कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

द्वितीयकाण्डम् · क्षत्रियवर्गः (2/2)

अस्त्रियां कलहाऽनीकरणाः समरविग्रहौ ।समुदायसमाघाताभ्यामर्दाऽभ्यागमाऽहवाः ॥ १२० ॥
2.9.120 · p. 222
अनुष्टुप्
संग्राम संप्रहाराऽभिसंपातकलिसंयुगाः ।संस्फोटः स्त्री समित्याऽऽजिसमित्संयद्युधः स्मृताः ॥ १२१ ॥
2.9.121 · p. 222
अनुष्टुप्
बाहुयुद्धं नियुद्धं स्यात्तुमुलं भयदो रणः ।धनुर्ध्वनौ तु विस्फारो बृंहितं गजगर्जितम् ॥ १२२ ॥
2.9.122 · p. 222
अनुष्टुप्
सिंहनादः स्त्रियां क्ष्वेडा गजसंघट्टनं घटा ।मोहो ना कश्मलं क्लीबे मूर्छायामथ पीडनम् ॥ १२३ ॥
2.9.123 · p. 222
अनुष्टुप्
अवमर्दो रणध्वाने पटहाऽडम्बरौ समौ ।उत्पातस्तूपसर्गोऽथ मर्यादास्खलनं छलम् ॥ १२४ ॥
2.9.124 · p. 223
अनुष्टुप्
छलादाक्रमणं यत्तदभ्यवस्कन्दनं मतम् ।आक्रोशपूर्वके शब्दे क्रन्दनं विजये जयः ॥ १२५ ॥
2.9.125 · p. 223
अनुष्टुप्
तिरोहितस्तु नष्टः स्याद् युद्धभङ्गः पराजयः ।पराजितः पराभूतो विजितो निर्जितस्त्रिषु ॥ १२६ ॥
2.9.126 · p. 223
अनुष्टुप्
वैरनिर्यातनं वैरशुद्धिर्वैरविशोधनम् ।प्रतीकारोऽथ संद्रावाऽपक्रमौ च पलायनम् ॥ १२७ ॥
2.9.127 · p. 223
अनुष्टुप्
बलात्कारो हठः पुंसि क्लीबं तु प्रसभं भवेत् ।निधानोऽस्त्री द्वयोर्मृत्युर्नाशाऽन्तप्रलयाऽत्ययाः ॥ १२८ ॥
2.9.128 · p. 224
अनुष्टुप्
कथाशेषश्च मरणं पञ्चत्वं पञ्चताऽपि च ।घाताऽऽलम्भवधोन्माथा निषूदननिबर्हणे ॥ १२९ ॥
2.9.129 · p. 224
अनुष्टुप्
मारणं हननं चोज्जासनप्रमथने अपि ।प्रमीतः प्राप्तपञ्चत्वं परासुः प्रेतसंस्थितौ ॥ १३० ॥
2.9.130 · p. 224
अनुष्टुप्
नामशेषः परेतश्च मृतः स्युर्द्वादशः त्रिषु ।कबन्धोऽस्त्री स यो नृत्यन्निर्मस्तककलेवरः ॥ १३१ ॥
2.9.131 · p. 224
अनुष्टुप्
स्त्रियां चिता चितिश्चित्या श्मशानं तु चितास्थलम् ।शवोऽस्त्री कुणपः पुंसि शवयानं तु खाटिका ॥ १३२ ॥
2.9.132 · p. 224
अनुष्टुप्
पुं भूमन्यसवः प्राणाः जीवस्तु प्राणधारणम् ।आयुर्जीवनकालः स्याज्जीवातुः पुंसि जीवदः ॥ १३३ ॥
2.9.133 · p. 225
अनुष्टुप्
नीराजना स्त्रियामारात्रिकमारार्तिकं यथा ।अर्हः पूज्ये सपर्यायामर्हणाऽर्हाऽर्हणं तथा ॥ १३४ ॥
2.9.134 · p. 225
अनुष्टुप्