All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · पशुवर्गः
॥ इति धान्यादिवर्गः समाप्तः ॥
॥ अथ पशुवर्गः प्रारभ्यते ॥
मृगधूर्तकगोमायुफेरवाः फेरजम्बुकौ ।शृगालो वञ्चकः क्रोष्टा भूरिमायः शिवा स्त्रियाम् ॥ १ ॥
2.6.1 · p. 141
अनुष्टुप्
अच्छो भल्लुकभालूकौ ऋक्षो भल्लश्च भाल्लुकः ।खड्गी च गण्डकः खड्गो लुलायो महिषस्तथा ॥ २ ॥
2.6.2 · p. 141
अनुष्टुप्
कासारः सैरिभो वाहद्विषच्च गोधिकात्मजे ।गौधेयश्चापि गौधेरो गौधारश्च त्रयो मताः ॥ ३ ॥
2.6.3 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
भूदारः सूकरः कोलो वराहः क्रोडघोणिनौ ।घृष्टिर्दंष्ट्री किरः पोत्री स्तब्धरोमा किटिस्तथा ॥ ४ ॥
2.6.4 · p. 141
अनुष्टुप्
व्याघ्रे द्वौ द्वीपिशार्दूलौ स्यात्तरक्षुर्मृगादने ।सिंहः पञ्चाननः कण्ठीरवः पञ्चनखो हरिः ॥ ५ ॥
2.6.5 · p. 141
अनुष्टुप्
पुण्डरीको मृगेन्द्रश्च केसरी मृगसूदनः ।वानरो मर्कटो वाऽपि वनौका अपि कथ्यते ॥ ६ ॥
2.6.6 · p. 142
अनुष्टुप्
प्लवंगः प्लवगः कीशः शाखामृगवलीमुखौ ।बिलाल ओतुमार्जारौ आखुभुग्वृषदंशकः ॥ ७ ॥
2.6.7 · p. 142
अनुष्टुप्
शल्यस्तु शल्लकी श्ववित्तल्लोम्नि शललं शलम् ।ईहामृगो वृकः कोके कुरङ्गः हरिणो मृगः ॥ ८ ॥
2.6.8 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)
रङ्कुरेणोरुरुर्न्यङ्कुः कृष्णसारश्च शम्बरः ।गोकर्णो रोहितश्चैव चमूरुश्चेति द्वादश ॥ ९ ॥
2.6.9 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ति (wrong syllable)
गवयः सृममरो रामो गन्धर्वः शरभः शशः ।खनकः स्यादधोगन्ता पुंध्वजो वृष उन्दुरः ॥ १० ॥
2.6.10 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मूषकोऽप्याखुरुन्दुश्च गिरिका बालमूषिका ।दिवान्धा दीर्घतुण्डीच गन्धास्या तुर्च्छुछुन्दरी ॥ ११ ॥
2.6.11 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्च्छु (wrong syllable)
मुसलो गृहगोधायां सरटः कृकलासकः ।वृश्चिकेऽलिद्रुणद्रोणाः पत्रिश्येनौ शशादनः ॥ १२ ॥
2.6.12 · p. 143
अनुष्टुप्
भवेत्कलरवः पुंसि पारावतकपोतकौ ।कौशिकोलूककाकारिदिवान्धघूकपेचकाः ॥ १३ ॥
2.6.13 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
खञ्जनः खञ्जरीटौ द्वौ चाषश्चासः किकीदिविः ।शारङ्गश्चातकः स्तोको दार्वाघाटे शतच्छदः ॥ १४ ॥
2.6.14 · p. 144
अनुष्टुप्
भृङ्गे कलिङ्गधूम्याटौ गोमयस्थानवासिनौ ।कृकवाकुस्ताम्रचूडश्चरणायुधकुक्कुटौ ॥ १५ ॥
2.6.15 · p. 144
अनुष्टुप्
करेटौ कर्करेटुः स्यात्करटुः कर्कराटुकः ।कृकणे क्रकरः कीरे शुकः परभृते पिकः ॥ १६ ॥
2.6.16 · p. 144
अनुष्टुप्
वनप्रियः कोकिलोऽपि काके ध्वांक्षश्च वायसः ।बलिभुक्करटाऽरिष्टबलिपुष्टसकृत्प्रजाः ॥ १७ ॥
2.6.17 · p. 144
अनुष्टुप्
आत्मघोषोऽथ चटकः कलविङ्कः स्त्रियां तु सः ।चटका तदपत्येऽपि चटकेरः पुमान् यदि ॥ १८ ॥
2.6.18 · p. 145
अनुष्टुप्
दात्यूहः कालकण्ठेऽपि काकोलो द्रोणवायसः ।दाक्षाय्यः कथितो गृध्रेऽथ चिल्लाऽऽतायिनौ समौ ॥ १९ ॥
2.6.19 · p. 145
अनुष्टुप्
क्रौञ्चे क्रुङ् स्याद्बके कह्वः सारसे पुष्कराह्वयः ।रथाङ्गश्चक्रवाकः स्यात् कोकश्च कुररस्त्वयम् ॥ २० ॥
2.6.20 · p. 145
अनुष्टुप्
उत्क्रोशे मानसौकास्तु चक्राङ्गो हंस उज्ज्वलन् ।मरालः कलहंसोऽपि कादम्बो राजहंसकः ॥ २१ ॥
2.6.21 · p. 145
अनुष्टुप्
रथोऽङ्घ्रिचञ्चुभिर्योऽथ मलिनो मल्लिकेक्षणः ।धार्तराष्ट्रो यदा नीलो ज्ञायते लक्ष्मभिः क्रमात् ॥ २२ ॥
2.6.22 · p. 146
अनुष्टुप्
लक्ष्मणा सारसस्य स्त्री हंसस्य वरटा मता ।जतुकाऽजिनपत्रायां परोष्णी तैलपायिका ॥ २३ ॥
2.6.23 · p. 146
अनुष्टुप्
वर्वणा मक्षिका नीला विशिष्टा मधुमक्षिका ।सरघा मधुदात्रिषु पुत्तिका वा पतङ्गिका ॥ २४ ॥
2.6.24 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्रि (wrong syllable)
वनमक्ष्यां मतो दंशो दंशी तज्जातिरल्पिका ।ततोऽपि क्षुद्रदंशे तु मशो मशक इत्युभौ ॥ २५ ॥
2.6.25 · p. 146
अनुष्टुप्
अन्यः शुलशुलः कीटः खट्वाकोटस्तु मत्कुणः ।पतङ्गः शलभो झिल्ल्यां चीरी झीरी च झीरुका ॥ २६ ॥
2.6.26 · p. 146
अनुष्टुप्
भृङ्गो मधुकरोऽलिश्च मधुपोऽली मधुव्रतः ।मधुलिड्भ्रमरः पुष्पलिड्द्विरेफश्च षट्पदः ॥ २७ ॥
2.6.27 · p. 147
अनुष्टुप्
व्याघाटस्तु भरद्वाजे ज्योतिः खद्योत इङ्गणे ।स्त्रीलूता चोर्णनाभोर्णौ तथा मर्कटकः पुमान् ॥ २८ ॥
2.6.28 · p. 147
अनुष्टुप्
मेघनादानुलासी च नीलकण्ठश्च बर्हिणः ।शिखावलो मयूरोऽपि शिखी केकी भुजङ्गभुक् ॥ २९ ॥
2.6.29 · p. 147
अनुष्टुप्
बर्ही चाऽस्य शिखाचूडा वाणी केका निगद्यते ।नेत्राकारेषु चिह्नेषु प्रोक्तौ मेचकचन्द्रकौ ॥ ३० ॥
2.6.30 · p. 147
अनुष्टुप्
स्याच्छिखण्डः पुमान् बर्हं पिच्छं च स्यान्नपुंसकम् ।खगो द्विजो विहङ्गश्च विहङ्गमविहायसौ ॥ ३१ ॥
2.6.31 · p. 148
अनुष्टुप्
विहगः शकुनिः पक्षी शकुन्तिः शकुनोऽण्डजः ।पतन् पत्ररथः पित्सन् नगौका नभसंगमः ॥ ३२ ॥
2.6.32 · p. 148
अनुष्टुप्
गरुत्मान् पतगः पत्री शकुन्तो नीडजोऽपि विः ।पतत्रिर्विष्किरो वाजी पतत्री विकिरः पुमान् ॥ ३३ ॥
2.6.33 · p. 148
अनुष्टुप्
विशेषाः कुक्कुभो मद्गु जीवं जीवश्च कोरकः ।हारीतस्तित्तिरिः कोयष्टिकष्टिट्टिभकः प्लवः ॥ ३४ ॥
2.6.34 · p. 148
अनुष्टुप्
लावः कारण्डवो वर्तकः पुमान् वर्तिकादयः ।पक्षतिः पक्षमूलं स्त्री त्रोटिश्चञ्चुः स्त्रियामिमे ॥ ३५ ॥
2.6.35 · p. 148
अनुष्टुप्
तनूरुहं पतत्रश्च पत्रं पक्षच्छदौ गरुत् ।डयनोड्डीनसंडीनप्रडीनानि नभोगतिः ॥ ३६ ॥
2.6.36 · p. 149
अनुष्टुप्
कोषः कोशं स्त्रियां पेशी पेशिश्चाण्डं नपुंसके ।निवासे पक्षिगेहे च कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
2.6.37 · p. 149
अनुष्टुप्
शिशौ डिम्भोऽर्भकः पोतः शावकः पृथुकोऽपि च ।युगले तु युगं युग्मं द्वन्द्वं स्त्रीपुंसयोर्युतौ ॥ ३८ ॥
2.6.38 · p. 149
अनुष्टुप्
संदोहविसरव्राता ओघः समुदयो गणः ।समवायस्तथा वारः संहतिः स्त्रीनपुंसकम् ॥ ४० ॥
2.6.40 · p. 149
अनुष्टुप्
निकुरम्बं कदम्बं च वृन्दं वर्गः समैः स्मृतः ।सजातीयैः कुलं संघसार्थौ स्यातां तु जन्तुभिः ॥ ४१ ॥
2.6.41 · p. 150
अनुष्टुप्
समजः पशुवृन्दे ना तिरश्चां यूथमस्त्रियाम् ।अन्येषां तु समाजोऽथ निकायः सह धर्मिणाम् ॥ ४२ ॥
2.6.42 · p. 150
अनुष्टुप्
धान्यादेरुत्करः पुञ्जराशी ना कूटमस्त्रियाम् ।शौकतैत्तिरमायूरकापोतादि स्वके गणे ॥ ४३ ॥
2.6.43 · p. 150
अनुष्टुप्
छेका वा गृह्यका गेहाऽऽसक्ता ये पक्षिणो मृगाः ।
2.6.44 · p. 150