग्रः कपर्दी श्रीकण्ठः पिनाकी नीललोहितः ।शितिकण्ठो महादेवो वामदेवस्त्रिलोचनः ॥ ३७ ॥
1.2.37 · p. 15
अनुष्टुप्
त्र्यम्बको धूर्जटिर्व्योमकेशः स्मरहरो हरः ।गङ्गाधरो विरूपाक्षो भर्गश्च वृषभध्वजः ॥ ३८ ॥
1.2.38 · p. 15
अनुष्टुप्
भूतनाथो भवो भीमो बुध्न्यः स्थाणुरुमापतिः ।रुद्रो गिरिशोऽष्टमूर्तिर्नीलकण्ठो जटाधरः ॥ ३९ ॥
1.2.39 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
जटाजूटः कपर्दोऽस्य पिनाकोऽजगवं धनुः ।पार्षदाः प्रमथाः प्रोक्ताः कैलासः स्थानमव्ययम् ॥ ४० ॥
1.2.40 · p. 15
अनुष्टुप्
अथाऽस्य भार्या रुद्राणी भवानी सर्वमङ्गला ।गौरी कात्यायनी काली शर्वाणी चण्डिकाऽम्बिका ॥ ४१ ॥
1.2.41 · p. 16
अनुष्टुप्
मृडानी पार्वती चण्डी श्यामा हैमवतीश्वरी ।उमा माहेश्वरी तारा भद्रकाली च भैरवी ॥ ४२ ॥
1.2.42 · p. 16
अनुष्टुप्
पार्वतीनन्दनः क्रौञ्चदारणः शिखिवाहनः ।षाण्मातुरो महासेनः शरजन्मा गुहोऽग्निभूः ॥ ४४ ॥
1.2.44 · p. 16
अनुष्टुप्
तारकारिः शक्तिधरः कुमारो-
1.2.51 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
-ऽथ गणाधिपः ।विनायको विघ्नहरो विघ्नराजो गजाननः ॥ ४५ ॥
1.2.45 · p. 16
अनुष्टुप्metre not read in every line
हेरम्ब एकदन्तश्च लम्बोदर उमात्मजः ।द्वैमातुरो गणाध्यक्षो गणेशो गणनायकः ॥ ४६ ॥
1.2.46 · p. 17
अनुष्टुप्
स्यादग्निरनलो वह्निः कृष्णवर्त्मा हुताशनः ।वैश्वानरो जातवेदा ज्वलनो हव्यवाहनः ॥ ४७ ॥
1.2.47 · p. 17
अनुष्टुप्
तनूनपादाश्रयाशः पावकश्च धनञ्जयः ।कृपीटयोनिः सप्तर्चिः कृशानुश्चाशुशुक्षणिः ॥ ४८ ॥
1.2.48 · p. 17
अनुष्टुप्
विभावसुश्चित्रभानुर्हुतभुग्दहनः शुचिः ।हिरण्यरेताः शुक्रश्च शिखी वायुसखः पुमान् ॥ ४९ ॥
1.2.49 · p. 17
अनुष्टुप्
और्वो वाडवनामाग्निः सन्तापोऽग्नेऽस्तु संज्वरः ।उल्का प्रशान्तज्वाला स्यादिङ्गालं दग्धमिन्धनम् ॥ ५० ॥
1.2.50 · p. 18
अनुष्टुप्
कीलज्वालौ द्वयोरर्चिः क्लीबे हेतिः शिखा स्त्रियाम् ।दावो दवश्च वन्याग्निः स्फुलिङ्गोऽग्निकणस्त्रिषु ॥ ५१ ॥
1.2.51 · p. 18
अनुष्टुप्
वरुणोऽप्पतिः प्रचेताश्च पाशी च यादसांपतिः ॥ ५४ ॥
1.2.54 · p. 19
अनुष्टुप्metre not read in every line
मारुतः पवनो वातो मातरिश्वाऽनिलो मरुत् ।सदागतिर्गन्धवहो गन्धवाहः समीरणः ॥ ५५ ॥
1.2.55 · p. 19
अनुष्टुप्
समीर आशुगो वायुर्जगत्प्राणः प्रभञ्जनः ।नभस्वच्छ्वसनौ झंझा वातस्तु प्राप्तवर्षणः ॥ ५६ ॥
1.2.56 · p. 19
अनुष्टुप्
समानो नाभिदेशे स्यादुदानः कण्ठसंस्थितः ।क्लीबे रंहस्तरः पुंसि जवो वेगो रयः स्यदः ॥ ५८ ॥
1.2.58 · p. 20
अनुष्टुप्
अथ शीघ्रमरं क्षिप्रं चपलं सत्वरं द्रुतम् ।त्वरितं लघु तद्वत्स्यात्तूर्णमाश्च विलम्बितम् ॥ ५९ ॥
1.2.59 · p. 20
अनुष्टुप्
संतताऽविरताऽश्रान्तसतताऽनारताऽनिशम् ।नित्याऽनवरताऽजस्त्रं नस्त्री नैव पुमान् क्वचित् ॥ ६० ॥
1.2.60 · p. 20
अनुष्टुप्
भरोऽतिशय एतौ द्वौ पुंस्युद्गाढं च निर्भरम् ।अतिमात्रं नितान्तं च गाढबाढदृढानि च ॥ ६१ ॥
1.2.61 · p. 21
अनुष्टुप्
अत्यर्थमतिवेलं च भृशं तीव्रमुदाहृतम् ।एकान्तमपि शीघ्रादि सत्वेनैव नपुंसकम् ॥ ६२ ॥
1.2.62 · p. 21
अनुष्टुप्
वात्या स्त्री वातुलो वातग्रन्थिस्तृणविघूर्णकः ।वातुलो ह्रस्वमध्योऽपि क्षीरस्वामिमतं यथा ॥ ६३ ॥
1.2.63 · p. 21
अनुष्टुप्
उर्वश्याद्या दिवो वेश्या बहुत्वेऽप्सरसः स्त्रियाम् ।बहुत्वेऽप्सरसो वादः प्राय आह पतञ्जलिः ॥ ६४ ॥
1.2.64 · p. 21
अनुष्टुप्
कुबेरो यक्षराजः स्याद् धनदश्च धनेश्वरः ।गुह्यकेश्वरपौलस्त्यौ राजराड्विश्रवः सुतः ॥ ६७ ॥
1.2.67 · p. 22
अनुष्टुप्
किंपुरुषेश्वर ईशानसखश्च नरवाहनः ।
1.2.81 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तथाहि मकरः खर्वः शंखः पद्मश्च कच्छपः ।महापद्मो मुकुन्दश्च कुन्दो नीलः क्रमादमी ॥ ७० ॥
1.2.70 · p. 23
अनुष्टुप्