All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
प्रथमः काण्डः · वाणीवर्गः
॥ इति मतिवर्गः समाप्तः ॥
अथ वाणीवर्गः प्रारभ्यते
वाणी गीर्भारती भाषा ब्राह्मी वाक् च सरस्वती ।आगमो वाक्यमाप्तानां सूत्रं शास्त्रं प्रचक्षते ॥ १ ॥
1.6.1 · p. 46
अनुष्टुप्
लपितं भाषितं लोके वचनं वच उच्यते ।कृतिः क्रिया प्रयत्नश्च वाक्यं तु सुप्तिङां चयः ॥ २ ॥
1.6.2 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
ऋक् स्त्रियां सामयजुषी श्रुतिर्वेदास्त्रयस्त्रयी ।शिक्षा कल्पो व्याकरणं निरुक्तं छन्दज्योतिषी ॥ ३ ॥
1.6.3 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न्द (wrong syllable)
षडङ्गानि तु वेदस्य ओंकारः प्रणवः स्मृतः ।त्रयः स्वरा उदात्ताद्या इतिहासः पुरातनम् ॥ ४ ॥
1.6.4 · p. 46
अनुष्टुप्
आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ।पुराणं धर्मशास्त्राणि स्मृतयो धर्मसंहिता ॥ ५ ॥
1.6.5 · p. 47
अनुष्टुप्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् ॥ ६ ॥
1.6.6 · p. 47
अनुष्टुप्
षडङ्गानि चतुर्वेदा मीमांसाऽऽन्वीक्षिकी तथा ।पुराणं धर्मशास्त्रं च विद्या एताश्चतुर्दश ॥ ७ ॥
1.6.7 · p. 47
अनुष्टुप्
चत्वारि मूलसूत्राणि छेदान्यपि तथैव च ।अन्त्यमावश्यकं प्राक्तं द्वात्रिंशत्ते प्रकीर्तिताः ॥ ९ ॥
1.6.9 · p. 48
अनुष्टुप्
आकाशगामिनी विद्या परकायप्रवेशिनी ।रूपान्तरकरी नाम्नी चतुर्थी स्तम्भनी मता ॥ १० ॥
1.6.10 · p. 48
अनुष्टुप्
मोहिनी पञ्चमी षष्ठी स्वर्गसिद्धिकरी खलु ।रौप्यसिद्धिकरी ख्याता रससिद्धिकरी तथा ॥ ११ ॥
1.6.11 · p. 48
अनुष्टुप्
दमनी नवमी ज्ञेया स्याद्वशीकरणी क्रमात् ।भूतदमनी च नागदमनी द्वादशी मता ॥ १२ ॥
1.6.12 · p. 48
अनुष्टुप्metre not read in every line
सर्वसम्पत्करी चान्त्या शिवदाख्या चतुर्दशी ।लोकलोकोत्तराः सिद्धा विद्याश्चैता श्चतुर्दश ॥ १३ ॥
1.6.13 · p. 49
अनुष्टुप्
प्रबन्धकल्पनायान्तु कथा साऽऽख्यायिका यदि ।सत्यार्थेनोपलब्धा स्याद् गूढार्थे तु प्रहेलिका ॥ १४ ॥
1.6.14 · p. 49
अनुष्टुप्
समासार्था समस्योक्ता संग्रहस्तु समाहृतिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदान्तोऽथ जनश्रुतिः ॥ १५ ॥
1.6.15 · p. 50
अनुष्टुप्
किंवदन्ती भवेत्सत्या वाऽसत्या निर्णयो नहि ।आख्याऽऽह्वे अभिधानं च नामधेयं च नाम च ॥ १६ ॥
1.6.16 · p. 50
अनुष्टुप्
बहुकर्तृकमाह्वानं संहूतिरथ भूमिका ।उपोद्घातो विरुद्धार्थो विवादः शपथः पुनः ॥ १७ ॥
1.6.17 · p. 50
अनुष्टुप्
प्रतिज्ञावचने प्रोक्तः शास्त्रविद्भिः पुमानयम् ।पृच्छा प्रश्नोऽनुयोगश्च प्रतिवाक्योत्तरे समे ॥ १८ ॥
1.6.18 · p. 51
अनुष्टुप्
घोषणोच्चैस्तु घोषो यः स्तुतिः स्तोत्रं स्तवो नुतिः ।आम्रेडितं द्विरुक्तं च पुनः पुनरुदाहृतम् ॥ १९ ॥
1.6.19 · p. 51
अनुष्टुप्
परोक्षे निन्दनं लोके पृष्ठमासं नपुंसकम् ।कुत्सा जुगुप्सा निन्दा स्त्री परिवादाऽपवादवत् ॥ २० ॥
1.6.20 · p. 51
अनुष्टुप्
आक्षेपो गर्हणायां स्यात् काकुः स्त्री विकृतिर्ध्वनेः ।कठिनं च कठोरं च कर्कशं परुषं वचः ॥ २१ ॥
1.6.21 · p. 51
अनुष्टुप्
स्यात्सम्भाषणमालापः प्रलापोऽनर्थभाषणम् ।मिथ्यावागपलापः स्याद् विलापः परिवेदनम् ॥ २२ ॥
1.6.22 · p. 51
अनुष्टुप्
मिथ्यास्तुतौ चटुश्चाटु वाचिकं वचसाहृतम् ।सूनृतं स्यात् प्रियं सत्यं सङ्गतं हृदयंगमम् ॥ २३ ॥
1.6.23 · p. 52
अनुष्टुप्
अवक्तव्यमवाच्यं स्याद्भणितं रतिकूजनम् ।ग्राम्यमश्लीलवचनं वितथं त्वनृतं वचः ॥ २४ ॥
1.6.24 · p. 52
अनुष्टुप्
तथ्यं च सत्ये स्याद्ध्वाननिस्वाननिस्वनाः ।स्वः स्वानः स्वनो नादो निनादनिनदौ ध्वनिः ॥ २५ ॥
1.6.25 · p. 52
metre not recognised
आरवाऽरावसंरावविरावाः स्युश्चतुर्दश ।कोलाहलः कलकलः प्रतिश्रुत् स्त्री प्रतिध्वनौ ॥ २६ ॥
1.6.26 · p. 52
अनुष्टुप्
शिञ्जितं क्वाणनिक्वाणक्वणक्वणननिक्वणम् ।भूषणानां ध्वनौ चाऽपि वीणायाः प्रक्वणादयः ॥ २७ ॥
1.6.27 · p. 53
अनुष्टुप्
गीतगाने विवक्षार्थबोधे चाऽऽलापको भवेत् ।
1.6.28 · p. 53