कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

द्वितीयकाण्डम् · वंशवर्गः

॥ इति मानववर्गः समाप्तः ॥

॥ अथ वंशवर्गः प्रारभ्यते ॥

वंशोऽन्वयोऽन्ववायश्च सन्तानोऽभिजनः कुलम् ।गोत्रं च जननं स्त्री स्यात्सन्ततिः क्षत्रियादयः ॥ १ ॥
2.8.1 · p. 183
अनुष्टुप्
वर्णाः ब्राह्मणविट्शूद्रा राजवीजी तु राजजः ।सज्जने साधु सम्याऽर्यकुलीनाश्च महाकुलाः ॥ २ ॥
2.8.2 · p. 183
अनुष्टुप्
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टयम् ।चत्वार आश्रमा अस्त्री वर्णी स्याद्ब्रह्मचारिषु ॥ ३ ॥
2.8.3 · p. 183
अनुष्टुप्
विप्रब्राह्मणभूदेवाऽग्रजन्मद्विजवाडवाः ।ज्ञो विपश्चित्कृती धीमान् संख्यावान्प्रज्ञ उच्यते ॥ ४ ॥
2.8.4 · p. 183
अनुष्टुप्
कविपण्डितदोषज्ञसुधीविद्वन्मनीषिणः ।सन् कोविदो बुधो धीरः सूरिः प्राज्ञो विचक्षणः ॥ ५ ॥
2.8.5 · p. 183
अनुष्टुप्
दूरदर्शी श्रोत्रियस्तु छान्दसो वेदपारगः ।स्याद्वादी स्यादार्हकोऽथ वेदान्त्युपनिषद्विदि ॥ ६ ॥
2.8.6 · p. 184
अनुष्टुप्
मीमांसको यो मीमांसाज्ञानवान्सांख्यकापिलौ ।वैशिषिकज्ञः काणादी न्यायो नैयायिकस्तथा ॥ ७ ॥
2.8.7 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 शि (wrong syllable)
सौगतः शून्यवादी स्याच्चार्वाकाद्यास्तु तद्भिदाः ।उपेत्याऽधीयते यस्मादुपाध्यायो गुरुस्तु यः ॥ ८ ॥
2.8.8 · p. 184
अनुष्टुप्
मन्त्रदाता पिता वाऽपि यष्टाऽऽदेष्टा व्रती मखे ।याजको यजमानश्च यायजूकोऽतियाजकः ॥ ९ ॥
2.8.9 · p. 184
अनुष्टुप्
इष्टवान् विधिना यज्वा तथा स आसुतीबलः ।अनूचानः प्रवचने साङ्गेऽधीतो गणिर्मतः ॥ १० ॥
2.8.10 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
अनुयोगकृदाचार्यः उपाध्यायस्तु पाठकः ।एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥
2.8.11 · p. 185
अनुष्टुप्
सतीर्थ्यास्त्वेकगुरुका आग्नीध्रा अग्निदीपकाः ।छात्रान्तेवासिशिष्याः स्युर्वेदार्थं गुरुसेवकाः ॥ १२ ॥
2.8.12 · p. 185
अनुष्टुप्
उपज्ञा त्वादिमं ज्ञानं ज्ञात्वाऽऽरम्भ उपक्रमः ।सत्रं बर्हिर्वितानं च संस्तरः क्रतुरध्वरः ॥ १३ ॥
2.8.13 · p. 185
अनुष्टुप्
मखो यज्ञः सवो यागो गोष्ठी तु परिषत्सभा ।समज्या समितिः संसद् आस्थानसदसी अपि ॥ १४ ॥
2.8.14 · p. 186
अनुष्टुप्
स्थण्डिलं चत्वरं सभ्ये सामाजिकसभासदौ ।भूमिर्या संस्कृता वेदिर्यूपः स्याद्यज्ञकीलकः ॥ १५ ॥
2.8.15 · p. 186
अनुष्टुप्
सघनाऽऽवरणं कुम्बा निर्मन्थ्यं त्वरणिर्द्वयोः ।परमान्नं पायसं च स्यात्क्षीरान्ने नपुंसकम् ॥ १६ ॥
2.8.16 · p. 186
अनुष्टुप्
दानं वितरणं त्याग उत्सर्गश्च विसर्जनम् ।स्पर्शनं चाऽथ याञ्चा स्याद् याचना च गवेषणा ॥ १७ ॥
2.8.17 · p. 186
अनुष्टुप्
अन्वेषणा प्रार्थना च भवेत्प्राघुणिकस्तु सः ।अभ्यागतः प्राघुणकोऽतिथिः प्राधूणकस्तथा ॥ १८ ॥
2.8.18 · p. 187
अनुष्टुप्
आतिथेयं त्वाऽतिथेय्यां तथाऽऽवेशिकमित्यपि ।अर्घार्थमर्घ्यं पादार्थं पाद्यं त्रिषु त्रयोदश ॥ १९ ॥
2.8.19 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्रि (wrong syllable)
अर्हणाऽर्चासपर्याऽपचितिपूजाः समार्थकाः ।शुश्रूषोपासना सेवा परिचर्या निगद्यते ॥ २० ॥
2.8.20 · p. 187
अनुष्टुप्
योगमार्गे स्थितिश्चर्याऽटा तु पर्यटनं भ्रमः ।मुनेर्भावोऽथवा कर्म मौनं नोभाषणं विदुः ॥ २१ ॥
2.8.21 · p. 187
अनुष्टुप्
परिपाटी त्वानुपूर्वी पर्यायाऽनुक्रमावपि ।पर्युपशमना पर्योसवना पर्यूषणा तथा ॥ २२ ॥
2.8.22 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 प (wrong syllable); pāda 4, syllable 1 सव (syllable split)
पर्वण्याष्टाहिके पक्षे भवं तु पाक्षिकं स्मृतम् ।पर्वसंवत्सरो नाम्ना सांवत्सरिकमुच्यते ॥ २३ ॥
2.8.23 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
उपात्ययोऽतिपातः स्यात्समेऽभ्युत्थानगौरवे ।सावद्येभ्यस्तु कर्मभ्यो निवृत्तिर्व्रतमस्त्रियाम् ॥ २४ ॥
2.8.24 · p. 188
अनुष्टुप्
पृथगात्मता विवेकः स्यादुपवास उपोषणम् ।पारणैतस्य निस्तार एकभक्तं सकृद्भुजि ॥ २५ ॥
2.8.25 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सदाचाराऽध्ययनयोरुत्कर्षो ब्रह्मवर्चसम् ।परिव्राण्मश्करी भिक्षुः सन्न्यासीन्यथ तापसः ॥ २६ ॥
2.8.26 · p. 188
अनुष्टुप्
तपस्वी संयमी तु स्याद् दान्तो वाचंयमो मुनिः ॥
2.8.27 · p. 188
संयतश्च व्रती साधुर्निर्द्वन्द्वो विरजस्तमाः ॥ २७ ॥
2.8.27 · p. 189
पाखण्डः स्त्री पुमान्वाऽपि वैडालव्रतिको मतः ।कुण्डी कमण्डलुः पात्रमासनं व्रतीनां बृसी ॥ २८ ॥
2.8.28 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
भैक्षं भिक्षाचयः कृत्तिः स्त्रियामजिनचर्मणी ।अक्षौरे लुंचनं लोचः क्षौरे वपनमुण्डने ॥ २९ ॥
2.8.29 · p. 189
अनुष्टुप्
उत्कचः केशशून्ये स्याद् यम इन्द्रियनिग्रहः ।प्रतिमा नियमश्चाऽभिग्रहो ज्ञेयः समार्थकः ॥ ३० ॥
2.8.30 · p. 189
अनुष्टुप्
ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं यथा तथा ।देवभावस्तु देवत्वं देवभूयं क्रमादनु ॥ ३१ ॥
2.8.31 · p. 189
अनुष्टुप्
पण्डितत्वं च मूर्खत्वं तत्तत्सायुज्यमर्थ्यताम् ।उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ३२ ॥
2.8.32 · p. 189
अनुष्टुप्
अस्वाध्यायस्वनध्यायो वन्दना त्वभिवादनम् ।पुंसि ग्रन्थे पद्धतिः स्त्री कृतिः कल्पितवाङ्मये ॥ ३३ ॥
2.8.33 · p. 190
अनुष्टुप्
सिद्धान्त आगमः पुंसि शास्त्रं शासनमेव च ।तन्त्रं प्रवचनं सूत्रेऽथाऽऽकारो बाह्यमिङ्गितम् ॥ ३४ ॥
2.8.34 · p. 190
अनुष्टुप्
कर्मिष्ठकर्मनिष्ठौ द्वौ त्रिषु पुण्यादिकर्तरि ।अभ्यासे खुरली योग्या सङ्केतस्त्विङ्गिते पुमान् ॥ ३५ ॥
2.8.35 · p. 190
अनुष्टुप्
स्यात्कागदं करगलं मषी स्त्री लेखरञ्जिका ।सञ्चः पत्रे पुमान् सञ्ची पत्रिका द्वे स्त्रियामिमे ॥ ३६ ॥
2.8.36 · p. 190
अनुष्टुप्
पट्टः शाणिः शिलापट्टः खटिका कठिनी खटी ।पुंसि विद्यालयः पाठशाला स्त्री पाठवेश्मनि ॥ ३७ ॥
2.8.37 · p. 191
अनुष्टुप्
मार्जन्यूर्णामयी याऽऽस्ते सा रजोहरणं नना ।सैवाऽल्पिष्ठा पुंसि गोच्छः पुञ्जनी च प्रमार्जिका ॥ ३८ ॥
2.8.38 · p. 191
अनुष्टुप्
रजोहरणदण्डस्थ वस्त्रं नैषद्यमुच्यते ।क्लीबं प्रावरणं पुंसि प्रावारः शाटिका स्त्रियाम् ॥ ३९ ॥
2.8.39 · p. 191
अनुष्टुप्
ऊर्ध्ववस्त्रमधोवस्त्रे चोलपट्ट इति स्मृतः ।मुखबद्धे खण्डवस्त्रे स्यात्स्त्रियां मुखवस्त्रिका ॥ ४० ॥
2.8.40 · p. 191
अनुष्टुप्
श्रमणोपासकः श्राद्धः श्रावकश्च समा इमे ।आषाढीमवधिं मत्वा पञ्चादशद्दिनपञ्चमी ॥ ४१ ॥
2.8.41 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
संवत्सरी पर्युषण पर्वाऽन्तः शास्त्रसम्मतः ।
2.8.43 · p. 192