All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
तृतीयकाण्डम् · नानावर्गः (1/3)
॥ इति विशेषणवर्गः समाप्तः ॥
॥ अथ नानार्थवर्गः प्रारभ्यते ॥
पर्यायवृत्त्या नानार्थाः केचनोक्ताश्च शेषिताः ।अर्थान्तरे प्रयुञ्जानाः पुनरुक्तिं न बिभ्रति ॥ १ ॥
3.2.1 · p. 285
अनुष्टुप्
त्रिदिवाऽऽकाशयोर्नाको नाकुर्वल्मीकशैलयोः ।भूवनेऽपि जने लोकः श्लोकः पद्ये यशःसु च ॥ २ ॥
3.2.2 · p. 285
अनुष्टुप्
कः समीराऽऽत्मदक्षाऽग्नियमब्रह्मसु बर्हिषु ।ब्रध्ने पुमान् सुखे शीर्षे जले कं तु नपुंसकम् ॥ ३ ॥
3.2.3 · p. 285
अनुष्टुप्
नागे वा वर्धकौ तक्षकोऽर्कः स्फटिकसूरयोः ।जम्बुको वरुणे क्रोष्टौ खड्गे वा सायकः शरे ॥ ४ ॥
3.2.4 · p. 285
अनुष्टुप्
कलङ्कोऽङ्केऽपवादेऽथाऽङ्कश्चिह्नोत्सङ्गयोः पुमान् ।आनकः पटहे भेर्यां पृथुकश्चिपिटे शिशौ ॥ ५ ॥
3.2.5 · p. 285
अनुष्टुप्
आलोको दर्शने वन्दिभाषणोद्द्योतयोरपि ।पेचकः करिणां पुच्छमूलोपान्तेऽप्युलूकके ॥ ६ ॥
3.2.6 · p. 286
अनुष्टुप्
पुलाको भक्तसिक्थेऽपि संक्षेपे तुच्छधान्यके ।द्वयोर्मेघोपले पक्षिविशेषे दाडिमे पुमान् ॥ ७ ॥
3.2.7 · p. 286
अनुष्टुप्
करकः कमण्डलौ नस्त्री करङ्के… ।…ऽथ विनायकः ।गुरौ तार्क्ष्ये जिने विघ्ने हेरम्बे वृश्चिको द्रुणौ ॥ ८ ॥
3.2.8 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
राश्योषधिभिदोः शूककीटे किष्कुर्वितस्तिषु ।हस्ते च गैरिकं धातुरुक्मयोरनृतेऽप्रिये ॥ ९ ॥
3.2.9 · p. 286
अनुष्टुप्
अलीकं यातनाकृत्योः कारिकेभकरेऽङ्गुलौ ।कर्णयोर्भूषणे पद्मबीजकोश्यां च कर्णिका ॥ १० ॥
3.2.10 · p. 287
अनुष्टुप्
स्यात् सिते खदिरसोमवल्लकः कट्फलेऽपि च ।शालावृकाः कपौ क्रोष्टुशुनोरप्यथ कालिका ॥ ११ ॥
3.2.11 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
वृश्चिके मेघजालेऽपि करिण्यां गवि धेनुका ।सोमे जैवातृकः पुंसि दीर्घायुषि कृशे त्रिषु ॥ १२ ॥
3.2.12 · p. 287
अनुष्टुप्
विहङ्गमे द्वयोः पुंसि खुरे त्वश्वस्य वर्तकः ।व्याघ्रादौ पुण्डरीकं ना यवान्यादिषु दीपकः ॥ १३ ॥
3.2.13 · p. 287
अनुष्टुप्
आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ।नैकदेशे प्रतीकं तु प्रतिलोमविलोमयोः ॥ १४ ॥
3.2.14 · p. 288
अनुष्टुप्
भूनिम्बे भूस्तृणेऽपि स्यात्कट्फलेऽपि च भूतिकम् ।हेम्न्युरोभूषणे साष्टशते दीनारकर्षयोः ॥ १५ ॥
3.2.15 · p. 288
अनुष्टुप्
अस्त्री निष्कं सुवर्णानां शल्के शकलवल्कले ।दम्भैनः शमलेष्वस्त्री कल्कः शीलाऽन्वयादिषु ॥ १६ ॥
3.2.16 · p. 288
अनुष्टुप्
अनूकं गुग्गुलूलूकव्यालग्राहिष्वृभुक्षि च ।कौशिकोऽथ च पिण्याकस्तिलकल्केऽपि सिह्लके ॥ १७ ॥
3.2.17 · p. 288
अनुष्टुप्
रुद्रचापे पिनाकोऽस्त्री पांशुवर्षत्रिशूलयोः ।सुरे वृन्दारकः श्रेष्ठे मनोज्ञे त्रिषु दाम्भिकः ॥ १८ ॥
3.2.18 · p. 288
अनुष्टुप्
तथा कोक्कुटिकोऽपि स्याद् योऽदूरे प्रहिते क्षणः ।मुख्याऽन्यकेवलेष्वेकं त्रिषु वृन्दारकादयः ॥ १९ ॥
3.2.19 · p. 289
अनुष्टुप्
॥ इति कान्ताः ॥
कार्याऽक्षमः प्रभो लाभदर्शी लालाटिकः स्मृतः ।शंखोऽस्त्री निधिभालास्न्थोः कम्बौजा खं पुरादिषु ॥ २० ॥
3.2.20 · p. 289
अनुष्टुप्
शिलीमुखोऽलौ बाणे च शिखा ज्वाला घृणी अपि ।मयूखः किरणे ज्वालाशोभयोः शैलवृक्षयोः ॥ २१ ॥
3.2.21 · p. 289
अनुष्टुप्
॥ इति खान्ताः ॥
नगाऽगौ स्याद्भगः सूर्ये श्रीकामादौ नपुंसकम् ।शबले त्रिषु सारङ्गो हरिणे चातके पुमान् ॥ २२ ॥
3.2.22 · p. 289
अनुष्टुप्
आदित्यभूमिस्वर्गादौ ना स्त्री गौर्ना नपुंसकम् ।मृगाः पशौ कृतादौ च यानाद्यङ्गेऽस्त्रियां युगम् ॥ २३ ॥
3.2.23 · p. 290
अनुष्टुप्
लिङ्गं चिह्नाऽनुमानादौ शृङ्गं प्राधान्यसानुनोः ।गुह्यूमूर्ध्नोर्वराङ्गं च पतङ्गः सूर्यपक्षिणोः ॥ २४ ॥
3.2.24 · p. 290
अनुष्टुप्
पराभवेऽभिषङ्गो नाऽऽक्रोशेऽथ प्लवगः कपौ ।अहेः काये फणायां च भोगः स्त्र्यादिभृतौ सुखे ॥ २५ ॥
3.2.25 · p. 290
अनुष्टुप्
बाणसूर्ये विहङ्गादौ खगो वेगो रयादिषु ।स्नानीये कौसुमे रेणौ परागः स्याद्रजःस्यपि ॥ २६ ॥
3.2.26 · p. 291
अनुष्टुप्
सर्गो निश्चयनिर्मोक्षस्वभावाऽध्यायसृष्टिषु ।मातङ्गः श्वपचे नागे नागो ना तु गजादिषु ॥ २७ ॥
3.2.27 · p. 291
अनुष्टुप्
योगः कवचः सामादिध्यानसङ्गतियुक्तिषु ।अपाङ्गस्तिलकेऽप्यङ्गहीननेत्रान्तयोरपि ॥ २८ ॥
3.2.28 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चः (wrong syllable)
॥ इति गान्ताः ॥
योगभेदे विशेषाऽस्त्रे दुःखांऽहोव्यसनेष्वघम् ।पृक्कायां स्त्री लघुः शीघ्रे कृष्णागुरुणि न द्वयोः ॥ ३० ॥
3.2.30 · p. 291
अनुष्टुप्
मनोज्ञेऽल्पे च निःसारे गुरौ स्याद्वाच्यलिङ्गवत् ।ओघोऽम्भसां रये वृन्दे काचः शिक्ये मृदन्तरे ॥ ३१ ॥
3.2.31 · p. 292
अनुष्टुप्
॥ इति घान्ताः ॥
नेत्ररोगे प्रपञ्चस्तु विपर्यासेऽपि विस्तरे ।रुचिर्गभस्तिस्पृहयोरभिष्वङ्गे स्त्रियां शुचिः ॥ ३२ ॥
3.2.32 · p. 292
अनुष्टुप्
॥ इति चान्ताः ॥
पावकेऽत्युपधाऽमात्ये मासि ना त्रिष्वतोऽधिके ।निजं त्रिषु स्वके नित्ये नाऽब्जः शङ्खशशाङ्कयोः ॥ ३३ ॥
3.2.33 · p. 292
अनुष्टुप्
समभूमौ रणेऽप्याजिः सन्तानेऽपि जने प्रजा ।हरे विष्णौ विधौ कामे छागेऽजो वहगोष्ठयोः ॥ ३४ ॥
3.2.34 · p. 292
अनुष्टुप्
मार्गे व्रजो द्विजो दन्तविप्रादावण्डजेऽहिभुक् ।तार्क्ष्ये केकिनि कुञ्जोऽस्त्री दन्तेऽपि बलजा तु या ॥ ३५ ॥
3.2.35 · p. 293
अनुष्टुप्
यूथिका वरयोषा वा बलजं गोपुरादिषु ।धर्मराजो यमे बुद्धे जिने राज्ञि युधिष्ठिरे ॥ ३६ ॥
3.2.36 · p. 293
अनुष्टुप्
॥ इति जान्ताः ॥
क्षेत्रज्ञो वाच्यलिङ्गः स्यात्प्रवीणे नाऽऽत्मनि स्थिरः ।नामचेतनयोः संज्ञा स्वाङ्गाद्यैरर्थसूचने ॥ ३७ ॥
3.2.37 · p. 293
अनुष्टुप्
॥ इति ञान्ताः ॥
पटुर्दक्षादिके कष्टं कृच्छ्रेऽपि गहने जटा ।मूले लग्नकचे मास्यामिष्टिर्यागेच्छयोरपि ॥ ३८ ॥
3.2.38 · p. 293
अनुष्टुप्
ज्ञानेऽक्ष्णि दर्शने दृष्टिर्बहूनि त्रिषु निश्चिते ।सृष्टिः संशय कालाऽल्पसूक्ष्मैलासु त्रुटिः स्त्रियाम् ॥ ३९ ॥
3.2.39 · p. 294
अनुष्टुप्
अरिष्टं सूतिकागारे आसवादौ शुभेऽशुभे ।समृद्धिफलयोर्व्युष्टिर्दैवते दिष्टमद्वयोः ॥ ४० ॥
3.2.40 · p. 294
अनुष्टुप्
तक्षाऽदित्यभिदोस्त्वष्टा देवशिल्पिनि ना कटुः ।रसेऽकार्येऽद्वयोस्तीक्ष्णे मत्सरे त्रिषु कोटयः ॥ ४१ ॥
3.2.41 · p. 294
अनुष्टुप्
संख्याभेदे प्रकर्षे च कोणेऽग्रधनुषः स्त्रियः ।खलतौ शिपिविष्टः स्याद्दुश्चर्मणि महेश्वरे ॥ ४२ ॥
3.2.42 · p. 294
अनुष्टुप्
काकेभगण्डौ करटो नागगण्डे कटौ कटः ।कैतवाऽनृतमायासु यन्त्रनिश्चलराशिषु ॥ ४३ ॥
3.2.43 · p. 295
अनुष्टुप्
सीराङ्गे शैलशृङ्गे चाऽयोघने कूटमस्त्रियाम् ।रिष्टं स्यादशुभाभावे पुंसि फेनिलखड्गयोः ॥ ४४ ॥
3.2.44 · p. 295
अनुष्टुप्
॥ इति टान्ताः ॥
नीलकण्ठः सितापाङ्गे हरेऽपि पीतसारके ।दात्यूहे कलविङ्के च खञ्जने कालकंठवत् ॥ ४५ ॥
3.2.45 · p. 295
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
कोष्ठोऽन्तर्जठरे पुंसि कुसूलेऽन्तर्गृहे स्वके ।युवाऽल्पयोः कनिष्ठो ना कनिष्ठा दुर्बलाङ्गुलिः ॥ ४६ ॥
3.2.46 · p. 295
अनुष्टुप्
नक्षत्रे गृहगोधायां ज्येष्ठा मासान्तरे पुमान् ।त्रिषु श्रेष्ठे च वृद्धे च काष्ठोत्कर्षे दिशि स्थितौ ॥ ४७ ॥
3.2.47 · p. 295
अनुष्टुप्
इति ठान्ताः ।
कोणप्रकाण्डमन्थानयमाऽश्वलगुडादिषु ।पारिपार्श्विकभेदेऽपि चण्डांशोर्दण्ड इष्यते ॥ ४९ ॥
3.2.49 · p. 296
अनुष्टुप्
इक्षुपाकेभसन्नाहगोलकेषु गुडो गुडा ।स्नुही योषिच्च गुडिका स्यादिडा बुधयोषिति ॥ ५० ॥
3.2.50 · p. 296
अनुष्टुप्
गोभूवाक्ष्वपि भाण्डस्तु पात्रे भूषाऽश्वभूषयोः ।वणिङ् मूलधने क्ष्वेडो विषे कर्णामये ध्वनौ ॥ ५१ ॥
3.2.51 · p. 296
अनुष्टुप्
रक्ताऽर्कस्य फले पर्णे घोषपुष्पे नपुंसकम् ।स्त्रियां वंशशलाकायां सिंहनादेऽथ वाच्यवत् ॥ ५२ ॥
3.2.52 · p. 296
अनुष्टुप्
दुरासदे च कुटिले काण्डो वर्गाऽश्ववारिषु ।बाणस्कन्धरहःस्तम्बनाडीवृन्देषु कुत्सिते ॥ ५३ ॥
3.2.53 · p. 296
अनुष्टुप्
॥ इति डान्ताः ॥
प्रतिज्ञाऽतिशयौ बाढं प्रगाढं दृढकृच्छ्रयोः ।व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ ५५ ॥
3.2.55 · p. 297
अनुष्टुप्
॥ इति ढान्ताः ॥
स्त्रैणगर्भेऽर्भके भ्रूणो बाणो वलिसुते शरे ।स्पृहापिपासयोस्तृष्णा जुगुप्साकरुणे घृणा ॥ ५६ ॥
3.2.56 · p. 297
अनुष्टुप्
भ्रूवोर्यदन्तराऽऽवर्ते ऊर्णा मेषादिलोमनि ।हरिणी हरिताहेमप्रतिमानमृगीष्वपि ॥ ५७ ॥
3.2.57 · p. 297
अनुष्टुप्
स्थूणा स्तम्भेऽपि सूर्म्यां च हरिणः पाण्डुरे त्रिषु ।त्रिषु ग्रामाधिपे श्रेष्ठे नापिते ग्रामणीः पुमान् ॥ ५८ ॥
3.2.58 · p. 298
अनुष्टुप्
समरेऽस्त्री क्वणे कोणे नापिते ना रणो मतः ।क्षणो व्यापारहीनत्वे मुहूर्तोत्सवपर्वसु ॥ ५९ ॥
3.2.59 · p. 298
अनुष्टुप्
कार्षापणे वराटानां माने मूल्ये घणे पणः ।द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ ग्लहे ॥ ६० ॥
3.2.60 · p. 298
अनुष्टुप्
मौर्व्यप्रधानरूपादिसन्ध्याद्यावृत्तिरज्जुषु ।शुक्लसूदेन्द्रियत्यागसत्त्वसौर्यादिधीषु च ॥ ६१ ॥
3.2.61 · p. 298
अनुष्टुप्
गुणः पद्मेऽग्नि मन्थाने श्रीपर्णं हस्तिनीभयोः ।करेणुर्द्रविणं वित्ते काञ्चने च पराक्रमे ॥ ६२ ॥
3.2.62 · p. 298
अनुष्टुप्
आपणे विपणिः पण्यवीथिकापण्ययो स्त्रियाम् ।प्रतीचीसुरयोर्गण्डदूर्वायां वारुणी रिणम् ॥ ६३ ॥
3.2.63 · p. 299
अनुष्टुप्
निराश्रये भूवो भागे ऊषरे प्रवणः क्षणे ।निम्नोर्वीक्रम आयत्ते क्षीणे प्रगुणप्रह्वयोः ॥ ६४ ॥
3.2.64 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ण (wrong syllable)
चतुष्पथेषु ना तीक्ष्णं विषेऽभिमरलोहयोः ।क्लीबं पुंसि यवाग्रे स्यात्तिग्माऽऽत्मत्यागिनोस्त्रिषु ॥ ६५ ॥
3.2.65 · p. 299
अनुष्टुप्
द्रोणा काष्ठाम्बुवाहिन्यां गवादन्यां च नीवृति ।पुमान् कृपीपतौ काकेऽस्त्र्याढकादिचतुर्ष्वपि ॥ ६६ ॥
3.2.66 · p. 299
अनुष्टुप्
गणः प्रमथसंघातसंख्यासैन्यप्रभेदवान् ।मक्षिकापिप्पलीनक्रजीरकेषु कणा कणः ॥ ६७ ॥
3.2.67 · p. 299
अनुष्टुप्
अतिसूक्ष्मे च धान्यांशे स्थाणुः कीले हरे पुमान् ।अस्त्री ध्रुवे प्रमाणं तु शास्त्रेयत्ताप्रमातृषु ॥ ६८ ॥
3.2.68 · p. 300
अनुष्टुप्
मर्यादाहेतुनित्येषु चैकत्वं सत्यवादिनि ।कायकारणकायस्थसाधनेन्द्रियकर्मसु ॥ ६९ ॥
3.2.69 · p. 300
अनुष्टुप्
व्रतबन्धे नाट्यगीतभेदयोः करणं यदि ।वधरक्षणरक्षितृगृहेषु शरणं भवेत् ॥ ७० ॥
3.2.70 · p. 300
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 क्षि (wrong syllable)
वाच्यवन्निचितेऽशुद्धे संकीर्णं वर्णसङ्करे ।पशुशृङ्गेभदन्तादौ विषाणं त्रिषु न स्त्रियाम् ॥ ७१ ॥
3.2.71 · p. 300
अनुष्टुप्
वर्णो द्विजादावरुणो वर्णभेदादिषु त्रिषु ।मौर्वीसन्ध्यासत्त्वशुक्लद्रव्यधीषु गुणः पुमान् ॥ ७२ ॥
3.2.72 · p. 300
अनुष्टुप्
घण्टापथे संसरणं प्राण्युत्पादे चमूगतौ ।भुक्तोज्झितोन्मूलितयोः समुद्धरणमुन्नतौ ॥ ७३ ॥
3.2.73 · p. 301
अनुष्टुप्
॥ इति णान्ताः ॥
कृतान्तो दैवसिद्धान्तयमाऽकुशलकर्मसु ।प्रकारेऽपि प्रकरणे वृत्तान्तः कार्त्स्न्यवार्तयोः ॥ ७४ ॥
3.2.74 · p. 301
अनुष्टुप्
आनर्तो देशभेदे स्यान्नृत्यस्थाणे जने रणे ।श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः ॥ ७५ ॥
3.2.75 · p. 301
अनुष्टुप्
शब्दयोनीन्द्रिये प्रस्थविकृतिर्धातवः स्मृताः ।शक्तिरायुधकास्वाः स्यान्मूर्तिकाठिन्यकाययोः ॥ ७६ ॥
3.2.76 · p. 301
अनुष्टुप्
शुद्धान्तो नृपनारीणां वेश्म कक्षान्तरोऽपि च ।क्षयेऽपचितिरर्चायां सातिर्दानाऽवसानयोः ॥ ७७ ॥
3.2.77 · p. 301
अनुष्टुप्
विस्तारे व्रततिर्वल्ल्यां वसतिर्वासवेश्मनी ।रात्रिर्वाऽर्तिर्धनुष्कोट्यां पीडायां हेतिरर्चिषि ॥ ७८ ॥
3.2.78 · p. 301
अनुष्टुप्
रवेर्ज्वालासु वा वह्नेः शस्त्रेऽथ जगती क्षितौ ।छन्दोभेदेऽपि दशमं पङ्क्तिच्छन्दोऽपि च स्त्रियाम् ॥ ७९ ॥
3.2.79 · p. 302
अनुष्टुप्
प्रभावोऽप्यायतिः पत्तिर्ना गतौ स्त्रीषु पक्षतिः ।पक्षमूले तिथेर्वाऽपि पक्षिणां वेदकर्णयोः ॥ ८० ॥
3.2.80 · p. 302
अनुष्टुप्
वार्तायां च श्रुतिर्योनिलिङ्गादौ प्रकृतिर्धृतिः ।धारणाऽध्वरतुष्ट्यादौ गुप्तिर्भूविवरेऽपि च ॥ ८१ ॥
3.2.81 · p. 302
अनुष्टुप्
वनिता जातरागायां स्त्रियां स्त्री त्रिषु याचिते ।वालुका सिकता भूम्नि कैशिक्यादिषु वृत्तयः ॥ ८२ ॥
3.2.82 · p. 303
अनुष्टुप्
रीतिस्यन्दप्रचारादिरीतिर्डिम्बाऽतिवृष्टिषु ।प्राप्तिर्महोदये लाभे जातिर्जन्मादिषु स्त्रियाम् ॥ ८३ ॥
3.2.83 · p. 303
अनुष्टुप्
अग्नित्रये युगे त्रेता भूती रक्षादिसंपदि ।पुरी नद्योरहेर्भोगवतीनाऽहौ क्षितिः क्षये ॥ ८४ ॥
3.2.84 · p. 303
अनुष्टुप्
वासादौ समितिः संघे सभायां महती पुमान् ।तत्त्वभेदे स्त्रियां वीणाभेदे प्राज्ये नपुंसकम् ॥ ८५ ॥
3.2.85 · p. 303
अनुष्टुप्
वृत्तेऽन्यलिङ्गं वृत्तं तु छन्दश्चारित्रवृत्तिसु ।त्रिषु रूप्ये सिते हेम्नि रजतं सलिले घृतम् ॥ ८६ ॥
3.2.86 · p. 304
अनुष्टुप्
अमृतं कलधौतं तु रूप्यहेम्नोः कृतं युगे ।पर्याप्तेऽपि श्रुतं शास्त्रे चाऽवधारणकर्मणि ॥ ८७ ॥
3.2.87 · p. 304
अनुष्टुप्
निमित्तं लक्षणे हेतौ रक्तं नील्यादिरागिणि ।क्लीबं खगादि सवादौ स्त्रीकरिण्योस्तु वासिता ॥ ८८ ॥
3.2.88 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
फल्गुन्यरोगयोर्वार्तं वृत्तौ वार्ता जनश्रुतौ ।बृहती क्षुद्रवार्ताक्यां छन्दोवसनयोरपि ॥ ८९ ॥
3.2.89 · p. 304
अनुष्टुप्
जीवाऽनपेक्षिकर्माऽत्याहितं यच्च महद्भयम् ।भूतं जन्तुपिशाचादौ पुमान् देवे त्रिषूचिते ॥ ९० ॥
3.2.90 · p. 305
अनुष्टुप्
जनापवादनिर्वाददुष्टगर्हितवस्तूनि ।अवगीतस्त्रिषु श्वेतं रूप्ये स्यादन्यवत्सिते ॥ ९१ ॥
3.2.91 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्तू (wrong syllable)
शुद्धे सितेऽवदातः स्यात्पीते बद्धार्जुनौ सितः ।उत्थितास्तूद्यतोत्पन्नवृद्धिमन्तः त्रिषूच्छ्रिताः ॥ ९२ ॥
3.2.92 · p. 305
अनुष्टुप्
प्रवृद्धोन्नद्धसंजाता आदृतः सादरेऽर्चिते ।मूर्च्छितो मूढः सोच्छ्रायो प्रतीतः ख्यातहृष्टयोः ॥ ९३ ॥
3.2.93 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ढः (wrong syllable)
विविक्तो विजने पूतेऽभिजातः कुलजे बुधे ।कृत्रिमे भूषिते शस्ते संस्कृतोऽप्यन्यलिङ्गकः ॥ ९४ ॥
3.2.94 · p. 306
अनुष्टुप्
पाणिन्यादिकृते सूत्रे क्लीबं युक्तेऽस्ति संस्कृते ।मर्षिण्यप्यभिनीतोऽथाऽनन्तो निरवधौ त्रिषु ॥ ९५ ॥
3.2.95 · p. 306
अनुष्टुप्
निवासे दृढसन्नाहे निवातो वातवर्जिते ।कृतेऽग्रतोऽभियुक्तानां पूजने वाऽग्रतः कृते ॥ ९६ ॥
3.2.96 · p. 306
अनुष्टुप्
पुरस्कृतोऽम्लपरुषौ तनुते शुक्तमुच्यते ।साध्वभ्यर्हितसत्येषु विद्यमानप्रशस्तयोः ॥ ९७ ॥
3.2.97 · p. 306
अनुष्टुप्
सद्भूर्जे ना शितिः श्वेते मेचके निशिते त्रिषु ।मनीषिस्फुटयोर्व्यक्तो दृष्टान्तस्तु निदर्शनम् ॥ ९८ ॥
3.2.98 · p. 307
अनुष्टुप्
शास्त्रं क्षत्ता क्षत्रियायां शूद्राद्द्वाःस्थेऽपि सारथौ ।हरौ हरे जिनेऽव्यक्ताऽजितौ सूतस्तु तक्षिणि ॥ ९९ ॥
3.2.99 · p. 307
अनुष्टुप्
भूपालभूधरौ भूभृत् स्त्रीपुष्पमासयोर्ऋतुः ।स्याद्भूपालेऽपि मूर्धाऽभिषिक्तो राजन्यमण्डले ॥ १०० ॥
3.2.100 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्प (wrong syllable)
स्थपतिर्ना सुतः पुत्रे पार्थिवे तनया सुता ।सूते हस्तिपके यन्ता भर्ता स्वामिनि ना त्रिषु ॥ १०१ ॥
3.2.101 · p. 307
अनुष्टुप्
पोष्टृधातोः अथो यानपात्रे पोतः शिशावपि ।मृते प्राण्यन्तरे प्रेतो हस्तो भेभकरादिषु ॥ १०२ ॥
3.2.102 · p. 308
अनुष्टुप्
केतुर्लक्ष्मपताकारुग्ग्रहौत्पाताऽरिषु स्मृतः ।उत्पातेऽग्नौ धूमकेतुर्जीमूतोऽद्रौ च वारिदे ॥ १०३ ॥
3.2.103 · p. 308
अनुष्टुप्
तदेऽर्णवे सरस्वान् स्याद् गरुत्मान् तार्क्ष्यपक्षिणोः ।भासे खगे शकुन्तोऽथ विवस्वान् देवसूर्ययोः ॥ १०४ ॥
3.2.104 · p. 308
अनुष्टुप्
॥ इति तान्ताः ॥
माने सानुनि प्रस्थोऽस्त्री स्यादास्थाऽऽस्थानयत्नयोः ।रैप्रयोजनयोरर्थो निवृत्तावपि वस्तुनि ॥ १०५ ॥
3.2.105 · p. 308
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
संबद्धार्थे च शक्तिस्थे समर्थः स्याद्धितेऽपि च ।तावन्तो नियमाः संघो भगवान् गौतमप्रभुः ॥ १०६ ॥
3.2.106 · p. 309
अनुष्टुप्
आद्यो गणधरश्चातुर्वर्ण्यं तीर्थङ्करस्तथा ।अरिहन्ताऽपि तीर्थानि स्तुर्येऽन्येऽप्यागमादयः ॥ १०७ ॥
3.2.107 · p. 309
अनुष्टुप्
॥ इति थान्ताः ॥
वशाऽभिप्राययोश्छन्दो दायादो बन्धुपुत्रयोः ।गोष्ठाध्यक्षोऽपि गोविन्दः प्रसादोऽनुग्रहादिषु ॥ १०९ ॥
3.2.109 · p. 309
अनुष्टुप्
त्रातर्याक्रन्द आरावे दारुणे रुदिते रणे ।तमोनुदोऽग्निश्चन्द्रार्कौ स्युस्तुर्यांऽशांऽह्रिरश्मयः ॥ ११० ॥
3.2.110 · p. 309
अनुष्टुप्
पादा विश्रम्भनिन्दाऽऽज्ञा अपवादोऽथ गोष्पदम् ।सेविते चाऽपि मानेऽथ ऋतुवत्सरयोः शरत् ॥ १११ ॥
3.2.111 · p. 310
अनुष्टुप्
मन्दाः निर्भाग्यमूढाऽल्पाऽपटवोऽतीक्ष्णकोमलौ ।मृदुः विशारदो विद्वत्सुप्रगल्भा तथाऽऽस्पदम् ॥ ११२ ॥
3.2.112 · p. 310
अनुष्टुप्
प्रतिष्ठाकृत्ययोः स्वादु मधुरेष्टौ त्रिषु स्त्रियाम् ।संविद आजिक्रियाकारसंभाषाज्ञाननामसु ॥ ११३ ॥
3.2.113 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ककुच्च ककुदं श्रेष्ठवृषाङ्गराजलक्ष्मसु ।शब्दे वाक्ये पदे पादचिह्नाऽपदेशवस्तुषु ॥ ११४ ॥
3.2.114 · p. 310
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
व्यवसायश्लोकपादत्राणस्थानेषु लक्ष्मणि ।पदं क्लीबेऽथ किरणे मेदिनीकृन्मते पुमान् ॥ ११५ ॥
3.2.115 · p. 310
अनुष्टुप्
मद आमोदवद्धर्षे रहस्युपनिषत् स्त्रियाम् ।
3.2.120 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)