All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
प्रथमः काण्डः · समयवर्गः
व्योमवर्गः समाप्तः
॥ अथ समयवर्गः प्रारभ्यते ॥
समयः कालदिष्टौ चाऽनेहा च क्षण उच्यते ।पक्षतिः प्रतिपत्स्त्रीत्वे तदाद्यास्तिथयोर्द्वयोः ॥ १ ॥
1.4.1 · p. 33
अनुष्टुप्
दिवसो वासरो घस्रः पुंसि क्लीबे दिनाहनी ।प्रभातोऽहर्मुखं कल्यं प्रत्यूष ऊष इत्यपि ॥ २ ॥
1.4.2 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
सायं सन्ध्या दिनान्तश्च सायः पितृप्रसूरपि ।त्रिधा विभक्ते दिवसे पूर्वाह्नः प्रथमस्ततः ॥ ३ ॥
1.4.3 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
मध्याह्णो ह्यपराह्णोऽन्तस्त्रिसन्ध्यी न पुमान्भवेत् ।शर्वरी क्षणदा रात्रिस्त्रियामा च क्षपा निशा ॥ ४ ॥
1.4.4 · p. 34
अनुष्टुप्
तमस्विनीविभावर्यौ यामिनी रजनी तमी ।निशीथिनी तमिस्राऽपि तामसी तिमिरेऽधिके ॥ ५ ॥
1.4.5 · p. 34
अनुष्टुप्
चन्द्रस्य कलया युक्ता रात्रिर्ज्योत्स्नी निगद्यते ।पूर्वाऽऽगामिदिनाभ्यां या युक्ता सा पक्षिणी निशा ॥ ६ ॥
1.4.6 · p. 34
अनुष्टुप्
गणरात्रं निशाबह्व्यः प्रदोषः क्षणदामुखम् ।अर्धरात्रौ निशीथः स्याद् यामस्तु प्रहरः समौ ॥ ७ ॥
1.4.7 · p. 34
अनुष्टुप्
कः पर्वसन्धिः प्रतिपत् पञ्चदश्योर्यदन्तरम् ।राका च पूर्णिमा पौर्णमासी पूर्णे निशाकरे ॥ ८ ॥
1.4.8 · p. 34
अनुष्टुप्
कलया हीयमाने तु चन्द्रः सानुमतिः स्मृता ।सूर्येन्दोः सङ्गमो दर्शोऽमावस्याऽप्यमामसी ॥ ९ ॥
1.4.9 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अमावास्या सिनीवाली दृष्टेन्दुः कलया कुहूः ।नष्टेन्दुः कृष्णशुक्लेषु पक्षान्तः पञ्चदश्यपि ॥ १० ॥
1.4.10 · p. 35
अनुष्टुप्
उपरागो ग्रहो राहुग्रस्ते चन्द्रे रवावपि ।अजन्यमीतिरुत्पातो वह्न्युत्पात उपाहितः ॥ ११ ॥
1.4.11 · p. 35
अनुष्टुप्
स्यातां सहोक्तौ चन्द्रार्कौ पुष्पवन्तौ नचाऽन्यथा ।उच्छवासेन च निश्वासे नैकेन प्राण उच्यते ॥ १२ ॥
1.4.12 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सप्तप्राणैर्भवेत्स्तोकः सप्तस्तोकैर्लवो लवैः ।सप्तसप्ततिसंख्यावान् मुहूर्तस्त्रिंशता पुनः ॥ १३ ॥
1.4.13 · p. 36
अनुष्टुप्
मुहूर्तैश्च दिवारात्रिस्ताभ्यां च दशपंचभिः ।पक्षः शुक्लोऽथ कृष्णश्च ताभ्यां मासः प्रकीर्तितः ॥ १४ ॥
1.4.14 · p. 36
अनुष्टुप्
द्वाभ्यां मार्गादिमासाभ्यामृतुस्तैरयनं त्रिभिः ।दक्षिणोदग्गतार्कस्य ह्ययने द्वे तु वत्सरः ॥ १५ ॥
1.4.15 · p. 36
अनुष्टुप्
विषुवं विषुवद्यत्र समा रात्रिर्दिवा समम् ।पुष्येण संयुता पौर्णमासी पौषी तया युतः ॥ १६ ॥
1.4.16 · p. 36
अनुष्टुप्
पौषो माघादयोऽप्येवं तत्तन्नक्षत्रयोगतः ।आग्रहायणिको मार्गोऽग्रयणं चाऽऽग्रहायणः ॥ १७ ॥
1.4.17 · p. 37
अनुष्टुप्
मार्गशीर्षः सहाः पौषे तैषो माघे तपा इति ।फाल्गुनस्तु तपस्यः स्यात् चैत्रे तु चैत्रको मधुः ॥ १८ ॥
1.4.18 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
वैशाखो माधवो राधो ज्येष्ठ शुक्रः शुचिः पुमान् ।आषाढः श्रावणो मासो नभाः श्रावणिको मतः ॥ १९ ॥
1.4.19 · p. 37
अनुष्टुप्
स्युर्नभस्यो भाद्रपदो भाद्रः प्रौष्ठपदोऽपि च ।अश्विनाऽश्वयुजौ तुल्यौ बाहुलोजौ तु कार्तिके ॥ २० ॥
1.4.20 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
हेमन्तशिशिरो न स्त्री वसन्तसुरभी समौ ।ग्रीष्मो निदाघ उष्णश्च तपः प्रावृट् स्त्रियां स्मृता ॥ २१ ॥
1.4.21 · p. 38
अनुष्टुप्
भूम्नि वर्षाः शरत्स्त्रीत्वे ऋतवोऽमी प्रकीर्तिताः ।हायनोऽब्दो वत्सरश्च संवत्सर इमेऽस्त्रियाम् ॥ २२ ॥
1.4.22 · p. 38
अनुष्टुप्
शरत् स्त्रियां समाश्चैव कल्प एभिः प्रवर्तते ।संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त उच्यते ॥ २३ ॥
1.4.23 · p. 38
अनुष्टुप्
कालोऽवसर्पिणी नामोत्सर्पिणी सागरस्य यः ।कोटीनां कोटयस्तासां विंशत्या स समाप्यते ॥ २४ ॥
1.4.24 · p. 38
अनुष्टुप्
षडराः पूर्वकालस्य विपरीताः परस्यते ।कालचक्रमिदं लोको द्वादशैते विवर्तते ॥ २५ ॥
1.4.25 · p. 38
अनुष्टुप्
पापे पङ्कं पुमान् पाप्मा कल्मषं किल्बिषं च तत् ।कलुषं दुरितं चाऽघमेनो वृजिनदुष्कृते ॥ २६ ॥
1.4.26 · p. 39
अनुष्टुप्
स्याद्वृषः सुकृतं श्रेयः पुण्यं धर्मस्तु न स्त्रियाम् ।प्रमोदाऽऽमोदहर्षाः स्युः प्रमदाऽऽनन्दसम्मदाः ॥ २७ ॥
1.4.27 · p. 39
अनुष्टुप्
मुत्प्रीतिस्तः स्त्रियां क्लीबे शातं शर्म सुखे अपि ।कल्याणं मङ्गलं भद्रं शुभं खः श्रेयसं शिवम् ॥ २८ ॥
1.4.28 · p. 39
अनुष्टुप्
कुशलं भवुकं भव्यं क्षेमं भविकमस्त्रियाम् ।शस्तं च त्रिषु द्रव्ये चेत् पुण्यं पापं सुखादिकम् ॥ २९ ॥
1.4.29 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षु (wrong syllable)
मतल्लिका प्रकाण्डं च तल्लजोद्घौ मचर्चिका ।प्रशंसावचनान्येतान्ययस्तु सशुभो विधिः ॥ ३० ॥
1.4.30 · p. 40
अनुष्टुप्
यौवनादिरवस्था स्यात्प्रधानं प्रकृतिः स्मृताः ।क्षेत्रज्ञपुरुषावात्मा तमः सत्त्वं रजो गुणाः ॥ ३१ ॥
1.4.31 · p. 40
अनुष्टुप्
भाग्यं दिष्टं भागधेयं दैवं स्त्री नियतिर्विधिः ।स्यान्निदानं मूलबीजं हेतुर्ना बीजकारणे ॥ ३२ ॥
1.4.32 · p. 41
अनुष्टुप्
उत्पत्तौ जननं जन्म जनुर्जनिसमुद्भवौ ।शरीरी चेतनः प्राणी जन्तुर्जीवी च जन्मिनि ॥ ३३ ॥
1.4.33 · p. 41
अनुष्टुप्
हृदयं मानसं चित्तं हृन्मनः स्वान्तचेतसी ।उक्तं कोषविदायत्तन्मयाप्यत्र प्रकीर्तितः ॥ ३४ ॥
1.4.34 · p. 41
अनुष्टुप्