All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · अन्यवर्णवर्गः
॥ इति वणिग् वर्गः समाप्तः ॥
॥ अन्त्यवर्णवर्गः प्रारभ्यते ॥
शूद्रा जघन्यजाः पद्या वृषला अन्त्यवर्णकाः ।मूर्द्धाऽभिषिक्ताद्रथकृज्जात्यन्तामिश्रजातयः ॥ १ ॥
2.11.1 · p. 241
अनुष्टुप्
क्षत्रियायां द्विजाज्जातो मूर्धावसिक्त उच्यते ।निषादो यदि शूद्रायां वैश्यायां द्विजजो यदि ॥ २ ॥
2.11.2 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
अम्बष्ठोऽथ निषादेनाऽम्बष्ठायां बुक्कसः सुतः ।मृतपश्चैव विज्ञेयः क्षत्ता वैश्यासु शूद्रजः ॥ ३ ॥
2.11.3 · p. 241
अनुष्टुप्
शूद्रायां नृपजश्चोग्रः करणो वैश्यतो यदि ।क्षत्रियायां तु सूरतः स्याद्भवेद्वैदेहिकस्तु यः ॥ ४ ॥
2.11.4 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ब्राह्मण्यां यदि वा शूद्राच्चाण्डालोऽर्याक्षमाभुजोः ।माहिष्यः कुलकः शिल्पिमुख्येऽथ कारुशिल्पिनौ ॥ ५ ॥
2.11.5 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
माली तु मालिको मालाकारस्तक्षा तु वर्धकिः ।काष्ठतड्रथकारश्च माहिष्यात्करणीसुतः ॥ ६ ॥
2.11.6 · p. 242
अनुष्टुप्
कौटतक्षोऽनधीनस्थो ग्रामतक्षो वशे स्थितः ।सौचिकस्तुन्नवायोश्च दरजिद्दरजिस्तथा ॥ ७ ॥
2.11.7 · p. 242
अनुष्टुप्
शाणकृत्त्वसिधावः स्यात्कुलालः कुम्भकारकः ।लेपकृद्राजकारिश्च पलगण्डः सुधाकरः ॥ ८ ॥
2.11.8 · p. 242
अनुष्टुप्
अथ चित्रकरो रङ्गराजो रजकधावकौ ।व्योकारो लोहकृत्प्रोक्तः कल्पपालस्तु शौण्डिकः ॥ ९ ॥
2.11.9 · p. 242
अनुष्टुप्
रुक्मकृत्स्वर्णकारोऽपि कलादः पश्यतोहरः ।नाडिन्धमः कुविन्दस्तु तन्तुवायोऽथ शौल्विकः ॥ १० ॥
2.11.10 · p. 243
अनुष्टुप्
ताम्रिकस्ताम्रकुटोऽथ ना काम्बविकशाङ्खिकौ ।चर्मकारस्तु पादूकृद्दिवाकीर्तिस्तु नापितः ॥ ११ ॥
2.11.11 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
अजाजीवस्तु जावालो देवलो देवजीवकः ।पाणिघस्तालकृत्तुल्यौ मार्दङ्गिकमृदङ्गिनौ ॥ १२ ॥
2.11.12 · p. 243
अनुष्टुप्
भारिको भारवाहः स्यात् तथा वाहक इत्यपि ।कुहकं त्विन्द्रजालं च मायाकर्माऽथ शाम्बरी ॥ १३ ॥
2.11.13 · p. 243
अनुष्टुप्
माया मायी तु मायावी मयिकश्चेन्द्रजालिकः ।चारणः कथकस्तद्वत् स्यात्कुशीलव इत्ययम् ॥ १४ ॥
2.11.14 · p. 244
अनुष्टुप्
नटशैलालिशैलूषभरतास्तु कृशाश्विनि ।वेणुध्मा वैणुको वैणविकः स्युर्वेणुवादके ॥ १५ ॥
2.11.15 · p. 244
अनुष्टुप्
कार्मणज्ञवशीकारौ तुल्यौ भाणिप्रहासिनौ ।भृतको भृतिभुक्कर्मकरवैतानिकाः समा ॥ १६ ॥
2.11.16 · p. 244
अनुष्टुप्
भर्जको भ्राष्टिको भ्राष्ट्री स्तोवागुरिकजालिकौ ।पुंसि वैवधिको वार्तावाही वार्तावहोऽपि च ॥ १७ ॥
2.11.17 · p. 244
अनुष्टुप्
चाक्रिको धूसरस्तैली तैलिकश्च तिलन्तुदः ।पक्षिहन्तरि जीवान्तकः शाकुनिक इष्यते ॥ १८ ॥
2.11.18 · p. 245
अनुष्टुप्
मांसिकः कौटिको वैतंसिको यो मांसविक्रयी ।प्राकृतोऽपसदो जाल्मो नीचो हीनश्च पामरः ॥ १९ ॥
2.11.19 · p. 245
अनुष्टुप्
पृथग्जनो विवर्णश्च क्षुल्लकोऽपि तथेतरः ।अनाथभिक्षुकौ रङ्केऽथान्तेवासी च वुक्लसौ ॥ २० ॥
2.11.20 · p. 245
अनुष्टुप्
निषादप्लवचण्डालचाण्डालश्वपचोऽपि च ।मातङ्गो वांशिको वंशजीवी हाडिमहत्तरौ ॥ २१ ॥
2.11.21 · p. 245
अनुष्टुप्
किराताः शबला भिल्लाः पुलिन्दा वरुटाः समाः ।मृगयुर्लुब्धको व्याधोऽथ भृत्यो दासकिंकरौ ॥ २२ ॥
2.11.22 · p. 245
अनुष्टुप्
नियोज्यप्रैष्यदासेयदासेरपरिचारकाः ।भुजिष्यो गोप्यचेटौ च सूत्थानस्तूष्णपेशलौ ॥ २३ ॥
2.11.23 · p. 246
अनुष्टुप्
चतुरश्च पटुर्दक्षो मन्दस्तु यद्भविष्यकः ।तुन्दपरिमृजाऽऽलस्या वलसाऽनुष्णशीतकाः ॥ २४ ॥
2.11.24 · p. 246
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable); pāda 3, syllable 3 प (wrong syllable)
क्षुरभाण्डं क्षुराधारः क्षुरधानी क्षुरालिका ।विष्टिराजूर्हठान्तीतभृत्ये तत्कर्म विष्टिता ॥ २५ ॥
2.11.25 · p. 246
अनुष्टुप्
तन्त्रं तु चर्मतन्तुः स्याद् भिक्षापात्रं तु खर्परः ।तैलयन्त्रन्तु चक्रं स्यात् स्त्रियां गाली तु गालिका ॥ २६ ॥
2.11.26 · p. 246
अनुष्टुप्
कुक्करो भषकः सारमेयः श्वा मृगदंशकः ।कुकुरः शुनकोऽलर्कस्तून्मत्तो यः प्रयोगतः ॥ २७ ॥
2.11.27 · p. 247
अनुष्टुप्
शुनी स्यात्सरमा विश्वकद्रुः श्वा मृगयापटुः ।आखेटो मृगयाऽऽच्छोदनं मृगव्यं नपुंसकम् ॥ २८ ॥
2.11.28 · p. 247
अनुष्टुप्
विट्चरो ग्राम्यघोणा स्याद् वर्करो यो युवा पशुः ।परैरनिच्छतां वस्तुहरणं लुण्ठनं बलात् ॥ २९ ॥
2.11.29 · p. 247
अनुष्टुप्
वेष्टकाऽऽवेशिकौ वीराऽऽवेशः संरंभ ईरितः ।स्तेनैकागारिकौ चौरदस्युमोषकतस्कराः ॥ ३० ॥
2.11.30 · p. 247
अनुष्टुप्
पाटच्चरपरास्कन्दिप्रतिरोधिमलिम्लुचाः ।पेटा स्त्रियां च मञ्जूषा पिटकः पेटकः पुमान् ॥ ३१ ॥
2.11.31 · p. 247
अनुष्टुप्
न ना शुल्वं वराटः स्त्रीरज्जुस्त्रिषु वटी गुणः ।चौर्यं तु चोरिका स्तेयं स्याल्लोप्त्रं चौरिकाधनम् ॥ ३२ ॥
2.11.32 · p. 248
अनुष्टुप्
सूत्रं तन्तौ वायदण्डो वेमा व्यूतिस्तु वाणिषु ।अरहट्टो घटीयन्त्रे कूपात्सलिलवाहने ॥ ३३ ॥
2.11.33 · p. 248
अनुष्टुप्
पुंसि पेषणयन्त्रै स्याद् घरट्टोऽञ्जी तथा स्त्रियाम् ।कूटयन्त्रं तदुन्माथो मृगपाशस्तु वागुरा ॥ ३४ ॥
2.11.34 · p. 248
अनुष्टुप्
बन्धने लोभहेतुस्तु वीतंसो मृगपक्षिणाम् ।पाञ्चालीपुत्रिके तुल्ये भारयष्टिर्विहंगिका ॥ ३५ ॥
2.11.35 · p. 248
अनुष्टुप्
शिक्यं काचो वरत्रा तु वर्ध्री नध्री स्त्रियामिमाः ।उपानत्पादुका पादूः कशा त्वश्वादिताडनी ॥ ३६ ॥
2.11.36 · p. 249
अनुष्टुप्
पाषाणभेदनस्टंको भस्रा चर्मप्रसेविका ।काष्ठादिभेदनी त्वारा शलाका तूलिकैषिकाः ॥ ३७ ॥
2.11.37 · p. 249
अनुष्टुप्impossible sibilant cluster: पाषाणभेदनस्टंको
कषः स्यान्निकषः शाणः कर्तरी तु कृपाणिका ।मूषी त्वावर्तनी मूषा व्रश्चनः पत्रदारणः ॥ ३८ ॥
2.11.38 · p. 249
अनुष्टुप्
हस्तकुट्टः शिलाकुट्टोऽयोघनः कूटमस्त्रियाम् ।संदंशिका तु संदंशो सूर्म्ययोमूर्तिरेव तु ॥ ३९ ॥
2.11.39 · p. 249
अनुष्टुप्
शिल्पं कलादिकं कर्म नाराच्येषणिके समे ।स्त्रियां प्रतिकृतिश्चाऽर्चा प्रतिमा प्रतियातना ॥ ४० ॥
2.11.40 · p. 250
अनुष्टुप्
प्रतिच्छाया प्रतिच्छन्दः पुमान्प्रतिनिधिस्तथा ।कायो मानं रूपे बिंबे प्रत्यन्ताः प्रतिमार्थकाः ॥ ४१ ॥
2.11.41 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रू (wrong syllable)
उपमानोपमेयौ तु यस्य यस्मिन्क्रमात्स्थितौ ।उपमोपमिती तुल्ये वाच्यलिङ्गा व्यवस्थिताः ॥ ४२ ॥
2.11.42 · p. 250
अनुष्टुप्
साधारणः सरूपोऽपि सवर्णः सन्निभः समः ।सधर्मा तुल्यसदृक्षसमानसदृशाः सदृक् ॥ ४३ ॥
2.11.43 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
मदिरा तु सुरा मद्यं कश्यं हाला परिस्रुता ।सीध्वासवौ तु मैरेयं शुण्डा पानं तु मद्यभूः ॥ ४४ ॥
2.11.44 · p. 251
अनुष्टुप्
सरको मद्यपानो स्याच्चषकः पानभाजनम् ।पाशको देवनोऽक्षः स्यात्कैतवं द्यूतमस्त्रियाम् ॥ ४५ ॥
2.11.45 · p. 251
अनुष्टुप्
समिकः कितवो धूर्तोऽक्षधूर्तो द्यूतकारकः ।शारी स्याद्गुटिका गोटी प्रतिज्ञा तु पणः पुमान् ॥ ४६ ॥
2.11.46 · p. 251
अनुष्टुप्
शारिधिः शारिफलकं स्यादष्टापदमित्यपि ।शुककुक्कुटमेषादि प्राणिक्रीडासमाह्वयः ॥ ४७ ॥
2.11.47 · p. 251
अनुष्टुप्
सर्गेऽत्र ये यथा प्रोक्ता यौगिकाः शिल्पकादयः ।लिङ्गान्तरेऽपि ताद्धर्म्याद्भविष्यन्ति भवन्ति ते ॥ ४८ ॥
2.11.48 · p. 252
अनुष्टुप्