All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
तृतीयकाण्डम् · अव्ययवर्गः
॥ इति नानार्थवर्गः समाप्तः ॥
॥ अथ अव्ययवर्गः प्रारभ्यते ॥
अतीते ह्योऽह्नि विज्ञेयं भाविनि श्वस्तु कीर्तितम् ।परेद्यवि परेऽह्नि स्यात् परश्वस्तु परेऽहनि ॥ १ ॥
3.4.1 · p. 350
अनुष्टुप्
तदा तदानीं वै तस्मिन् कालद्वयमुदीरितम् ।युगपदेकदैकस्मिन् सर्वस्मिन् सर्वदा सदा ॥ २ ॥
3.4.2 · p. 350
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
अस्मिन् साम्प्रतमेतर्हि सम्प्रति चाधुना तथा ।इदानीं चेति विज्ञेयमद्यात्राह्नि प्रकीर्तितम् ॥ ३ ॥
3.4.3 · p. 350
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
पूर्वेऽहनि च पूर्वेद्युत्तरेद्युरादयः क्रमात् ।उत्तरान्यतरान्यस्मादितराधरपरादहः ॥ ४ ॥
3.4.4 · p. 350
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable); pāda 4, syllable 1 दित (syllable split)
पूर्वे पूर्वतरेऽब्देऽस्मिन् परुत्परार्यैषमः पुनः ।अतीते स्म बहिर्बाह्ये प्रश्ने ऊं चानुनये त्वयि ॥ ५ ॥
3.4.5 · p. 351
metre not recognisednearly अनुष्टुप्
उषा रात्र्यवसाने स्याद् हुं तर्के च नतौ नमः ।निन्दायां दुष्ठु वै सुष्ठु प्रशंसायामुदीरितम् ॥ ६ ॥
3.4.6 · p. 351
अनुष्टुप्
प्रातः प्रगे प्रभाते स्यात् साये सायं प्रकीर्तितम् ।प्रागतीते सना नित्ये कच्चित् कामप्रवेदने ॥ ७ ॥
3.4.7 · p. 351
अनुष्टुप्
युक्तार्थे साम्प्रतं स्थानेऽभीक्ष्णं शश्वन्निरन्तरे ।अभावे नहि नो न स्यात् प्रसह्येति हठार्थकम् ॥ ८ ॥
3.4.8 · p. 351
अनुष्टुप्
तत्त्वार्थेऽद्धाऽञ्जसा प्रोक्तं प्रादुराविः प्रकाशने ।असत्ये च मृषा मिथ्याऽवश्यं नूनश्च निश्चिते ॥ ९ ॥
3.4.9 · p. 352
अनुष्टुप्
निःषमं दुःषमं निन्द्ये एव इत्यवधारणे ।आमेवं तु पुनर्वैवा निश्चयार्थे प्रकीर्तिताः ॥ १० ॥
3.4.10 · p. 352
अनुष्टुप्
निकामानुमतौ कामम् ओमेवं परमं तथा ।कदाचिज्जातु कस्मिंश्चित्काले द्वयमुदाहृतम् ॥ ११ ॥
3.4.11 · p. 352
अनुष्टुप्
सहार्थे तु समं साकं सार्धं सत्रा सहेति च ।भोः प्याट् पाट् अङ्ग है हे स्युः सम्बोधनस्य द्योतकाः ॥ १२ ॥
3.4.12 · p. 352
अनुष्टुप्metre not read in every line
हिरुग्वर्जनं सामीप्ये सहसा स्यादतर्किते ।स्वाहा स्यात्तु हविर्दाने वौषट्श्चौषट्वषट्स्वधा ॥ १३ ॥
3.4.13 · p. 352
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
तूष्णीं मौने मनागल्पे किञ्चिदीषत्तथैव च ।तु हि चह तथा वै स्यात् किलापि पादपूरणे ॥ १४ ॥
3.4.14 · p. 353
अनुष्टुप्metre not read in every line
प्राध्वं स्यादानुकूल्यार्थे व्यर्थके तु मुधा वृथा ।दोषा नक्तं रजन्यां स्यात् दिवसे तु दिवा स्मृतम् ॥ १५ ॥
3.4.15 · p. 353
अनुष्टुप्
विकल्पार्थे तु आहो स्याद् उताहो किमुतापि वा ।वक्रे साचि तिरः प्रोक्तं प्रेत्यामुत्र भवान्तरे ॥ १६ ॥
3.4.16 · p. 353
अनुष्टुप्
पौनःपुन्ये मुहुः शश्वद् अभीक्ष्णमसकृत् पुनः ।द्राग्झटित्यञ्जसा मंक्षु सद्यः सपदि तत्क्षणे ॥ १७ ॥
3.4.17 · p. 353
अनुष्टुप्
चिरार्थे चिररात्राय चिरायादि प्रकीर्तितम् ।सादृश्यार्थे यथेवैवं तथा वा व प्रकीर्तितम् ॥ १८ ॥
3.4.18 · p. 353
अनुष्टुप्
विस्मयार्थे अहो हीचा नन्दे दिष्ट्या शमीरितम् ।पुनश्चाप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ १९ ॥
3.4.19 · p. 354
अनुष्टुप्
अन्तरे चान्तरा मध्ये चान्तरेण तथैव च ।परितः सर्वतो विष्वक् समन्तात्तु समन्ततः ॥ २० ॥
3.4.20 · p. 354
अनुष्टुप्
अभितो विश्वतोऽर्थे स्यात् मास्म मालं च वारणे ।
3.4.21 · p. 354