All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · लोकवर्गः
॥ अव्ययवर्गः समाप्तः ॥
॥ इति प्रथमः काण्डः समाप्तः ॥
॥ श्री ॥
॥ अथ द्वितीयकाण्डम् ॥
॥ अथ लोकवर्गः प्रारभ्यते ॥
लोकोऽयं जगती स्त्री स्याद् जगद्भुवनविष्टपम् ।भरतैरवतानि स्युर्विदेहाः कर्मभूमयः ॥ १ ॥
2.1.1 · p. 80
अनुष्टुप्
अन्ये हैमवताद्याः स्युस्त्रिंशच्चाऽकर्मभूमयः ।आर्यावर्तो जन्मभूमिः सत्तीर्थङ्करचक्रिणाम् ॥ २ ॥
2.1.2 · p. 80
अनुष्टुप्
आचारवेदिः पूण्याभू दक्षिणार्धस्य मध्यमः ।भूमिर्वसुमती क्षोणी रत्नगर्भा वसुन्धरा ॥ ३ ॥
2.1.3 · p. 80
अनुष्टुप्
जगती वसुधा गोत्राऽचलाऽनन्ता रसा च भूः ।विश्चम्भरा च पृथिवी स्थिरा कुः सागरांबरा ॥ ४ ॥
2.1.4 · p. 81
अनुष्टुप्
महीधात्री च पृथ्वी च धरित्री धरणी क्षमा ।धरा क्षोणिः क्षितिक्ष्मा गौरिला सर्वसहाऽवनिः ॥ ५ ॥
2.1.5 · p. 81
अनुष्टुप्
मृत्तिका मृत् प्रशस्ता चेत् मृत्सा मृत्स्ना च सा मता ।ऊषः स्यात्क्षारमृत् सर्वसस्याढ्या योर्वरा च सा ॥ ६ ॥
2.1.6 · p. 81
अनुष्टुप्
स्थलं स्थलाऽकृत्तिमा तु स्थली चोषरमूषवत् ।निर्जले मरुधन्वानौ खिलमप्रहतं त्रिषु ॥ ७ ॥
2.1.7 · p. 81
अनुष्टुप्
निवृज्जनपदो देशविषयौ तूपवर्तनम् ।शाद्वलः स्यादहरिते सपङ्के पङ्किलः स्थले ॥ ८ ॥
2.1.8 · p. 82
अनुष्टुप्
सवेतसे तु वेतस्वान् कुमुद्वान् कुमुदैर्युते ।नड्वांस्तु नड्वलः प्रोक्तः समौ चिक्कणपिच्छिलौ ॥ ९ ॥
2.1.9 · p. 82
अनुष्टुप्
स्थलं नद्यम्बुवृष्ट्यम्बुजातसस्यसुरक्षितम् ।नदीमातृकमेकं तद् द्वितीयं देवमातृकम् ॥ १० ॥
2.1.10 · p. 82
अनुष्टुप्
सुराज्ञि सति राजन्वान् देशोऽन्यत्र तु राजवान् ।रजोयुक्ते सिकतिलः सैकतः शार्करोऽपि च ॥ ११ ॥
2.1.11 · p. 82
अनुष्टुप्
गोष्ठं स्याद्गोव्रजस्थानं गोष्ठीनं भूतपूर्वकम् ।कच्छः पुमान् जलप्रायप्रदेशेऽनूपमित्यपि ॥ १२ ॥
2.1.12 · p. 83
अनुष्टुप्
पुमान् परिसरः प्रान्ते पर्यन्तो जलबन्धने ।सेतुः पुमान् स्त्रियामालिर्वल्मीके पुंनपुंसकम् ॥ १३ ॥
2.1.13 · p. 83
अनुष्टुप्
वामलूरश्च नाकुश्च वर्त्म त्वयनमेकपात् ।वर्तनी पद्धतिः पद्या पदवी सरणिः सृतिः ॥ १४ ॥
2.1.14 · p. 83
अनुष्टुप्
पुंसि मार्गाऽध्वपन्थानः सत्पथस्त्वर्चितोऽध्वनि ।सुपन्था अतिपन्थाश्च कापथे विपथोऽपथः ॥ १५ ॥
2.1.15 · p. 83
अनुष्टुप्
अपन्थाश्च कदध्वाच दुरध्वव्यध्वकत्पथाः ।शृङाटकं पथांयोगे चतुर्णां स्याच्चतुष्पथः ॥ १६ ॥
2.1.16 · p. 83
अनुष्टुप्
घण्टामार्गो राजमार्गे क्लीबं संसरणं विदुः ।दुर्गे मार्गे तु कान्तारं प्रान्तरं शून्यवर्त्मनि ॥ १७ ॥
2.1.17 · p. 84
अनुष्टुप्
द्वाभ्यां धनुःसहस्राभ्यां गव्यूतं क्रोश उच्यते ।क्रोशद्वयं स्त्री गव्यूतिर्नल्वो हस्तचतुःशती ॥ १८ ॥
2.1.18 · p. 85
अनुष्टुप्
भूद्यावौ रोदसी पुर्या अध्वा स्यादुपनिष्करम् ।
2.1.19 · p. 85