कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

द्वितीयकाण्डम् · नगरवर्गः

॥ इति लोकवर्गः समाप्तः ॥

॥ अथ नगरवर्गः प्रारभ्यते ॥

नगरं नगरी पूः स्त्री पुरी वा पत्तनं पुरम् ।वणिजां सति वासे तु निगमः पुटभेदनम् ॥ १ ॥
2.2.1 · p. 85
अनुष्टुप्
सर्ववस्तूपलब्धौ तद्भेदे ग्रामस्ततस्ततः ।वसतेर्वासभेदाः स्युः खेटकर्बटकादयः ॥ २ ॥
2.2.2 · p. 85
अनुष्टुप्
लघुर्ग्रामठिका ग्रामा वेशो वेश्यालयस्थलम् ।द्विकानमापणो हट्टो विपणिः पण्यवीथिका ॥ ३ ॥
2.2.3 · p. 86
अनुष्टुप्
प्रतोली विशिखा रथ्या वप्रः स्यान्मृच्चयोऽस्त्रियाम् ।कृत्रिमेवेष्टने सालः प्राकारो वरणस्तथा ॥ ४ ॥
2.2.4 · p. 86
अनुष्टुप्
प्राचीरं चैव प्राचीनं प्रान्ततो वृत्तिरिष्यते ।कुड्ये भित्तिः स्त्रियामन्तर्न्यस्तास्थ्न्येडूक मुच्यते ॥ ५ ॥
2.2.5 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
गृहं स्याद्वेश्म भवनं गेहं सद्म च सादनम् ।निकेतनमगारं चाऽऽगारं च सदनं तथा ॥ ६ ॥
2.2.6 · p. 87
अनुष्टुप्
गृहाः पुंस्यपि भूम्न्येव निकाय्यो निलयाऽऽलयौ ।कुटीरो यतिनां गेहं पर्णशालोटजः कुटी ॥ ७ ॥
2.2.7 · p. 87
अनुष्टुप्
हर्म्यं तु धनिनां वेश्म प्रासादो देवभूभृताम् ।स्वस्तिकादीनि चिह्नानि गृहेष्वीश्वरवेश्मनाम् ॥ ८ ॥
2.2.8 · p. 87
अनुष्टुप्
अरिष्टं सूतिकागेहं मण्डपस्तु जनाश्रयः ।वस्त्रनिर्मितगेहं यद् उपकार्योपकारिका ॥ ९ ॥
2.2.9 · p. 87
अनुष्टुप्
क्षत्रियाणां स्त्रिया वेश्म शुद्धान्तोऽन्तःपुरं तथा ।वलभी चन्द्रशाले द्वे तस्यैवोर्द्धं तु वेश्म यत् ॥ १० ॥
2.2.10 · p. 87
अनुष्टुप्
प्रपा पानीयशालायां गञ्जा यन्मदिरागृहम् ।ग्रामे गेहे च गोपस्य घोषः पल्लिरिति द्वयम् ॥ ११ ॥
2.2.11 · p. 88
अनुष्टुप्
धर्मशालं धर्मशाला शालान्तो न क्वचित्पुमान् ।मन्दुरावाजिनः शालाऽऽवेशनं शिल्पिवेश्मनि ॥ १२ ॥
2.2.12 · p. 88
अनुष्टुप्
श्मशाने यज्ञशालायां चैत्यमायतनं गृहे ।वातायनं गवाक्षोऽस्त्री क्षोममट्टः शिरोगृहम् ॥ १३ ॥
2.2.13 · p. 88
अनुष्टुप्
विष्कम्भो नाऽर्गला नान कपाटमररं त्रिषु ।तालं च तालिका ताला मोचनोद्घाटने समे ॥ १४ ॥
2.2.14 · p. 88
अनुष्टुप्
च्यावी स्त्री कुंचिका कुञ्ची कुंजिकोद्घाटनीति च ।देहल्युदुम्बरोऽपि स्याद् गृहावग्रहणी तु या ॥ १५ ॥
2.2.15 · p. 89
अनुष्टुप्
स्तम्भादूर्ध्वमधस्ताद्वा दारु नासा शिला मता ।गोपानसी च वलभी छादने वक्रदारुणि ॥ १६ ॥
2.2.16 · p. 89
अनुष्टुप्
विटङ्कोऽस्त्री स्त्रीकपोतपाली पारावतालये ।नीघ्रं वलीकं पटलप्रान्तेऽथो पटलं छदिः ॥ १७ ॥
2.2.17 · p. 89
अनुष्टुप्
प्रघाणः प्रघणोऽलिन्दो बाह्ये द्वारप्रकोष्ठके ।वेदिस्तु वेदिकाद्वारे द्वाः प्रतीहार इत्युभौ ॥ १८ ॥
2.2.18 · p. 89
अनुष्टुप्
आरोहणं तु सोपानं निःश्रेण्यामधिरोहिणी ।गोपुरं स्यात्पुरद्वारं बहिर्द्वारेऽस्त्रि तोरणम् ॥ १९ ॥
2.2.19 · p. 90
अनुष्टुप्
पुरोभागे समतले ह्यङ्गनं चत्वराजिरे ।मतो हस्तिनखः कूटेऽवतारार्थे पुराद्बहिः ॥ २० ॥
2.2.20 · p. 90
अनुष्टुप्
वेश्मभूर्वास्तुरस्त्री स्याद्भिल्लग्रामस्तु पक्वणः ।संकराऽवकरक्षेप्त्यां सम्मार्जन्यैव शोधनी ॥ २१ ॥
2.2.21 · p. 90
अनुष्टुप्
उपकण्ठं तूपशल्ये सीमा सीमा स्त्रियां द्वयम् ।
2.2.22 · p. 91