All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · धान्यादिवर्गः
॥ वनस्पतिवर्गः समाप्तः ॥
॥ अथ धान्यादिवर्गः प्रारभ्यते ॥
धान्ये स्तम्बकरिर्व्रीहिः कलमे शालितण्डुलौ ।समौ गोधुमगोधूमौ यवकस्तु यवो मतः ॥ १ ॥
2.5.1 · p. 126
अनुष्टुप्
जूर्णलो यावनालश्च जूर्णो यवयवोऽपि च ।स्त्री बर्जरी बर्जरिका नाली स्यात्पुंसि साजकः ॥ २ ॥
2.5.2 · p. 126
अनुष्टुप्
पुंसि भुक्तिप्रदो मुद्गो हरिन्मुद्गस्तु शारदः ।माषे पित्र्यो धान्यवीरो मकुष्ठस्तु मकुष्ठके ॥ ३ ॥
2.5.3 · p. 126
अनुष्टुप्
बर्बटश्चवलो राजमाषश्चपल इत्यपि ।निष्पावो वल्लको वाजिमन्थस्तु चणकश्चणः ॥ ४ ॥
2.5.4 · p. 126
अनुष्टुप्
द्वयोर्मसूरमसुरौ तुवरी त्वाढकी स्त्रियाम् ।कलायो मुण्डचणकः खञ्जकारिस्तु सण्डिकः ॥ ५ ॥
2.5.5 · p. 127
अनुष्टुप्
कुलत्थिस्तु कुलत्थेः स्यात्तिलस्तैलसमन्वितः ।निष्फले तिलपिञ्जः स्यादारण्ये जतिलो मतः ॥ ६ ॥
2.5.6 · p. 127
अनुष्टुप्
राजी तु राजिका कृष्णे सिद्धार्थः श्वेतसर्षपः ।क्षुमोमे अतसी कङ्गौ प्रियङ्गुः स्युः स्त्रियामिमाः ॥ ७ ॥
2.5.7 · p. 127
अनुष्टुप्
चीनकः काककङ्कुश्च मण्डूकन्तु मलीयसः ।मुनिधान्यं तु नीवारः स्त्रियामोडी तथौडिका ॥ ८ ॥
2.5.8 · p. 127
अनुष्टुप्
श्यामाकश्यामकश्यामाः कोरदूषस्तु कोद्रवः ।स्यान्मक्कायो महाकायः स्त्रीगवेधुर्गवेधुका ॥ ९ ॥
2.5.9 · p. 128
अनुष्टुप्
शाकराड्वास्तु वास्तूकं लोणा लोण्यौ तु धोलिका ।अम्लं रसाम्लपत्राम्ले तुल्यौ वार्ष्पकमारिषौ ॥ १० ॥
2.5.10 · p. 128
अनुष्टुप्
कञ्चटः कञ्चुकी द्वे स्त उपोती स्यादपोदका ।रसोनो लशुनोऽरिष्टं कलम्बी तु कलम्बिका ॥ ११ ॥
2.5.11 · p. 128
अनुष्टुप्
नाडीकः पट्टशाकः स्याम्नत्स्याक्षी हिलमोचिका ।प्रलम्बिका स्त्री करली शितिवारस्तु कुक्कुटः ॥ १२ ॥
2.5.12 · p. 128
अनुष्टुप्
एर्वारुः कर्कटी मूत्रफला तोयफला स्त्रियाम् ।त्रपुषं कण्टकिफलं सुधावासः सुशीतलम् ॥ १३ ॥
2.5.13 · p. 129
अनुष्टुप्
चिर्भिटं स्याच्चिर्भटिका कुम्भसी कट्फला स्त्रियाम् ।कृष्णबीजं कलिन्दे स्यात्तद्भेदस्तु दशाङ्गुलम् ॥ १४ ॥
2.5.14 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चि (wrong syllable)
कोषातकी सुघोषा स्त्री जालिनी राजिमत्फला ।घण्टाली शोधनी क्ष्वेडा तिक्तकोशातकी स्त्रियाम् ॥ १५ ॥
2.5.15 · p. 129
अनुष्टुप्
श्वेतराजिश्चिचिण्डः स्यात्पटोलकुलकौ समौ ।शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः ॥ १६ ॥
2.5.16 · p. 129
अनुष्टुप्
श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी ।बिम्बं बिम्बफलं तुण्डीकेरी तुण्डी समाऽसमा ॥ १७ ॥
2.5.17 · p. 130
अनुष्टुप्
कर्कोटकी पीतपुष्पी कारवेल्लः कठिल्लकः ।भिण्डी भिण्डा पुमान् भिण्डः शिम्बिनीशिम्बके समे ॥ १८ ॥
2.5.18 · p. 130
अनुष्टुप्
बाकुची कालमेषी च शिम्बी तु फलिनी मता ।वारिकण्टकशृङ्गाटके स्त्री संघाटिका मता ॥ १९ ॥
2.5.19 · p. 130
अनुष्टुप्
गृञ्जनं गाजरं क्लीबे पलाण्डुर्मुखदूषणः ।वानेयं स्थूलमूलं स्यान्मूलकं हस्तिदन्तकम् ॥ २० ॥
2.5.20 · p. 130
अनुष्टुप्
ओल्ल ओलः पुंसि पिण्डीतकस्तु स्वादुकन्दकः ।आरवे स्यादारवी स्त्री राजालुस्त्वारुरारुकः ॥ २१ ॥
2.5.21 · p. 131
अनुष्टुप्
कोलकन्दे पुटालुर्ना हस्तिकन्दीति कन्दके ।स्तम्भालु धरणीकन्दस्तुल्ये रक्तालुकाऽऽलुके ॥ २२ ॥
2.5.22 · p. 131
अनुष्टुप्
सुकन्दः स्यात्तु वाराहीकन्दं क्लीबे महौषधम् ।कन्दालूकं सुकन्दं स्यात् शोथघ्नी तु पुनर्नवा ॥ २३ ॥
2.5.23 · p. 131
अनुष्टुप्
पुष्पगोभी पत्रगोभी ग्रन्थिगोभी च गोभिका ।कासमर्दनकासारि मखान्नं वारिजं फलम् ॥ २४ ॥
2.5.24 · p. 131
अनुष्टुप्
कटुवीरा तीव्रशक्तिर्द्वे रक्तमरिचे स्त्रियाम् ।गुडकन्दः कसेरुः स्यात्कशेरुश्च कसेरुकः ॥ २५ ॥
2.5.25 · p. 132
अनुष्टुप्
पूपाऽपूपौ पिष्टकोऽपि वाटिकाऽङ्गारकर्पटी ।दुग्धं क्षीरं पयश्चाऽपि पयस्यं तु भवेद्दधि ॥ २६ ॥
2.5.26 · p. 132
अनुष्टुप्
नवप्रसूते र्धेनोर्यत् प्रकृत्या स्फुटितं पयः ।पीयूषमग्नियोगेन घनीभूतं किलाटकः ॥ २७ ॥
2.5.27 · p. 132
अनुष्टुप्
अपक्वमेव नश्येत क्षीरशाकं तु तत्पयः ।हीनं तद्द्रवभागेन तक्रपिण्ड उदाहृतः ॥ २८ ॥
2.5.28 · p. 132
अनुष्टुप्
नष्टदुग्धस्य यन्नीरं मोरटो जेज्जटोऽब्रवीत् ।क्लीबे हैयङ्गवीनं तु नवनीतं नवोद्धृतम् ॥ २९ ॥
2.5.29 · p. 133
अनुष्टुप्
दध्नः स्निग्धो घनोभागे उपरिष्टः सरः स्मृतः ।मस्तु स्याद्दधिजं मण्डं तक्रघोले तु छच्छिका ॥ ३० ॥
2.5.30 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
घृतमाज्यं हविः सर्पिर्गव्यादि दधिजं स्मृतम् ।यस्तिलादिसमुद्भूतः स्नेहस्तत्तैलमुच्यते ॥ ३१ ॥
2.5.31 · p. 133
अनुष्टुप्
मयने स्यान्मधूच्छिष्टं मधुनि क्षौद्रमाक्षिके ।गुडमूलं पुमानिक्षुस्तद्भेदाः पौण्ड्रकादयः ॥ ३२ ॥
2.5.32 · p. 133
अनुष्टुप्
यन्त्रैर्निष्पीडितस्येक्षोर्विकारो यो रसः स्मृतः ।पक्वो रसो यदा गाढो राव इत्युच्यते बुधैः ॥ ३३ ॥
2.5.33 · p. 134
अनुष्टुप्
ततो गाढतरे क्लीबं फाणितं गुड इष्यते ।अस्त्री खण्डोऽतिगाढ स्यान्मत्स्यण्डी स्त्री सिता भवेत् ॥ ३४ ॥
2.5.34 · p. 134
अनुष्टुप्
एकैकं नाम वक्ष्येऽथ पोलिकान्तं पृथक् पृथक् ।संयावो मठकः पक्ववटी च तिलपर्पटी ॥ ३५ ॥
2.5.35 · p. 134
अनुष्टुप्
स्त्रियां पाटलजम्बूः स्यात् शट्टकं मुद्गमोदकः ।यूषः पुमान् स्त्रियां लोप्त्री चूर्णिका दुग्धकूपिका ॥ ३६ ॥
2.5.36 · p. 134
अनुष्टुप्
कलाकन्दः कुण्डलिनी वटाका घृतपूरकः ।क्वाथः प्रहेलकश्चाम्लपानीयं शर्करोदकम् ॥ ३७ ॥
2.5.37 · p. 135
अनुष्टुप्
स्फुटितं चलिकं पेष्ठा स्त्रियां सेवनमोदकः ।पूर्णपोली वेट्टमिका पर्पटी वटकस्तथा ॥ ३८ ॥
2.5.38 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
काञ्जीयवटकं खानपानं सेविश्च पोलिका ।ओदनोऽस्त्री भक्तमन्नमन्धोऽपि च नपुंसकम् ॥ ३९ ॥
2.5.39 · p. 135
अनुष्टुप्
दालिर्दाली व्यञ्जनं तु शाको लप्सी तु लप्सिका ।निष्ठानं तेमनं चूर्णं क्षोदश्च वटिका वटी ॥ ४० ॥
2.5.40 · p. 136
अनुष्टुप्
घारट्टं वेशनं पिष्टदालिकायां तु पिष्टिका ।प्रातराशः कल्पजग्धिः शष्कुली पुरिका पुरी ॥ ४१ ॥
2.5.41 · p. 136
अनुष्टुप्
समौ तु ग्रासकवलौ लेहाऽऽहारौ तु जेमनम् ।स्यादुद्गिरणमुद्गारः कचोरी तु कचोरिका ॥ ४२ ॥
2.5.42 · p. 136
अनुष्टुप्
क्षुद्बुभुक्षा क्षुधा तुल्यास्तृट् पिपासा तृषास्तथा ।सपीतिः सहपानं स्यात्स्त्रियां सग्धिः सहाशनम् ॥ ४३ ॥
2.5.43 · p. 137
अनुष्टुप्
भुक्तशिष्टमथोच्छिष्टं फेला भुक्तोज्झिते स्त्रियाम् ।चुलुकश्चुलुगण्डूषौ तृप्तौ सौहित्यतर्पणे ॥ ४४ ॥
2.5.44 · p. 137
अनुष्टुप्
स्याद्घरट्टः शिलाचक्रं तस्य दण्डे तु हस्तकम् ।चक्रला चक्रिका द्वे स्तः साधनी वेलनी स्त्रियाम् ॥ ४५ ॥
2.5.45 · p. 137
अनुष्टुप्
शिलापुत्रः शिलालो घर्षणालस्तु पेषणी ।क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् ॥ ४६ ॥
2.5.46 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पौरोगवोऽधिकार्यस्य सूपकारस्तु पाचकः ।भवेत्कान्दविकोऽनेकभोज्यवस्तुविधायकः ॥ ४७ ॥
2.5.47 · p. 138
अनुष्टुप्
हसन्यङ्गारशकटी हसन्त्यङ्गारधानिका ।अङ्गारस्तूल्मुकाऽलाते मणिकाऽलिंजरः समौ ॥ ४८ ॥
2.5.48 · p. 138
अनुष्टुप्
अम्बरीषं पुमान् भ्राष्टः कर्करी तु गलन्तिका ।चुल्लिश्चुल्ली स्त्रियां क्लीबेऽश्मन्तमुद्धानमित्यपि ॥ ४९ ॥
2.5.49 · p. 138
अनुष्टुप्
स्वेदनो स्त्री द्वयोः कन्दुः घटः कुटनिपावपि ।कलशः पिठरः कुण्डं स्थाल्युखा त्रिषु न स्त्रियाम् ॥ ५० ॥
2.5.50 · p. 138
अनुष्टुप्
शरावः पत्रभेदे स्यात्तथैव वर्द्धमानकः ।स्यात्कटोरं कटोरी स्त्री कटोरा तु महत्यसौ ॥ ५१ ॥
2.5.51 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
दुग्धादीनां हि यत्पानभाजनं सा कुपी स्त्रियाम् ।अस्त्री कंसः पानपात्रमृजीकं पिष्टपाचनम् ॥ ५२ ॥
2.5.52 · p. 139
अनुष्टुप्
पात्रमात्रेऽमत्रपात्रभाण्डान्यावपनं तथा ।भाजनं दर्विकम्बी तु स्त्री तर्दूर्दारुमुष्टिकः ॥ ५३ ॥
2.5.53 · p. 139
अनुष्टुप्
पिधानपात्रे तु प्रोक्तावुदञ्चनमुदञ्चनी ।चर्मणः स्नेहपात्रं स्यात्कुतूः सा कुतुपोऽल्पिका ॥ ५४ ॥
2.5.54 · p. 139
अनुष्टुप्
पर्णपात्रे करङ्को ना पर्णधान्युपहन्तिका ।उपस्करो वेषवारो राज्यक्तस्तु रसालिका ॥ ५५ ॥
2.5.55 · p. 140
अनुष्टुप्