All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
तृतीयकाण्डम् · नानावर्गः (2/3)
॥ इति दान्ताः ॥
प्रत्यग्रेऽप्रतिभेऽपि स्याच्छारद----- काय उन्नतौ ॥ ११६ ॥
3.2.116 · p. 311
अनुष्टुप्metre not read in every line
उत्सेधो व्यामवटयोर्न्यग्रोधोऽथाऽवलम्बिते ।अविदूरेऽप्यवष्टब्धः स्नुषाजायास्त्रियो वधूः ॥ ११७ ॥
3.2.117 · p. 311
अनुष्टुप्
मद्ये क्षौद्रे पुष्परसे मध्वन्धं तु तमस्यपि ।गर्विते पण्डितंमन्ये समुन्नद्धोऽथ भूषिते ॥ ११८ ॥
3.2.118 · p. 311
अनुष्टुप्
ख्याते प्रसिद्धः श्रद्धा तु स्पृहासंप्रत्ययोः स्त्रियाम् ।त्रिषु रम्येऽपि साधु स्यात्प्रकारे च विधौ विधा ॥ ११९ ॥
3.2.119 · p. 311
अनुष्टुप्
सिन्धुर्नदविशेषोऽब्धिर्देशो ना स्त्री सरिद्यदि ।स्कन्धस्तरुप्रकाण्डादौ स्नुहीलेपोऽमृतं सुधा ॥ १२० ॥
3.2.120 · p. 311
अनुष्टुप्
मर्यादायां प्रतिज्ञायां संधाऽथ प्रार्थने चरे ।प्रणिधिर्बुधो वृद्धौ च पण्डितेऽप्यवधिर्विले ॥ १२१ ॥
3.2.121 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धो (wrong syllable)
परिच्छेदे विधिर्दैवे विधानेऽपि विधुर्हरौ ।सोमेऽध्वभारयोः पर्याहारे विवधवीवधौ ॥ १२२ ॥
3.2.122 · p. 312
अनुष्टुप्
बन्धे विनश्वरे दोषोत्पादे मुख्याऽनुयायिनि ।बाले च प्रकृतस्याऽऽस्ते योऽनुबन्धोऽनिवर्तने ॥ १२३ ॥
3.2.123 · p. 312
अनुष्टुप्
स्याद्यज्ञियतरोः शाखा परिधिश्चोपसूर्यकम् ।समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ १२४ ॥
3.2.124 · p. 313
अनुष्टुप्
प्रत्याशा बन्धके चित्तपीडाव्यसनयोः पुमान् ।अधिष्ठाने स्थितश्चाऽऽधिः --------
3.2.130 · p. 313
अनुष्टुप्
इति धान्ताः ।
हयनोऽर्चिव्रीहिवर्षौ पक्ष्यश्वौ वाजिनः स्मृताः ।शिखरी तरुशैलैस्त साद्यश्वारोहसारथी ॥ १२६ ॥
3.2.126 · p. 313
अनुष्टुप्
अभिपन्नोऽपराद्धाऽभिद्रुतग्रस्तविपद्गताः ।अधिष्ठानं प्रभावाऽध्यासनचक्रपुरेष्वपि ॥ १२७ ॥
3.2.127 · p. 313
अनुष्टुप्
तलिनं स्तोकविरलौ वनं कानननीरयोः ।स्वश्रेष्ठेऽपि मणौ रत्नं संस्थानं स्याच्चतुष्पथे ॥ १२८ ॥
3.2.128 · p. 313
अनुष्टुप्
आकृत्यां सन्निवेशे च मरणेऽप्यथ लक्ष्म च ।चिह्नप्रधानयोर्वह्निबर्हिणौ शिखिनौ मतौ ॥ १२९ ॥
3.2.129 · p. 314
अनुष्टुप्
विरोचनोऽग्निश्चन्द्राऽर्कौ ग्रावाप्रस्तरपर्वतौ ।प्रतियत्नस्तु संस्कारो लिप्सोपग्रह एव च ॥ १३० ॥
3.2.130 · p. 314
अनुष्टुप्
केशे ना वृजिनो जन्मभूम्यामभिजनः कुले ।क्रन्दनं रोदनाऽह्वाने सूनाऽधो जिह्विकादिषु ॥ १३१ ॥
3.2.131 · p. 314
अनुष्टुप्
वेदाविप्रस्तपस्तत्त्वं ब्रह्मब्रह्मा प्रजापतिः ।तनुस्त्वक्काययोः क्रीडा व्यवसायादि देवनम् ॥ १३२ ॥
3.2.132 · p. 314
अनुष्टुप्
कृत्ये निमन्त्रणे केतौ केतनं भीरुवन्दयोः ।कामिनी वज्रतडितौ ह्रादिन्यथ च वाहिनी ॥ १३३ ॥
3.2.133 · p. 314
अनुष्टुप्
सैन्यं तरङ्गिणी सेना मूर्खनीचौ पृथग्जनः ।चित्रभानुस्तु सूर्येऽग्नौ भानू रश्मिदिवाकरः ॥ १३४ ॥
3.2.134 · p. 315
अनुष्टुप्
भूतात्मा धातृदेहौ स्तो वर्त्माऽक्षिच्छद्रमार्गयोः ।ग्रहदेहः प्रभावस्त्विड्धामानि पिशुनः खले ॥ १३५ ॥
3.2.135 · p. 315
अनुष्टुप्
गुह्येऽकार्येऽपि कौपीनं क्षणे पर्वतिथावपि ।अवकाशे स्थितौ स्थानं निधनं कुलनाशयोः ॥ १३६ ॥
3.2.136 · p. 315
अनुष्टुप्
उद्यानं वनभेदः स्यान्निःसृतिश्च प्रयोजनम् ।समानः सत्समैकेषु तरस्वी वेगिशूरयोः ॥ १३७ ॥
3.2.137 · p. 316
अनुष्टुप्
साधनाऽवाप्तितोषेष्वाराधनं बुद्धिचिह्नयोः ।प्रज्ञानमभिमानस्तु दर्पे प्रणयहिंसयोः ॥ १३८ ॥
3.2.138 · p. 316
अनुष्टुप्
पुस्तकाऽऽहवतन्त्रेषूत्थानं पौरुषेऽपि च ।शक्रधातुकमत्तेभवर्षुकाब्दा घनाघनः ॥ १३९ ॥
3.2.139 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दाने न्यासार्पणेऽरीणां शुद्धौ निर्यातनं स्मृतम् ।व्यसनं भ्रंशविपदोर्दोषे कामजकोपजे ॥ १४० ॥
3.2.140 · p. 316
अनुष्टुप्
मेघे निरन्तरे मूर्तिगुणे मूर्ते घनस्त्रिषु ।विरोधाऽऽचरणेऽपि स्याद् व्युत्थानं प्रतिरोधने ॥ १४१ ॥
3.2.141 · p. 316
अनुष्टुप्
सूर्य्ये प्रभाविनो राजा नृपे क्षत्रियसोमयोः ।सूचनोत्साहहिंसासु गन्धनं सुरशिल्पिनि ॥ १४२ ॥
3.2.142 · p. 317
अनुष्टुप्
सूर्य्ये च विश्वकर्माऽथ वर्ष्मदेहप्रमाणयोः ।परमात्मनि बुद्धौ च प्रधानं मद्रतुच्छयोः ॥ १४३ ॥
3.2.143 · p. 317
अनुष्टुप्
वितानं त्रिषु विस्तारक्रत्वोर्न साधनं गतौ ।मारणे मृतसंस्कारे द्रव्योपपादनेऽपि च ॥ १४४ ॥
3.2.144 · p. 317
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्न (wrong syllable); pāda 4, syllable 3 प (wrong syllable)
आतञ्चनं प्रतीवापे वेगतर्पणयोरथ ।आत्मा बुद्धौ धृतौ यत्ने स्वभावे ब्रह्मवर्ष्मणोः ॥ १४५ ॥
3.2.145 · p. 317
अनुष्टुप्
आच्छादनं संपिधाने वस्त्रेऽपवृतिमात्रके ।कौलीनमपवादेऽपि पशुपक्ष्यहियोधने ॥ १४६ ॥
3.2.146 · p. 318
अनुष्टुप्
व्यञ्जनं श्मश्रुनिष्ठानाऽवयवेष्वपि लाञ्छने ।किञ्जलकेऽणावक्षिलोम्नि पक्ष्माऽथ सङ्गतौ रते ॥ १४७ ॥
3.2.147 · p. 318
अनुष्टुप्metre not read in every line
मिथुनं वाणिनी दूती नर्तकी फलपुष्पयोः ।प्रसूनं न्यूनहीने स्त ऊने गर्ह्ये -------
3.2.154 · p. 318
अनुष्टुप्
इति नान्ताः ।
कूर्म्यां वीणाप्रभेदेऽग्निरीशविष्णू वृषाकपिः ।कलापोबर्हतूणीरभूषणेषु च संहते ॥ १४९ ॥
3.2.149 · p. 318
अनुष्टुप्
प्राप्तरूपोऽभिरूपः स्वरूपो बुधमनोज्ञयोः ।गोधुग्गोष्ठपतिर्गोपः परीवापस्त्वपां स्थितिः ॥ १५० ॥
3.2.150 · p. 319
अनुष्टुप्
शय्याऽट्टालकदारेषु तल्पमाच्छदनाऽन्नयोः ॥ १५१ ॥
3.2.151 · p. 319
इति पान्ताः ।
इति फान्ताः ।
ना कुत्सितेऽन्यवद्रेफः ---------------------------------------------------- कम्बुर्वलयशंखयोः ॥ १५२ ॥
3.2.152 · p. 319
अनुष्टुप्
पुंस्कोकिलेऽपि गन्धर्वः खेचरे दिव्यगायने ।अन्तराभवसत्त्वेऽश्वे द्विजिह्वः सर्पसूचकौ ॥ १५३ ॥
3.2.153 · p. 320
अनुष्टुप्
पूर्वजे नरि भूम्नि स्युः पूर्वं प्रागग्रतस्त्रिषु ।त्रिषु विक्रमहीने स्यात्क्लीबं षण्ढे पुमानपि ॥ १५४ ॥
3.2.154 · p. 320
अनुष्टुप्
॥ इति बान्ताः ॥
बालिशो वा शिशुर्डिम्भः सभा सभ्येऽपि संसदि ।कुसुम्भः करके क्लीबं स्यान्महारजनेऽपि च ॥ १५५ ॥
3.2.155 · p. 320
अनुष्टुप्
कुम्भो घटेभमूर्ध्नोर्ना शम्भुर्ब्रह्माऽर्हतोः शिवे ।कुक्षे भ्रूणेऽर्भके गर्भो विस्रम्भः प्रणयादिषु ॥ १५६ ॥
3.2.156 · p. 320
अनुष्टुप्
स्तम्भः स्थूणा जडीभावः स्त्रियान्तु सुरभिर्गवि ।दुन्दुभिः पुंसि भेर्यां स्यात्स्त्र्यक्षे बिन्दुत्रिकद्वये ॥ १५७ ॥
3.2.157 · p. 321
अनुष्टुप्
बल्लभो दयिताऽध्यक्षसल्लक्षणतुरङ्गमाः ।क्षत्रियेऽपि पुमान्नाभिः ----------------------
3.2.167 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ण (wrong syllable)
इति भान्ताः ।
----------------------- रश्मिः किरणप्रग्रहौ ॥ १५८ ॥
3.2.158 · p. 321
अनुष्टुप्metre not read in every line
परिभुक्तोऽज्झिते जीर्णे यातयामं प्लवंगमः ।कपिभेकौ हरित्कृष्णौ श्यामः स्त्री शारिवा निशा ॥ १५९ ॥
3.2.159 · p. 321
अनुष्टुप्
वृन्दे स्तोत्रेऽध्वरे स्तोमः शौर्योद्योगौ पराक्रमः ।मनोभवेच्छयोः कामो नैगमो निगमो वणिक् ॥ १६० ॥
3.2.160 · p. 321
अनुष्टुप्
ग्रामो वृन्देऽपि शब्दादिपूर्वः क्रान्तौ तु विक्रमः ।निगमा वणिक्पथो वेदः पुरं स्वसृकुलस्त्रियोः ॥ १६१ ॥
3.2.161 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जामी रुक्सेनयोः स्तम्बे गुल्मः क्षान्तौ क्षितौ क्षमा ।अलसे कुटिले जिह्मो न्यूनेऽपि कुत्सितेऽधमः ॥ १६२ ॥
3.2.162 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
क्षमः शक्ते हिते युक्ते वामं वल्गुप्रतीपयोः ।रामो बले नीलचारुसितेऽपि त्रिष्वुपक्रमः ॥ १६३ ॥
3.2.163 · p. 322
अनुष्टुप्
उपायपूर्व आरम्भः उपाधाऽध्यात्मकैतवो ।सूक्ष्मं ललाम पुच्छाऽश्वभूषाप्राधान्यकादिषु ॥ १६४ ॥
3.2.164 · p. 322
अनुष्टुप्
इति मान्ताः ।
समुच्छ्रयो विरोधेऽपि द्रव्यं भव्यगुणाश्रयौ ।तुरगे गरुडे तार्क्ष्योर्मन्युर्दैन्ये क्रुधि क्रतौ ॥ १६६ ॥
3.2.166 · p. 323
अनुष्टुप्
समयः कालसिद्धान्तशपथाऽऽचारसंविदः ।श्वशुर्यो देवरः श्यालः पर्यद्यपि प्रतिश्रयः ॥ १६७ ॥
3.2.167 · p. 323
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्य (wrong syllable)
प्रेमविश्रम्भयाञ्चासु प्रणयो यच्छुभाऽशुभम् ।कर्म भाग्यं रहस्योपस्थयोर्गुह्यं कलौ युगे ॥ १६८ ॥
3.2.168 · p. 323
अनुष्टुप्
पुष्ये तिष्यो विशल्या तु दन्तिका नामशोभयोः ।अभिख्या विषयो ज्ञातो यस्तु शब्दादिकेष्वपि ॥ १६९ ॥
3.2.169 · p. 324
अनुष्टुप्
अग्न्यृक्षस्थानगेहेषु धिष्ण्यं शपथतथ्ययोः ।सत्यं कषायो निर्यासे वीर्यं बलप्रभावयोः ॥ १७० ॥
3.2.170 · p. 324
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
स्थूलोच्चयस्त्वसाकल्ये गण्डोपलकरण्डयोः ।कक्ष्या प्रकोष्ठमध्येभबन्धकाञ्चीषु मध्यमम् ॥ १७१ ॥
3.2.171 · p. 324
अनुष्टुप्
न्याय्ये रूप्यं प्रशस्तेऽपि रूपे पुण्यं तु चार्वपि ।अर्थानपेत आत्मज्ञोऽर्थ्यः सौम्यं सुन्दरादिषु ॥ १७२ ॥
3.2.172 · p. 324
अनुष्टुप्
वक्तव्यं कुटिले हीने कल्पः शज्जे निरामये ।छाया त्वनातपेऽपि स्यात्प्रतिबिंबाऽर्कयोषिताः ॥ १७३ ॥
3.2.173 · p. 325
अनुष्टुप्
जनवादेऽपि जन्योऽथ जघन्यश्चरमेऽधमे ।व्यसनेऽनिष्टदैवेऽपि विपद्यप्यनयः क्रमे ॥ १७४ ॥
3.2.174 · p. 325
अनुष्टुप्
पर्यायोऽवसरेऽप्यर्थः स्याद्वैश्यस्वामिनोरपि ।त्रिषु क्रियादेवतयोर्भेद्ये कृत्या धनादिभिः ॥ १७५ ॥
3.2.175 · p. 325
अनुष्टुप्
कशेरौ हेम्नि गांगेयं भ्रातृव्यो भ्रातृजे द्विषि ।भूम्न्यन्तगमने प्रायः पूज्यस्तु श्वशुरादिषु ॥ १७६ ॥
3.2.176 · p. 325
अनुष्टुप्
प्रत्ययः शपथज्ञानाऽधीनविश्वासहेतुषु ।शब्दे रन्ध्रेऽथ संस्त्यायः संघातसन्निवेशयोः ॥ १७७ ॥
3.2.177 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
ध्वनन्मेघाऽब्दशब्देन्द्राः पर्जन्योऽतिक्रमेऽत्ययः ।वृषाकपायी श्रीगौरीवरीजीवन्तिकासु च ॥ १७८ ॥
3.2.178 · p. 326
अनुष्टुप्
भवेदनुशयो द्वेषे पश्चात्तापाऽनुबंधयोः ।आपदायतियुद्धेषु संपरायोऽथ संनयः ॥ १७९ ॥
3.2.179 · p. 326
अनुष्टुप्
पश्चादवस्थायिबले समवायेऽप्यथ क्षयः ।निलयेऽपचयेऽपि स्यात् -------------------
3.2.191 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
इति यान्ताः ।
----------------------बल्यंशुपाणयः करः ॥ १८० ॥
3.2.180 · p. 326
अनुष्टुप्metre not read in every line
ध्वान्ताऽरी दानवो वृत्र आकारस्त्विंगिताऽऽकृती ।कालेऽप्यजातशृङ्गो गौरश्मश्रुर्नाऽपि तूवरः ॥ १८१ ॥
3.2.181 · p. 326
अनुष्टुप्
यमेन्दाऽर्काऽनिलाश्चन्द्रवाजिसिंहांशुविष्णवः ।कप्यही शुकभेकौ च हरिर्ना कपिले त्रिषु ॥ १८२ ॥
3.2.182 · p. 327
अनुष्टुप्
मात्रा परिच्छदे वित्ते माने कर्णविभूषणे ।तीर्थौषधिजलव्योमपद्मखड्गफलेष्वपि ॥ १८३ ॥
3.2.183 · p. 327
अनुष्टुप्
वाद्यभाण्डमुखे हस्तिहस्ताऽग्रे पुष्करं मतम् ।अग्रं पुरस्तादुपरि परिमाणेऽप्यथो दरः ॥ १८४ ॥
3.2.184 · p. 327
अनुष्टुप्
श्वभ्रे भयेऽक्षरमोक्षेऽपवर्गेऽप्यथ चाऽम्बरम् ।व्योम्नि वाससि गौत्रं तु नाम्नि तन्त्रं परिच्छदे ॥ १८५ ॥
3.2.185 · p. 327
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
सूत्रवायेऽपि सिद्धान्ते प्रधाने चाऽथ गह्वरः ।गुहादम्भौ सिते पीतेऽरुणे गौरोऽथ शार्वरम् ॥ १८६ ॥
3.2.186 · p. 327
अनुष्टुप्
घातुकेऽप्यन्धतमसे वज्रस्तु हीरके पवौ ।मुस्तके पिठरं राजकशेरुणि च नागरम् ॥ १८७ ॥
3.2.187 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
सत्रं वने सदादाने यशाऽऽच्छादनयोः रहः ।उपह्वरं समीपेऽपि द्वारमात्रेऽपि गोपुरम् ॥ १८८ ॥
3.2.188 · p. 328
अनुष्टुप्
मन्दिरं नगरेऽगारे पुरं च हलकोडयोः ।मुखाग्रे पोत्रमौशीरं दण्डस्वापाऽसनादिषु ॥ १८९ ॥
3.2.189 · p. 328
अनुष्टुप्
प्रदरो बाणनारीरुग्भङ्गा अस्राः क्वचित्कचाः ।वंशाकुरे करीरोऽस्त्री वृक्षभिद्घटयोश्च ना ॥ १९० ॥
3.2.190 · p. 329
अनुष्टुप्
आश्चर्याऽऽलेख्ययोश्चित्र यात्रा गत्युत्सवादिषु ।प्रमीलानिद्रयोस्तन्द्रा स्याद्धात्री तूपमातरि ॥ १९१ ॥
3.2.191 · p. 329
अनुष्टुप्
सुराऽब्वाग्भूष्विरा कर्परांशेऽपि शर्करा वरः ।त्रिषु देवादृते श्रेष्ठे क्लीबं स्यात्तु मनाक्प्रिये ॥ १९२ ॥
3.2.192 · p. 329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
उदारस्तु महद्दात्री नीचाऽन्या वितरः स्मृतः ।बभ्रुः स्यान्नकुले विष्णौ विपुले पिङ्गले त्रिषु ॥ १९३ ॥
3.2.193 · p. 329
अनुष्टुप्
प्रातीहारी प्रतीहारो द्वाःस्थे द्वार्यथ मत्सरः ।त्रिषु तद्वत्कृपणयोः शुभद्वेषे परस्य च ॥ १९४ ॥
3.2.194 · p. 330
अनुष्टुप्
परीवारः खड्गकोशे जङ्गमे च परीच्छदे ।क्षुद्रा व्यङ्गा नटीकण्ठकारिकासरघासु च ॥ १९५ ॥
3.2.195 · p. 330
अनुष्टुप्
क्षुद्रोऽधमेऽल्पे क्रूरेऽपि कलत्रं श्रोणिभार्ययोः ।आडम्बरः समारम्भे गजगर्जिततूर्ययोः ॥ १९६ ॥
3.2.196 · p. 330
अनुष्टुप्
द्यूतकारे पणे पुंसि द्यूते क्लीबं दुरोदरम् ।मुक्ताशुद्धौ पुमांस्तारः शारो वायौ च कर्बुरे ॥ १९७ ॥
3.2.197 · p. 330
अनुष्टुप्
अभिहारस्तु चौर्याऽभियोगसंहननेष्वपि ।भवेत्प्रतिसरः पुंसि चमूजघनयोरपि ॥ १९८ ॥
3.2.198 · p. 330
अनुष्टुप्
कान्तारः स्यान्महारण्ये तथा दुर्गपथे स्त्रियाम् ।गृह्येऽप्यवस्करो यूपखण्डे यज्ञे स्वरुः पुमान् ॥ १९९ ॥
3.2.199 · p. 331
अनुष्टुप्
बलस्थिरांशयोः सारः क्लीबं न्याय्ये वरे त्रिषु ।विटपिन्यासने दर्भमुष्ट्यां स्याद्विष्टरः पुमान् ॥ २०० ॥
3.2.200 · p. 331
अनुष्टुप्
संगरस्तु प्रतिज्ञाऽऽजिसंविदापत्स्वेथो रवौ ।मित्रः स्वर्णेऽपि राः स्त्रीणां स्तनावब्दः पयोधरः ॥ २०१ ॥
3.2.201 · p. 331
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्स्वे (wrong syllable)
मन्त्रो गुह्यादिवादेऽथ क्षेत्रं पत्नीशरीरयोः ।व्यासक्ताऽऽकुलयोर्व्यग्रः स्वैरः स्वच्छन्दमन्दयोः ॥ २०२ ॥
3.2.202 · p. 331
अनुष्टुप्
उद्दीप्तशुल्कयोः शुभ्रः क्रूरः कठिननिर्दयौ ।पक्षेपि वाहने पत्रं पात्रं भाजनयोग्ययोः ॥ २०३ ॥
3.2.203 · p. 332
अनुष्टुप्
स्वर्णेऽपि चन्द्रो भूरिश्च कायेऽपि विषयेऽजिरम् ।जटायामंशुके नेत्रं शास्त्रं ग्रन्थनिदेशयोः ॥ २०४ ॥
3.2.204 · p. 332
अनुष्टुप्
देशोपद्रवयोरस्त्री राष्ट्रं स्यात्क्षीरमप्सु च ।हीनेऽनूर्ध्वेऽधरश्चाऽथो एकाग्रः स्यादनाकुलः ॥ २०५ ॥
3.2.205 · p. 332
अनुष्टुप्
उत्तरस्तूपरिश्रेष्ठोदीच्येष्वन्यो ह्यनुत्तरः ।शस्त्रं लोहाऽऽयुधे क्लीबे परो दूरोत्तमाऽरयः ॥ २०६ ॥
3.2.206 · p. 332
अनुष्टुप्
मधुरो यः प्रियः स्वादु जठरः कठिनेऽपि च ।भेदे प्रकारः सादृश्ये द्वापरः संशये युगे ॥ २०७ ॥
3.2.207 · p. 333
अनुष्टुप्
विशिखे श(स)स्यशूकेऽपि किंशारुर्गीर्पतिर्गुरुः ।पर्यङ्के परिवारे वा वाते परिकरः स्मृतः ॥ २०८ ॥
3.2.208 · p. 333
अनुष्टुप्
अद्रिरर्कद्रुशैलाः स्यु र्व्रणकारिण्यरुष्करः ।निहवेऽवसरे वारो नामरुर्गिरिधन्वनोः ॥ २०९ ॥
3.2.209 · p. 333
अनुष्टुप्
अन्तर्धिभेदतादर्थ्ये च्छिद्राऽऽत्मीयविना बहिः ।मध्येऽवकाशाऽवसरपरिधानाऽन्तरात्मसु ॥ २१० ॥
3.2.210 · p. 333
अनुष्टुप्
इति रान्ताः ।
मातङ्गपुष्पकाण्डद्रुप्रभेदाः पीलवः कला ।शिल्पेऽपि कालभेदेऽथ प्रावारेऽप्यस्ति कम्बलः ॥ २१२ ॥
3.2.212 · p. 334
अनुष्टुप्
त्रिषु व्यालः शठे ना तु सर्पश्वापदयोः कलिः ।युगेऽपि कमलः पुंसि कुरङ्गेऽन्यन्नपुंसकम् ॥ २१३ ॥
3.2.213 · p. 334
अनुष्टुप्
मलं विट्पापकिट्टेष्वस्त्रियां शूलो रुगायुधम् ।अङ्कुरेऽपि प्रवालोऽस्त्री पेशलश्चारुदक्षयोः ॥ २१४ ॥
3.2.214 · p. 334
अनुष्टुप्
क्रियाविलासयोर्लीलाऽस्त्री तलोऽधःस्वरूपयोः ।क्षेमपर्याप्तिपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २१५ ॥
3.2.215 · p. 335
अनुष्टुप्
सतृष्णचलयोर्लोलो बालो मूर्खेऽर्भकेऽपि च ।कृत्तिकासु स्त्रियां भूम्नि बहुलोऽग्नौ शिते त्रिषु ॥ २१६ ॥
3.2.216 · p. 335
अनुष्टुप्
श्वभ्रे कुकूलं कीर्णे स्यात् शङ्कुभिर्ना तुषाऽनले ।गवाक्षाऽऽनायवृन्देषु क्षारे जालमथोपला ॥ २१७ ॥
3.2.217 · p. 335
अनुष्टुप्
शर्कराऽपि च कीलालं शोणितेऽम्भसि च पलम् ।आमिषे मौलयश्चूडा किरीटं संयताः कचाः ॥ २१८ ॥
3.2.218 · p. 335
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 च (wrong syllable)
वात्यायां ना तु वातूलं त्रिषु वातासहे बलिः ।करोपहारयोर्दैत्ये ना स्त्री प्राण्यङ्गजा सखी ॥ २१९ ॥
3.2.219 · p. 336
अनुष्टुप्
सेत्वाबली स्त्रियामालीस्त्रिषु स्याद्विशदाशये ।वेलावार्ध्यम्बुविकृतौ मर्यादाकालयोरपि ॥ २२० ॥
3.2.220 · p. 336
अनुष्टुप्
पालिरस्त्र्यङ्कपङ्क्त्यादौ कीलः शङ्कादिषु द्वयोः ।कृतान्ताऽनेहसौ कालः करालस्तुङ्गदन्तुरौ ॥ २२१ ॥
3.2.221 · p. 336
अनुष्टुप्
चेलं वस्त्रेऽधमे स्थूलं जडेऽपि त्रिषु, केवलम् ।निर्णीतेऽथ त्रिलिङ्गं तु स्यादेककृत्स्नयोः फलम् ॥ २२२ ॥
3.2.222 · p. 336
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
सस्ये हेतुकृते, शीलं सद्वृत्तसत्स्वभावयोः ।नेत्ररुट्छदिषोः क्लीबं वृन्दे न पटलं पुमान् ॥ २२३ ॥
3.2.223 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
इति लान्ताः ।
इच्छायाः प्रसवेऽमर्षोत्सेकादिषु महे दवः ।दावश्च वनवन्याग्नीआह्वानाऽऽज्ञाऽध्वराहवाः ॥ २२५ ॥
3.2.225 · p. 337
अनुष्टुप्
मन्त्रीसहायः सचिवो धवः पतिनृशाखिनः ।शैलोऽर्कमेषाववयः सत्ताऽभिप्रायजन्मसु ॥ २२६ ॥
3.2.226 · p. 337
अनुष्टुप्