कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

प्रथमः काण्डः · नृत्यवर्गः

॥ इति वाणीवर्गः समाप्तः ॥

॥ अथ नृत्यवर्गः प्रारभ्यते ॥

नाट्यं तु नटनं नृत्यं ताण्डवं नर्तनं च यत् ।नाट्यं तौर्यत्रिकं नृत्यगीतवाद्यत्रयं त्विदम् ॥ १ ॥
1.7.1 · p. 53
अनुष्टुप्
रङ्गः स्थानं तु नाट्यस्य पूर्वरङ्ग उपक्रमः ।निषाद ऋषभश्चैव गान्धारः षड्जमध्यमौ ॥ २ ॥
1.7.2 · p. 54
अनुष्टुप्
धैवतः पञ्चमः सप्त स्वरास्तन्त्रीगता इमे ।भरतादिमते रागाः षट् षडेषां च वल्लभाः ॥ ३ ॥
1.7.3 · p. 54
अनुष्टुप्
एकैकस्य च षट्त्रिंशद् रागिण्यो गुणिताश्च षट् ।हिन्दोलकौशिकौ रागौ, रागौ भैरवदीपकौ ॥ ४ ॥
1.7.4 · p. 54
अनुष्टुप्
श्रीरागो मेघरागश्च रागः षट् नामतः क्रमात् ।केचिन्मालवमल्लारौ श्रीरागश्च वसन्तकः ॥ ५ ॥
1.7.5 · p. 54
अनुष्टुप्
हिन्दोलश्चाऽपि कर्नाट इति रागान् प्रचक्षते ।उच्चैस्तारोऽथ गम्भीरे मन्द्रः स्यान्मधुरेऽस्फुटे ॥ ६ ॥
1.7.6 · p. 55
अनुष्टुप्
कलस्तस्मिन् कले सूक्ष्मे काकली स्वर ईर्यते ।एकतालस्तु गीतस्य सामस्त्ये लयवाद्ययोः ॥ ७ ॥
1.7.7 · p. 55
अनुष्टुप्
विपञ्ची वल्लकी वीणा सप्तभिः परिवादिनी ।तन्त्रीभिर्वाद्यवीणादि ततं स्यान्मुरजादिकम् ॥ ८ ॥
1.7.8 · p. 55
अनुष्टुप्
आनद्धं सुषिरं वेणुः कांस्यघण्टादिकं घनम् ।वाद्यवादित्रतोद्यानि चतुर्णां नाम गीयते ॥ ९ ॥
1.7.9 · p. 55
अनुष्टुप्
आङ्ग्याऽऽलिङ्ग्योर्ध्वकाभेदा मृदङ्गो मुरजः स्मृतः ।आनकः पटहोऽस्त्री स्यात्कदाचित्पुंनपुंसकम् ॥ १० ॥
1.7.10 · p. 56
अनुष्टुप्
ढक्का स्त्रियां पुमान् ढोलः स्त्री भेरी पुंसि दुन्दुभिः ।झर्झरो वाद्यभेदः स्याद् डमरुर्मड्डुडिण्डिभौ ॥ ११ ॥
1.7.11 · p. 56
अनुष्टुप्
लयः साम्ये भ्रकुंसश्च भ्रूकुंसश्च भ्रुकुंसकः ।नर्तकः पुरुषः स्त्रीणां वेषधारी रसा नव ॥ १२ ॥
1.7.12 · p. 56
अनुष्टुप्
शृङ्गारकरुणाहास्याऽद्भुतरौद्रभयानकाः ।बीभत्सवीरशान्ताश्च शृङ्गारः शुचिरुज्वलः ॥ १३ ॥
1.7.13 · p. 56
अनुष्टुप्
अनुक्रोशाऽनुकम्पा च कारुण्यं करुणा कृपा ।दया चाऽप्यथ हास्यं च हसो हासोऽथ विस्मयः ॥ १४ ॥
1.7.14 · p. 57
अनुष्टुप्
अद्भुताऽऽश्चर्यचित्राणि रौद्रमुग्रं भयानके ।भीषणं दारुणं भीष्मं भीमं घोरं भयङ्करम् ॥ १५ ॥
1.7.15 · p. 57
अनुष्टुप्
भैरवं च प्रतीभयं त्रिष्वेते स्युश्चतुर्दश ।त्रासाऽतङ्कौ भयं भीतिर्भीस्त्री क्लीबं तु साध्वसम् ॥ १६ ॥
1.7.16 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 भ (wrong syllable)
मनोविकारे वैकृत्यं विकृतं विकृतिः स्त्रियाम् ।गर्वे मानाऽभिमानाऽहङ्कारा दर्पमदौ स्मयः ॥ १७ ॥
1.7.17 · p. 57
अनुष्टुप्
अपलेपस्तिरस्कारोऽनादरश्चाऽवमानना ।अपमानः परिभवस्तथाऽवज्ञाऽवलेहना ॥ १८ ॥
1.7.18 · p. 57
अनुष्टुप्
ह्रीस्तु व्रीडा त्रपा लज्जा सैवाऽन्यस्मादपत्रपा ।तितिक्षायां क्षमाक्षान्तिरभिध्या तु परस्पृहा ॥ १९ ॥
1.7.19 · p. 58
अनुष्टुप्
ईर्षा त्वीर्ष्या तितिक्षास्यादसूयाऽलीकदूषणम् ।द्वेष वैरो विरोधेऽथ शोको मन्युः स्त्रियां तु शुक् ॥ २० ॥
1.7.20 · p. 58
अनुष्टुप्
पश्चात्तापोऽनुतापः स्याच्छीलं तु चरितेऽमले ।क्रोधेऽमर्षस्तथा कोपो रोषो रुट् कृध् स्त्रियामुभे ॥ २१ ॥
1.7.21 · p. 58
अनुष्टुप्
पुंसि प्रेमा तथा स्नेहः प्रेम हार्दे तु न द्वयोः ।चित्तविभ्रान्तिरुन्मादः स्यादाधिर्मनसो व्यथा ।कामे तर्षोऽभिलाषश्चाऽत्यभिलाषस्तु लालसा ॥ २२ ॥
1.7.22 · p. 59
अनुष्टुप्
वाञ्छा स्पृहेच्छा कांक्षेहा लिप्सा दोहो मनोरथः ॥ २३ ॥
1.7.23 · p. 59
तृडथोत्कलिकोत्कण्ठाऽऽध्यानं तूत्कण्ठया स्मृतिः ।दम्भो व्याजश्छलं छद्मं कैतवं कपटोऽस्त्रियाम् ॥ २४ ॥
1.7.24 · p. 59
अनुष्टुप्
निकृतिः कुसृतिश्चापि शठतायां तु केचन ।कुतुकं कौतुकं चित्रं कौतूहलकुतूहले ॥ २५ ॥
1.7.25 · p. 59
अनुष्टुप्
उत्साहोऽध्यवसायः स्यात्प्रमादोऽनवधानता ।स्वेदे घर्मो निदाघश्चाऽवहित्थाऽऽकारगोपने ॥ २६ ॥
1.7.26 · p. 59
अनुष्टुप्
मूर्च्छायां कश्मलं मोहः कल्पान्तः प्रलयो मतः ।संवेगश्चैव निर्वेदो वैराग्यं तु नपुंसकम् ॥ २७ ॥
1.7.27 · p. 60
अनुष्टुप्
क्रदनं रोदने जम्भा जृम्भा जृम्भश्च जृम्भणे ।स्वापः स्वप्नश्च निद्रायां शयनं च निगद्यते ॥ २८ ॥
1.7.28 · p. 60
अनुष्टुप्
असम्यक्त्वं विसंवादं समे स्खलनरिङ्गणे ।तन्द्री तन्द्रा प्रमीला स्याद् भ्रुकुटिभ्रुकुटी समे ॥ २९ ॥
1.7.29 · p. 60
अनुष्टुप्
कम्पो वेपथुरुद्धर्षे तु क्षणो मह उत्सवः ।स्वभावे प्रकृतिः स्त्री स्यान्निसर्गः पुंस्युदाहृतः ॥ ३० ॥
1.7.30 · p. 60
अनुष्टुप्
सन्तुष्टस्य च गुर्वादेः कृपादृष्टिः प्रसन्नता ।
1.7.31 · p. 60