All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
तृतीयकाण्डम् · लिङ्गादिनिर्णयवर्गः
॥ इति अव्ययवर्गः समाप्तः ॥
॥ अथ लिङ्गादिनिर्णयवर्गः प्रारभ्यते ॥
लिङ्गनिर्देशकैः शास्त्रैः नानासूत्रसमन्वितैः ।सन्नादिनिर्मितैः शब्दैः कृत्तद्धितसमासजैः ॥ १ ॥
3.5.1 · p. 355
अनुष्टुप्
लिङ्गादिसंग्रहत्वेन संक्षेपवर्गनामके ।पूर्वानुक्तैर्लिङ्गादीन् प्रकीर्णवदिहोन्नयेत् ॥ २ ॥
3.5.2 · p. 355
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 3, syllable 4 क्तै (syllables merged)
लिङ्गोत्सर्गविधिर्ज्ञेयः काण्डत्रय उदाहृतः ।विशेषविधिना नो चेत् कदाचित् बाधितो भवेत् ॥ ३ ॥
3.5.3 · p. 355
अनुष्टुप्
ईदूदन्तः स्त्रियामेकाच् सयोनिप्राणिनामनि ।वाणी वल्ली निशा विद्युन्नदी दिग्भूधियां तथा ॥ ४ ॥
3.5.4 · p. 355
अनुष्टुप्
अदन्तोत्तरशब्दश्चेद् द्विगुरेकार्थबोधकः ।नो चेद्भुवनपात्राद्यैरदन्तैर्जातु संयुतः ॥ ५ ॥
3.5.5 · p. 356
अनुष्टुप्
समूहे येनिकट्यत्रास्तल्वैरमिथुनादिवुः ।स्त्रियां क्तिन्ननिण्वुल्ण्वुज् णज् युच् क्यवङिञ् निशाः स्मृताः ॥ ६ ॥
3.5.6 · p. 356
अनुष्टुप्metre not read in every line
उणादावीर्निरुश्चोक्त ऊङ् ङ्याबन्तं स्थिरं चलम् ।प्रहरणं तत्क्रीडायां दाण्डा मौष्टा णदिक् स्मृता ॥ ७ ॥
3.5.7 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ह (wrong syllable)
सा क्रियाऽस्यां घञो ञः स्याद् दाण्डापातातिथिः स्मृता ।मृगया स्यैनंपाता स्यात् तैलपाता स्वधा स्मृता ॥ ८ ॥
3.5.8 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
विवक्षाऽपचये चेत् स्त्री मृणाल्यादिरुदाहृता ।टीका शेफालिका लङ्का घातकी पञ्जिकाढकी ॥ ९ ॥
3.5.9 · p. 357
अनुष्टुप्
सारिका सिघ्रका हिक्का प्राचिकोल्का पिपीलिका ।कणिका तिन्दुकी भङ्गिः सुरङ्गामाढिसूचयः ॥ १० ॥
3.5.10 · p. 358
अनुष्टुप्
कन्था साति रथा सन्दी नाभिराज सभा तथा ।वितण्डा काकिणी पिच्छा शाणी चूर्णिर्द्रुणी दरत् ॥ ११ ॥
3.5.11 · p. 358
अनुष्टुप्
चर्चरी झल्लरी होरा पारी लट्वा च सिद्मला ।लिक्षा लाक्षाऽथ गण्डूषा चमसी गृध्रसी मसी ॥ १२ ॥
3.5.12 · p. 358
अनुष्टुप्
इत्येवं स्त्रीत्वसंयुक्ताः शब्दाः स्त्रीत्वे प्रकीर्तिताः ।पुंस्त्वं इत्यधिकारेऽस्मिन् सभेदानुचरास्तथा ॥ १३ ॥
3.5.13 · p. 358
अनुष्टुप्
पर्यायसहिताः सर्वे देवा दैत्या उदाहृताः ।स्वर्गाद्रिमेघयागाब्धिवृक्षकालारिशरासयः ॥ १४ ॥
3.5.14 · p. 359
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
एते हि नित्यपुंल्लिङ्गा यथाशास्त्रं प्रकीर्तिताः ।कपोलाधरदोर्दन्तकोशकण्ठकरस्तनाः ॥ १५ ॥
3.5.15 · p. 359
अनुष्टुप्
अह्नाहान्ताः नखक्ष्वेडाः रात्रान्ताः प्रागसंख्यकाः ।सरलाद्याश्च निर्यासा अन्नसन्ता अबाधिताः ॥ १६ ॥
3.5.16 · p. 360
अनुष्टुप्
जतु कशेरु वस्तूनि त्यक्त्वा तुर्ववसानकाः ।कणभमरषोपान्त्या अदन्ताश्चेदमी तथा ॥ १७ ॥
3.5.17 · p. 361
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 3 भ (wrong syllable)
टथन पय सोपान्त्या गोत्राश्च चरणाह्वयाः ।संज्ञायां कारके कर्तृभिन्ने भावे च प्रत्ययाः ॥ १८ ॥
3.5.18 · p. 361
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable); pāda 4, syllable 5 च (wrong syllable)
तदन्ताः पुंसि विज्ञेया घञ्जब्नङथुज् णघाः ।कर्तरिल्युस्तथा भावे केमनिज्घोकिरुदाहृतः ॥ १९ ॥
3.5.19 · p. 362
metre not recognisednearly अनुष्टुप्
इतरेतरयोगे तु द्वन्द्वेऽश्ववडवौ स्मृतौ ।तथाऽश्ववडवा वाप्यश्ववडवं समाहते ॥ २० ॥
3.5.20 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ड (wrong syllable)
सूर्यचन्द्रसमायुक्तः कान्तोऽयःपूर्व एव च ।रल्लकश्चानुवाकश्च वटकश्च कुडङ्गकः ॥ २१ ॥
3.5.21 · p. 363
अनुष्टुप्
न्युङ्खः पुंखः समुद्गश्च खटपट्टविटाः घटः ।घट्टकोट्टारहट्टाश्च पिचण्डगोण्डपिण्डवत् ॥ २२ ॥
3.5.22 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ड (wrong syllable)
किणो घुणो वरण्डश्च करण्डो लगुडो गडुः ।रोमन्थो दृतिसीमन्तौ हरिदुद्गीथबुद्बुदाः ॥ २३ ॥
3.5.23 · p. 363
अनुष्टुप्
स्तूपः फेनोऽर्बुदः कुन्दः कासमर्दश्च पूपकः ।कणपक्षुरचुक्राश्च क्षत्रिये नाभिरातपः ॥ २४ ॥
3.5.24 · p. 364
अनुष्टुप्
क्षुरप्रः केदरः पूरो गोलपुद्गलहिंगुलाः ।मल्लो भल्लश्च वेतालः पुरोडाशस्तु पट्टिशः ॥ २५ ॥
3.5.25 · p. 364
अनुष्टुप्
रभसश्चैव कुल्माषः कटाहश्च पतद्ग्रहः ।क्लीब इत्यधिकारेऽस्मिन् उक्तान्यत् समुदाहृतम् ॥ २६ ॥
3.5.26 · p. 364
अनुष्टुप्
अरण्यं खं तथा पर्णं हिमं श्वभ्रं तथोदकम् ।उष्णं शीतं बलं मांसं रुधिराक्षि द्रविणं मुखम् ॥ २७ ॥
3.5.27 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 रुधि (syllable split)
हेम शुल्वं फलं लोहं सुखं दुःखं शुभाशुभम् ।जलजानि च पुष्पाणि व्यञ्जनं लवणं तथा ॥ २८ ॥
3.5.28 · p. 365
अनुष्टुप्
अनुलेपनं तथा पुण्यं पापश्च समुदाहृतम् ।कोटिं विहाय संख्याऽन्या शतादि परमावधिः ॥ २९ ॥
3.5.29 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लक्षं लक्षेति विज्ञेयमसिसुन्तं स्वरद्वयम् ।अन् अन शब्दान्तमाख्यातं कर्तृभिन्नार्थवाचकम् ॥ ३० ॥
3.5.30 · p. 365
अनुष्टुप्
सलोपान्त्यं त्रशब्दान्तं नो चेत् पूर्वेण बाधितम् ।संख्या पूर्वपदं रात्रशब्दान्तं समुदाहृतम् ॥ ३१ ॥
3.5.31 · p. 366
अनुष्टुप्
पात्राद्यन्तो यथा लक्ष्यं द्विगुरेकार्थवाचकः ।द्वन्द्वैकार्थसमाहारोऽव्ययीभावस्तथैव च ॥ ३२ ॥
3.5.32 · p. 366
अनुष्टुप्
संख्याऽव्ययात्परः पन्थाः समासान्तान्वितो भवेत् ।षष्ठ्यन्ताच्चेत्परा छाया बहुत्वे संगता यदि ॥ ३३ ॥
3.5.33 · p. 366
अनुष्टुप्
तत्पुरुषे समूहार्थे सभाशब्दान्त एव च ।शालार्थाऽपि सभाराजाऽमनुष्यार्थादराजकात् ॥ ३४ ॥
3.5.34 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
षष्ठ्यन्ताच्चेत्परा सा स्यात् दासी सममुदाहृतम् ।उपज्ञोपक्रमान्तश्च प्राथम्यस्य प्रकाशने ॥ ३५ ॥
3.5.35 · p. 367
अनुष्टुप्
कन्थोशीनरदेशस्य संज्ञायां समुदाहृता ।भावे कणनचिद्भिन्नाः समूहे भावकर्मणोः ॥ ३६ ॥
3.5.36 · p. 367
अनुष्टुप्
अदन्तप्रत्ययान्ताश्च शब्दाः क्लीबे प्रकीर्तिता ।पुण्याहं सुदिनाहञ्च द्वयमेतत्तथैव च ॥ ३७ ॥
3.5.37 · p. 368
अनुष्टुप्
क्रियाणामव्ययानाञ्चैकत्वं भेदके स्मृतम् ।उक्थं च तोडकं चोचं तिरीटं मर्म योजनम् ॥ ३८ ॥
3.5.38 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गृहस्थूणं तथा पिच्छं गद्यं पद्यं कवेः कृतौ ।राजसूयं तथा यज्ञे वाजपेयञ्च संस्मृतम् ॥ ३९ ॥
3.5.39 · p. 368
अनुष्टुप्
स्थालं बाहलवमित्येते क्लीबे शब्दाः प्रकीर्तिताः ।पुंनपुंसक इत्यस्मिन् अधिकारे प्रदर्शिताः ॥ ४१ ॥
3.5.41 · p. 369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दा अधस्ताद्विख्याताः पिण्याकार्धर्चकण्टकाः ।तण्डको मोदकष्टङ्कः खर्वटः शाटकोऽर्बुदः ॥ ४२ ॥
3.5.42 · p. 369
अनुष्टुप्
पातकश्चरकोद्योगौ तमालामलकौ नडः ।बुस्तं मुण्डं शीधु कुष्ठं क्षेमं क्ष्वेडितसंगमम् ॥ ४३ ॥
3.5.43 · p. 369
अनुष्टुप्
कुट्टिमं शतमानार्मताण्डवाव्ययशम्बलम् ।कर्पासं कवियं कन्दं यूषं यूपं युगन्धरम् ॥ ४४ ॥
3.5.44 · p. 370
अनुष्टुप्
प्रग्रीवं चमसं पारावारं पात्रीव चिक्कसौ ।अर्घर्चादिगणेऽन्येषां घृतादीनां च संग्रहः ॥ ४५ ॥
3.5.45 · p. 370
अनुष्टुप्
तस्याकृतिगणत्वाद्धि बोद्धव्यो विबुधैः सदा ॥
3.5.46 · p. 370
स्त्रीपुंसयोस्तु विज्ञेया अपत्यत्यप्रयान्तकाः ॥ ४६ ॥
3.5.46 · p. 370
द्विचतुः षट्पदव्याला जातिभेदाः प्रकीर्तिताः ।स्त्रिया योगे पुमाख्यास्तेऽपवादैश्चेन्न बाधिताः ॥ ४७ ॥
3.5.47 · p. 371
अनुष्टुप्
मल्लकश्चापि विज्ञेयः स्त्रीपुंसोभयलिङ्गकः ।झाटलिर्वर्णकः स्वातिर्मुनिर्मनुर्वराटकः ॥ ४८ ॥
3.5.48 · p. 371
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
यष्टिः सृपाटी कर्कन्धूः शाटिर्मूषा कुटीकटी ।स्त्रीनपुंसकयोश्चाथाधिकारेऽत्रोचितादयः ॥ ४९ ॥
3.5.49 · p. 371
अनुष्टुप्
ष्यञ् वुञ् प्रत्ययरूपान्ताः भावे कर्मणि च क्वचित् ।षष्ठ्यन्तेभ्य परे चेत्स्युः शालाच्छायानिशासुराः ॥ ५० ॥
3.5.50 · p. 371
अनुष्टुप्
सेनाशब्दाश्च विज्ञेयाः गोशालमित्युदाहृतम् ।आबन्तोत्तरशब्दश्चान्नन्तोत्तरपदो द्विगुः ॥ ५१ ॥
3.5.51 · p. 372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
अनो नस्य च लोपोऽन्ते पञ्चखट्वमुदाहृतम् ।त्रिलिङ्गेषु पुटी वाटी पेटी पात्री च दाडिमी ॥ ५२ ॥
3.5.52 · p. 372
अनुष्टुप्
कुवलीत्यादिशब्दा वै विद्वद्भिः समुदाहृताः ।इतरेतरयोगे च द्वन्द्वे तत्पुरुषे तथा ॥ ५३ ॥
3.5.53 · p. 372
अनुष्टुप्
लिङ्गं परपदस्यैव प्रायशः समुदाहृतम् ।प्राद्यपत्याद्यवादिभ्यः पर्यादिभ्यस्तथैव च ॥ ५४ ॥
3.5.54 · p. 372
अनुष्टुप्
निरादिभ्यश्च पूर्वेभ्यः पूर्वलिङ्गता ।आपन्नप्राप्तपूर्वाश्चालमाद्यास्तथैव च ॥ ५५ ॥
3.5.55 · p. 373
metre not recognised
अर्थान्तास्तद्धितार्थे च द्विगुः संख्यास्तदन्तकाः ।सर्वादयस्तदन्ताश्च शब्दा मुख्यानुसारिणः ॥ ५६ ॥
3.5.56 · p. 373
अनुष्टुप्
आदिङ्नाम्नां बहुव्रीहिरन्यलिङ्गः प्रकीर्तितः ।गुणिद्रव्यक्रियाशब्दा विशेष्यस्यानुगामिनः ॥ ५७ ॥
3.5.57 · p. 374
अनुष्टुप्
कर्तृकर्मणि कृत्याश्च कृतः कर्तर्यनामनि ।अर्णादिप्रत्ययान्ताश्च रक्ताद्यर्थे समागताः ॥ ५८ ॥
3.5.58 · p. 374
अनुष्टुप्
शब्दा नानार्थसम्पन्ना वाच्यलिङ्गा उदाहृताः ।शब्दाः षट् संज्ञका युष्मदस्मदी च तिङव्ययम् ।त्रिलिङ्गेषु समानास्ते विरोधे परमेव तत् ॥ ५९ ॥
3.5.59 · p. 374
अनुष्टुप्
शिष्टानां चैव शब्दानां लिङ्गस्य च विनिर्णयः ॥ ६० ॥
3.5.60 · p. 375
शिष्टप्रयोगतो नूनं कर्तव्यः पण्डितैरिति ।
3.5.62 · p. 375