कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

द्वितीयकाण्डम् · मानववर्गः (1/2)

॥ इति पशुवर्गः समाप्तः ॥

॥ अथ मानववर्गः प्रारभ्यते ॥

मानवो मनुजो मर्त्त्यो मनुष्यो मानुषो नरः ।ना पुमान् पुरुषः किञ्च पुरुषोऽथाऽबला वधूः ॥ १ ॥
2.7.1 · p. 151
अनुष्टुप्
नारी सीमन्तिनी योषा योषित् स्त्री वनिता तथा ।स्याद्वामा महिलैतस्याः प्रभेदा भीरुरङ्गना ॥ २ ॥
2.7.2 · p. 151
अनुष्टुप्
कामिनी ललना कान्ता मानिनी वामलोचना ।प्रमदा रमणी रामा सुन्दरी च नितम्बिनी ॥ ३ ॥
2.7.3 · p. 151
अनुष्टुप्
उत्तमा तु वरारोहा या प्रोक्ता वरवर्णिनी ।मत्तकाशिन्यपि स्यात्सा भामिनीकोपने समे ॥ ४ ॥
2.7.4 · p. 151
अनुष्टुप्
महिषी साभिषेका स्याद् राज्ञोऽन्या भोगिनी मता ।अध्यूढा चाधिविन्ना च कृतसापत्निका तु या ॥ ५ ॥
2.7.5 · p. 151
अनुष्टुप्
पत्नी पाणिगृहीती स्याद् द्वितीया सहधर्मिणी ।जाया भार्या बहुत्वे तु पुंसि दाराः कुटुम्बिनी ॥ ६ ॥
2.7.6 · p. 152
अनुष्टुप्
पुरन्ध्य्रथ सती साध्वी सुचरित्रा पतिव्रता ।स्वयंवरा तु वर्या स्यात् सैव प्रोक्ता पतिंवरा ॥ ७ ॥
2.7.7 · p. 152
अनुष्टुप्
कुलजा कुलसंपन्ना कुलस्त्री दुहिता च समा इमाः ।कुमारी दारिका कन्या दुहिता च समा इमाः ॥ ८ ॥
2.7.8 · p. 152
अनुष्टुप्
तरुणी युवतिः प्रोक्ता स्नुषायां तु जनी वधूः ।सुवासिनी चिरण्टी स्यात्पार्श्वस्था प्रतिवेशिनी ॥ ९ ॥
2.7.9 · p. 152
अनुष्टुप्
पुंश्चली पांशुला स्वैरिण्यसती कुलटोच्यते ।विश्वस्ता विधवा रण्डा वीरा स्वामिसुतान्विता ॥ १० ॥
2.7.10 · p. 153
अनुष्टुप्
पतिवत्नी सनाथा स्यात्पलिक्नी जरती मता ।किञ्चिद्विज्ञा भवेत् प्राज्ञी प्राज्ञा तूत्कृष्टधीयुता ॥ ११ ॥
2.7.11 · p. 153
अनुष्टुप्
जातिः शूद्रस्य शूद्रा स्याद् भार्या शूद्री प्रकीर्तिता ।स्यादाभीरी गोपपत्नी पोटा श्मश्व्रादिचिह्निनी ॥ १२ ॥
2.7.12 · p. 153
अनुष्टुप्
उपाध्याय्यप्युपाध्याया स्वयं विद्योपदेशिका ।आचार्याणी तु पुंयोगादाचार्या विदुषी स्वयम् ॥ १३ ॥
2.7.13 · p. 153
अनुष्टुप्
अर्याण्यर्या जातिमात्रे क्षत्रिया क्षत्रियाण्यपि ।जातापत्या प्रसूता च प्रयाता च प्रसूतिका ॥ १४ ॥
2.7.14 · p. 154
अनुष्टुप्
कोटवी नग्निका नग्ना वीरमातरि वीरसूः ।वीरपत्नी भवेद्वीरभार्या दूतिस्तु दूतिका ॥ १५ ॥
2.7.15 · p. 154
अनुष्टुप्
साऽसिक्नी याऽवरोधस्तथा युवती दूतिकापदे ।स्ववशा परवेश्मस्था सैरन्ध्री शिल्पकारका ॥ १६ ॥
2.7.16 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 युव (syllable split)
वेश्या वारङ्गना रूपाजीवा च गणिका जनैः ।सत्कृता वारमुख्या स्याद् शम्भली कुट्टनी समे ॥ १७ ॥
2.7.17 · p. 154
अनुष्टुप्
आत्रेयी मलिनी पुष्पवत्यविर्ऋतुमत्यपि ।रजस्वला तथोदक्या स्त्रीधर्मिण्यामथो रजः ॥ १८ ॥
2.7.18 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्य (wrong syllable)
पुष्पमार्तवमेतस्माद् श्रद्धालुर्दोहदार्थिनी ।गर्भिण्यापन्नसत्त्वायामन्तर्वत्नी च गुर्विणी ॥ १९ ॥
2.7.19 · p. 155
अनुष्टुप्
निष्कला विगताऽऽर्तायां गणिकादेस्तु संहतौ ।गाणिक्यं गर्भिकं तद्वद् यौवतं च नपुंसकम् ॥ २० ॥
2.7.20 · p. 155
अनुष्टुप्
सौभागिनेय आख्यातः सुभगायाः परस्त्रियाः ।पारस्त्रैणेय एवं यः कानीनोऽनूढकन्यका ॥ २१ ॥
2.7.21 · p. 155
अनुष्टुप्
तस्याः सुतो विमातुस्तु वैमात्रेयः पितृष्वसुः ।पैतृष्वस्रेयपैतृष्वस्त्रीयौ मातृष्वसुस्तथा ॥ २२ ॥
2.7.22 · p. 156
अनुष्टुप्
भवेद्बान्धकिनेयोऽपि कौलटेरश्च बन्धुलः ।कौलटेयसुतेऽसत्याः अपि चेद्भिक्षुकी सती ॥ २३ ॥
2.7.23 · p. 156
अनुष्टुप्
तस्याः कौलटिनेयः स्यात्कौलटेयः स्वआत्मजः ।आत्मजन्मा सुतः सुनुः पुत्रस्यनय आत्मजान् ॥ २४ ॥
2.7.24 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सु (wrong syllable)
प्राहुर्दुहितं स्त्रीत्वे तोकाऽपत्ये तयोः समे ।स्वस्माज्जातः सवर्णायामुरस्यः स्यात्तथोरसः ॥ २५ ॥
2.7.25 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 प्रा (syllables merged)
तातः पिता च जनके माता तु जननी प्रसूः ।जनयित्री ननन्दा स्याद्भर्तुः स्वस्य तु या स्वसा ॥ २६ ॥
2.7.26 · p. 157
अनुष्टुप्
भगिनी पुत्रपुत्री तु पौत्री नप्त्री सुतासुता ।मातुली मातुलानी स्याद्भ्रातृजाया प्रजावती ॥ २७ ॥
2.7.27 · p. 157
अनुष्टुप्
यातरो भ्रातृवर्गस्य भार्याः स्युस्तु परस्परम् ।दम्पत्योर्जननी श्वश्रुर्जनकः श्वशुरो मिथः ॥ २८ ॥
2.7.28 · p. 157
अनुष्टुप्
पत्नीभ्राता भवेच्छ्यालः स्वामिभ्राता तु देवरः ।स्यात्पितृव्यः पितृर्भ्राता मातुरेष च मातुलः ॥ २९ ॥
2.7.29 · p. 157
अनुष्टुप्
जामाता कन्यकाकान्तो भागिनेयः स्वसुः सुतः ।मातामहो मातृतातः पितृतातः पितामहः ॥ ३० ॥
2.7.30 · p. 158
अनुष्टुप्
प्रमातामह आख्यातः पिता मातामहस्य यः ।पिता पितामहस्य स्यात्प्रपितामहनामवान् ॥ ३१ ॥
2.7.31 · p. 158
अनुष्टुप्
उभयोः पितरौ वृद्धविशेषणविशेषितौ ।सनाभिस्तु सपिण्डः स्याद्बन्धुसंघस्तु बन्धुता ॥ ३२ ॥
2.7.32 · p. 158
अनुष्टुप्
सगोत्रे बान्धवो बन्धुर्ज्ञातिः स्वः स्वजनोऽपि च ।सहोदरसगर्भ्यः स्यात्सोदर्यः सहजस्तथा ॥ ३३ ॥
2.7.33 · p. 158
अनुष्टुप्
उपभर्तरि जारः स्यात् पत्यौ भर्ता प्रियो धवः ।जारजो गोलकः पत्यौ मृते कुण्डस्तु जीविते ॥ ३४ ॥
2.7.34 · p. 159
अनुष्टुप्
भ्रात्रीयो भ्रातृजो भ्रातृपुत्रे भ्रातृव्य इत्यपि ।जंपती दंपती जायापती स्त्रीपुरुषावुभौ ॥ ३५ ॥
2.7.35 · p. 159
अनुष्टुप्
गर्भाशयो जरायुर्द्वौ गर्भवेष्टनचर्मणः ।कुक्षिस्थस्य भवेद्भ्रूणो गर्भो वैजननस्तु यः ॥ ३६ ॥
2.7.36 · p. 159
अनुष्टुप्
सूतिमासस्तृतीयस्तु शण्डः क्लीबो नपुंसकः ।प्रकृतिः स्थाविरं वृद्धसंघोऽपि स्याच्च वार्धकम् ॥ ३७ ॥
2.7.37 · p. 159
अनुष्टुप्
शिरोजातस्य पलितं शुक्लता विस्रसा जरा ।डिम्भोत्तानशया बाला स्तनपाऽपि स्तनन्धयी ॥ ३८ ॥
2.7.38 · p. 160
अनुष्टुप्
बाले माणवको हारभेदे कुपुरुषेऽपि च ।स्थविरे प्रवया वृद्धो वयःस्थे तरुणो युवा ॥ ३९ ॥
2.7.39 · p. 160
अनुष्टुप्
अतिवृद्धे द्वयोर्ज्यायान् ज्येष्ठे स्तः पूर्वजाऽग्रजौ ।यविष्ठश्च कनिष्ठश्च जघन्येऽवरजाऽनुजौ ॥ ४० ॥
2.7.40 · p. 160
अनुष्टुप्
वलिनो वलिभद्रश्च जरसाश्लथचर्मणि ।सुकेशो केशिकः केशी ह्रस्वखर्वौ तु वामनः ॥ ४१ ॥
2.7.41 · p. 160
अनुष्टुप्
अवभ्रटोऽवटीटोऽवनाटो यो नतनासिकः ।न्यूनाङ्गे स्यादपोगण्डः खरणास्तीक्ष्णनासिकः ॥ ४२ ॥
2.7.42 · p. 161
अनुष्टुप्
दुर्बलाऽमांसलौ तुल्यौ बलिन्यंसलमांसलौ ।संज्ञुः संहतजानुः स्यात्प्रज्ञुर्विरलजानुकः ॥ ४३ ॥
2.7.43 · p. 161
अनुष्टुप्
स्यात्कृतनासिको विग्रः खुरणाः स्थूलनासिकः ।एकाक्षे कननः काणः केकरो बलिरस्तथा ॥ ४४ ॥
2.7.44 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
स्यादेडो बधिरे कुब्जे न्युब्जो गडुल इत्युभौ ।रोगाद्यैर्दूषिते हस्ते कुणिर्मुण्डस्तु मुण्डिते ॥ ४५ ॥
2.7.45 · p. 161
अनुष्टुप्
स्यातां खञ्जखोणावूर्ध्वज्ञस्तूर्ध्वजानुके ।पङ्गुः श्रोणश्च निर्जङ्घे त्रिष्वेते पलितात्परे ॥ ४६ ॥
2.7.46 · p. 162
अनुष्टुप्metre not read in every line
देहोऽस्त्री विग्रहः कायः पुंसि मूर्तिस्तनुः स्त्रियाम् ।शरीरवर्ष्मगात्राणि वपुः क्लीबं कलेवरम् ॥ ४७ ॥
2.7.47 · p. 162
अनुष्टुप्
समाः परिणेयोद्वाहविवाहोपयमास्तथा ।पाणीपीडनमानन्दपटस्तूढाम्बरे नवे ॥ ४८ ॥
2.7.48 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णे (wrong syllable)
छत्रामिषिः स्त्री मौलित्रे स्याद्वरः परिणेतरि ।ज्येष्ठेऽनूढे कृतोद्वाहः परिवेत्ताऽनुजः स्मृतः ॥ ४९ ॥
2.7.49 · p. 162
अनुष्टुप्
तज्ज्येष्ठः परिवित्तिः स्याद् व्यवायः पुंसि मैथुनम् ।तिलकस्तिलचिह्ने स्याज्जडुले पिप्लुकालकौ ॥ ५० ॥
2.7.50 · p. 163
अनुष्टुप्
चिकित्सा रुक्प्रतीकारः आरोग्याऽनामये समे ।औषधं भेषजं किञ्च भैषज्यमगदः पुमान् ॥ ५१ ॥
2.7.51 · p. 163
अनुष्टुप्
व्याध्यामयगदाः रोगोपतापौ रुग्रुजा स्त्रियाम् ।यक्ष्मा शोषः क्षवो राजरोगाः स्त्री क्षुत् क्षवः क्षुतम् ॥ ५२ ॥
2.7.52 · p. 163
अनुष्टुप्
पीनसः स्यात्प्रतिश्यायः पादस्फोटे विपादिका ।खर्जूः कण्डूश्च कण्डूया शोफशोथौ समावुभौ ॥ ५३ ॥
2.7.53 · p. 163
अनुष्टुप्
पुंसि स्यात्क्षवथुः कासः कच्छू पामा विचर्चिका ।पिटकश्चापि विस्फोटस्त्रिषु सिध्मं किलासकम् ॥ ५४ ॥
2.7.54 · p. 164
अनुष्टुप्
त्वक्पुष्पी श्वित्रकुष्ठे द्वे कोठो मण्डलकं पृथक् ।वमिः प्रच्छर्दिकावन्तिर्मूत्रकृच्छेऽश्मरी स्त्रियाम् ॥ ५५ ॥
2.7.55 · p. 164
अनुष्टुप्
मूत्राघाते निबन्धो ना ग्रहणी तु प्रवाहिका ।सालित्यरोगे शेशघ्नस्तापरोगे ज्वरः पुमान् ॥ ५६ ॥
2.7.56 · p. 164
अनुष्टुप्
प्रमेहे स्यु र्मूत्रमेहमधुमेहादयो भिदाः ॥ ५७ ॥
2.7.57 · p. 165
अर्शो दुर्नामकं क्लीबं महामाया विसूचिका ।भगन्दरादयोऽप्येवं व्याधिभेदा उदाहृताः ॥ ५८ ॥
2.7.58 · p. 165
अनुष्टुप्
आतुरो व्याधितो रोगी स्यादुल्लाघस्तु निर्गदः ।भिषग्वैद्याऽगदंकाररोगहारिचिकित्सकाः ॥ ५९ ॥
2.7.59 · p. 165
अनुष्टुप्
चिल्लो विल्लश्च पिल्लश्च क्लिन्ने नेत्रे च तद्वति ।अतिसारोऽप्यतीसारी वातरोगी तु वातकी ॥ ६० ॥
2.7.60 · p. 165
अनुष्टुप्
अन्धो नेत्रविहीनः स्यादुन्मत्तोन्मादिनौ समौ ।मूर्च्छलो मूर्च्छिते न्युब्जे भुग्ने शोषिणि तु क्षयी ॥ ६१ ॥
2.7.61 · p. 165
अनुष्टुप्
खल्वाटे खलतिर्व्याधे वृद्धनाभौ च तुन्दिलः ।श्लेष्मा कफः श्लेष्मलस्तु श्लेष्मणः कफिनि स्मृतः ॥ ६२ ॥
2.7.62 · p. 166
अनुष्टुप्
सकुष्ठकुष्ठिनौ तुल्यौ त्रिलिङ्यामातुरादयः ।दद्रुणोऽसृग्धरा चर्म तरलं पिशिताऽमिषे ॥ ६३ ॥
2.7.63 · p. 166
अनुष्टुप्
मांसं क्रव्यं च पललं शोणिते रुधिराऽसृजौ ।क्षतजं लोहितं रक्तमस्रमश्रुणि लोहिते ॥ ६४ ॥
2.7.64 · p. 166
अनुष्टुप्
वुक्काऽग्रमांस स्त्री गुल्मः प्लीहा मेदो वसा वया ।मायुः पुंसि भवेत्पित्तं स्नायुस्तु वस्नसा स्त्रियाम् ॥ ६५ ॥
2.7.65 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
कालखण्डं यकृत्क्लीबे तिलकं क्लोम फुप्फुसे ।गोदं गोर्दं च मस्तिष्कं क्लीबे किट्टे मलोऽस्त्रियाम् ॥ ६६ ॥
2.7.66 · p. 167
अनुष्टुप्
क्लीबे पुरी तदन्त्रे च लाला तु स्यन्दिनी स्त्रियाम् ।स्यात्पिञ्जूषं श्रोत्रमलं सिंघाणं नासिकामलम् ॥ ६७ ॥
2.7.67 · p. 167
अनुष्टुप्
दूषिका स्त्री नेत्रमलं कुल्यं कीकसमस्थिनि ।प्रस्रावः पुंसि मूत्रं स्याद् रेचनं तु विरेचने ॥ ६८ ॥
2.7.68 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
उच्चाराऽवस्करौ पुंसि गूथं च शमलं शकृत् ।विष्ठा विट् च स्त्रियामेव वर्चस्कं न स्त्रियां क्वचित् ॥ ६९ ॥
2.7.69 · p. 168
अनुष्टुप्
कङ्कालः पुंसि कायाऽस्थ्नि पृष्ठाऽस्थ्नी स्त्री कशेरुका ।स्यात्पर्शुका स्त्री पार्श्वास्थि करोटिः स्त्री शिरोऽस्थनि ॥ ७० ॥
2.7.70 · p. 168
अनुष्टुप्
क्लीबे शीर्षं शिरो मूर्ध मौली पुंस्यस्त्रि मस्तकम् ।चक्षुरक्षीक्षणं नेत्रं नयनं लोचनं समम् ॥ ७१ ॥
2.7.71 · p. 168
अनुष्टुप्
दृग्दृष्टिश्च स्त्रियां क्लीबे श्रोत्रं तु श्रवणं श्रवः ।पुंसि शब्दग्रहः कर्णः श्रुतिः स्त्रीलिङ्गमुच्यते ॥ ७२ ॥
2.7.72 · p. 168
अनुष्टुप्
कटाक्षोऽपाङ्गचेष्टायां नेत्रान्तोऽपाङ्ग उच्यते ।तारकाऽक्ष्णः कृष्णगोले भ्रूमध्यं कूर्चमस्त्रियाम् ॥ ७३ ॥
2.7.73 · p. 169
अनुष्टुप्
भ्रूः स्त्रियां चक्षुषोरूर्ध्वमोष्ठान्ते सृक्किसृक्कणी ।गण्डः कपोलः पुंस्योष्ठे त्वधरो रदनच्छदः ॥ ७४ ॥
2.7.74 · p. 169
अनुष्टुप्
ओष्ठात्परं स्याच्चिबुकं कपोलस्तु हनुः स्त्रियाम् ।क्लीबमास्यं मुखं तुण्डं वदनं वक्त्रमाननम् ॥ ७५ ॥
2.7.75 · p. 169
अनुष्टुप्
जंभा जृम्भा स्त्रियां जृम्भः पुंसि क्लीबे तु जृम्भणम् ।जिह्वा रसज्ञा रसना समे काकुदतालुनी ॥ ७६ ॥
2.7.76 · p. 169
अनुष्टुप्
ललाटमलिकं भालं घ्राणं घोणाऽपि नासिका ।ग्रीवाऽग्रो गलकण्ठौ च ग्रीवात् कन्धरा स्त्रियाम् ॥ ७७ ॥
2.7.77 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कृकाटिकाऽवटुर्घाटा गलवृद्धिर्गडुः पुमान् ।प्रसृतिः स्त्री करे कुब्जे युक्तयोर्नाऽञ्जलिस्तयोः ॥ ७८ ॥
2.7.78 · p. 170
अनुष्टुप्
पाणिः शयः करः पुंसि तच्छाखा त्वङ्गुलिः स्त्रियाम् ।पुंस्यङ्गुष्ठस्तर्जनी स्त्री सैव ख्याता प्रदेशिनी ॥ ७९ ॥
2.7.79 · p. 170
अनुष्टुप्
मध्यमाऽनामिका किञ्च कनिष्ठेति क्रमादसौ ।हस्ताघातश्चपेटा स्त्री करर्द्धिः करतालिका ॥ ८० ॥
2.7.80 · p. 170
अनुष्टुप्
कफोणिः कूर्परस्तुल्यः प्रगण्डः कूर्परोपरि ।प्रकोष्ठस्तदधः पुंसि भुजबाहू द्वयोः समौ ॥ ८१ ॥
2.7.81 · p. 171
अनुष्टुप्
मध्योऽस्त्री मध्यमं क्लीबं पृष्ठं स्यात्कायपश्चिमम् ।पुंसि कक्षो बाहुमूलं तदधः पार्श्वमस्त्रियाम् ॥ ८२ ॥
2.7.82 · p. 171
अनुष्टुप्
अंसस्कन्धौ समौ तस्य सन्धिर्जत्रु नपुंसकम् ।स्त्रीनपुंसकयोः क्रोडमुरो वक्षो भुजान्तरे ॥ ८३ ॥
2.7.83 · p. 171
अनुष्टुप्
स्तनाग्रः चूचुकं न स्त्री वक्षोजस्तु कुचः स्तनः ।कुक्षिः पुंस्युदरं तुन्दं क्लीबं जठरमस्त्रियाम् ॥ ८४ ॥
2.7.84 · p. 171
अनुष्टुप्
योनिर्द्वयोर्भगं शिश्ने शेफो मेढ्रं च मेहनम् ।मुष्केऽण्डकोशवृषणावुपस्थो भगशिश्नयोः ॥ ८५ ॥
2.7.85 · p. 172
अनुष्टुप्
स्यान्नितम्बः पुंसि पश्चात् स्त्रीकट्या जघनं पुरः ।पृष्ठवंशादधोगर्तदेशः क्लीबं कुकुन्दरम् ॥ ८६ ॥
2.7.86 · p. 172
अनुष्टुप्
श्रोणिः कटिः स्त्रियां वस्तिर्द्वयोर्मूत्राशयः पुमान् ।क्लीबेऽपानं गुदं पुंसि पायुरूरुस्तु सक्थनि ॥ ८७ ॥
2.7.87 · p. 172
अनुष्टुप्
जानूरुपवर्णी तुल्ये जंघा तु प्रसृता स्त्रियाम् ।ऊरोः सन्धिर्वङ्क्षणः स्यात्पादाग्रप्रपदे समे ॥ ८८ ॥
2.7.88 · p. 172
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
क्रमः पादः पदङ्घ्रिश्च चरणोऽस्त्री समा इमे ।नववरोऽपि नखोऽस्त्री ना करेरुहपुनर्भवौ ॥ ८९ ॥
2.7.89 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पञ्चशास्वकरेऽङ्गुष्ठे तर्जन्यादि चतसृभिः ।साकं तते तत्तदन्तर्देशाः स्युः क्रमशस्त्विमे ॥ ९० ॥
2.7.90 · p. 173
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable)
प्रादेशतालगोकर्णा वितस्तिर्द्वादशाङ्गुलः ।द्वयोश्चपेटः प्रतलः पुंसि पाणौ तताऽङ्गुलौ ॥ ९१ ॥
2.7.91 · p. 173
अनुष्टुप्
वामश्च दक्षिणः पाणिः संहतौ विततौ यदि ।तयोर्यः प्रतलः स स्याद् नाम्ना सिहतलः स्मृतः ॥ ९२ ॥
2.7.92 · p. 173
अनुष्टुप्
केशः शिरोरुहो बालः कचश्चिकुरकुन्तलौ ।केशवेशस्तु कवरी धम्मिलः संयतः कचः ॥ ९३ ॥
2.7.93 · p. 174
अनुष्टुप्
केशपाशी शिखा चूडा तापसानां जटा मता ।अलकः कुटिलो बालस्तद्वृन्दं कैश्यकैशिकौ ॥ ९४ ॥
2.7.94 · p. 174
अनुष्टुप्
स्त्रीणां शिरःस्थिता वेणिः प्रवेणिर्जूटिकाऽऽकृतिः ।बाह्वोरङ्गदकेयूरे भूषणं तन्नपुंसकम् ॥ ९५ ॥
2.7.95 · p. 174
अनुष्टुप्
रशना मेखला काञ्ची कटिसूत्रं च शृङ्खलम् ।मञ्जीरो नूपुरो न स्त्री हंसकश्च पुमानयम् ॥ ९६ ॥
2.7.96 · p. 174
अनुष्टुप्
किङ्किणी क्षुद्रघण्टा स्यात्तूलं रूतमुभे समे ।वस्त्रयोनिः कृमी रोम त्वक् फलं त्रिषु ते दश ॥ ९७ ॥
2.7.97 · p. 174
अनुष्टुप्
कार्पासं बादरं फालं कौशेयं कृमिकोशजम् ।वाल्कं क्षौमं राङ्कवन्तु मृगरोमोद्भवाऽम्बरम् ॥ ९८ ॥
2.7.98 · p. 175
अनुष्टुप्
नववस्त्रं निष्प्रवाणि तन्त्रकाऽनाहते अपि ।क्लीबे तूद्गमनीयं तद् यद्धौताऽऽच्छादनद्वयम् ॥ ९९ ॥
2.7.99 · p. 175
अनुष्टुप्
क्षौमे दुकूलं, पत्रोर्णधौतकौशेयवाससि ।तसरत्रसरौ दिव्यसूत्रनिर्मितमम्बरम् ॥ १०० ॥
2.7.100 · p. 175
अनुष्टुप्
दशाः स्त्रियां भूमनि स्युर्वस्त्रस्य प्रान्तयोर्द्वयोः ।पटच्चरं जीर्णवस्त्रं कन्था स्त्री स्यूतवाससि ॥ १०१ ॥
2.7.101 · p. 175
अनुष्टुप्
जीर्णवस्त्रे खण्डिते तु कर्पटो लक्तकः समौ ।स्त्रियां मशहरी स्यूतवस्त्रे मशकवारणे ॥ १०२ ॥
2.7.102 · p. 176
अनुष्टुप्
स्यात्स्त्रियां चीरिका कच्छा कौपीनं मलमल्लकम् ।रल्लकः कम्बलः पुंसि वराशिः स्थूलवाससि ॥ १०३ ॥
2.7.103 · p. 176
अनुष्टुप्
सुचेलः शोभने वस्त्रे निचोलः प्रच्छदः पटः ।संख्यानमुत्तरासङ्गोऽथोत्तरीयेष्वधोंऽशुकं ॥ १०४ ॥
2.7.104 · p. 176
अनुष्टुप्
परिधानोपसंख्यानाऽन्तरीयाण्यथ चोलकः ।कूर्पासकः स्त्रियां मूर्ध्नि वस्त्रं स्यादवगुण्ठनम् ॥ १०५ ॥
2.7.105 · p. 176
अनुष्टुप्
चण्डातकं तु स्याच्छ्रेष्ठं स्त्रीणामर्द्धोरुकेंऽबरे ।बहुमूल्ये तूर्णवस्त्रे स्याद्द्विशालो द्वयोरयम् ॥ १०६ ॥
2.7.106 · p. 177
अनुष्टुप्
नीशारो ना प्रावरणे शीतवातादिवारणे ।चैलमाच्छादनं वस्त्रं वासो वसनमंशुकम् ॥ १०७ ॥
2.7.107 · p. 177
अनुष्टुप्
दूष्या पटकुटी साऽल्पांऽशुकुटीरः पुमानयम् ।विताने चन्द्रकोल्लोचौ काण्डपट्टे तु कोणिका ॥ १०८ ॥
2.7.108 · p. 177
अनुष्टुप्
परदायां जवनिका तिरस्करिणिकाऽपि सा ।स्यादुद्वर्तनमुत्सादो मार्जना तु मृजा स्त्रियाम् ॥ १०९ ॥
2.7.109 · p. 177
अनुष्टुप्
परिकर्माङ्गसंस्कारे स्नाने त्वाप्लाव आप्लवः ।चर्चा स्त्री स्थासकः पत्रालेखा पत्राङ्गुली समे ॥ ११० ॥
2.7.110 · p. 178
अनुष्टुप्
विशेषकं स्यात्तिलकेऽनुबोधस्तु प्रबोधने ।यावालक्तौ जतु क्लीबे लाक्षायां स्यादथाऽगुरु ॥ १११ ॥
2.7.111 · p. 178
अनुष्टुप्
वंशिकं जोङ्गकं च स्यान्न द्वयोरथ यावनः ।सिह्लोऽथ यक्षधूपस्तु रालः सर्जरसः पुमान् ॥ ११२ ॥
2.7.112 · p. 178
अनुष्टुप्
कालीयकं जायकं स्यात्कुङ्कुमाऽग्निशिखे समे ।कालागुरुणि मङ्गल्या श्रीवासः सरलद्रवः ॥ ११३ ॥
2.7.113 · p. 178
अनुष्टुप्
वृकधूपोऽनेकवस्तुकृते धूपे मनोहरे ।कर्पूरो घनसारः स्याच्चन्द्रः स्त्री हिमवालुका ॥ ११४ ॥
2.7.114 · p. 179
अनुष्टुप्
पाटीरश्चन्दनो गन्धसारो मलयजः समाः ।केशराऽगुरुकर्पूरकस्तूरीकोलकैः कृतम् ॥ ११५ ॥
2.7.115 · p. 179
अनुष्टुप्
मिश्रितं सर्वमेकत्र प्रोच्यते यक्षकर्दमः ।विलेपनं वर्णकं स्याद्वर्तिर्गात्राऽनुलेपनी ॥ ११६ ॥
2.7.116 · p. 179
अनुष्टुप्
पिष्टातः पटवासोऽपि वासयोगोऽथ वासितम् ।भाविते त्रिषु माल्यादेः संस्कारस्त्वधिवासनम् ॥ ११७ ॥
2.7.117 · p. 179
अनुष्टुप्
न्यस्ता मूर्ध्नि भवेन्माल्यं माला स्रक् कुसुमावलिः ।गर्भकः केशमध्यस्थं ललाटस्थं ललामकम् ॥ ११८ ॥
2.7.118 · p. 180
अनुष्टुप्
प्रभ्रष्टकं शिखान्यस्ते प्रालम्बं कण्ठलम्बिनि ।रचनायां परिस्पन्दः समा वापीडशेखरौ ॥ ११९ ॥
2.7.119 · p. 180
अनुष्टुप्
शय्यायां शयनं तल्पं स्यादाभोगस्तु पूर्णता ।तूलतल्पं तल्पभेदे गेन्दुकः कन्दुकः पुमान् ॥ १२० ॥
2.7.120 · p. 180
अनुष्टुप्