All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · वनस्पतिवर्गः (1/2)
॥ इति मेरुवर्गः समाप्तः ॥
॥ अथ वनस्पतिवर्गः प्रारभ्यते ॥
अपुष्पैः फलवान् यः स वानस्पत्यो वनस्पतिः ।फलैस्तु फलवांश्चेत्स पलाशी पादपस्तरुः ॥ १ ॥
2.4.1 · p. 93
अनुष्टुप्
सालो महीरुहः शाखी विटपी च कुटोऽगमः ।द्रुर्द्रुमोऽनोकहो वृक्षः शिखरी पुष्पदो नगः ॥ २ ॥
2.4.2 · p. 93
अनुष्टुप्
अवकेश्यफलो बन्ध्यः फलिनः फलवान्फली ।फलेग्रहिः स्वकाले योऽबन्ध्यः पाकान्ततौषधिः ॥ ३ ॥
2.4.3 · p. 93
अनुष्टुप्
गुल्मः स्तम्बोऽप्रकाण्डद्रौ स्याद्वल्ल्यां व्रततिर्लता ।प्रतानिनी लता या सा भवेद्वीरुच्च गुल्मिनी ॥ ४ ॥
2.4.4 · p. 94
अनुष्टुप्
दैर्घ्ये उत्सेध आरोह उच्छ्रायश्चोच्छ्रयस्तरोः ।स्कन्धः प्रकाण्ड आमूलाच्छाखापर्यन्तमस्त्रियाम् ॥ ५ ॥
2.4.5 · p. 94
अनुष्टुप्
वृक्षमूलं तु बुध्नः स्याच्छिरोऽग्रं शिखरोऽस्त्रियाम् ।शाखा लता द्रुमांशे स्यात्स्कन्धशाखा तु या पुरा ॥ ६ ॥
2.4.6 · p. 94
अनुष्टुप्
शिफाऽवरोहः शाखाया मूले मूले शिफाजटे ।त्वच्यस्त्री वल्कलो वल्कः सारो मज्जा समावुभौ ॥ ७ ॥
2.4.7 · p. 94
अनुष्टुप्
काष्ठमात्रे दारु काष्ठं शुष्के त्वत्रेन्धनैधसी ।पुमानेधः समित्तु स्त्री वृक्षरन्ध्रे तु कोटरम् ।निष्कुहो वल्लरिस्तस्यान्मञ्जरिर्मञ्जरी स्त्रियाम् ॥ ८ ॥
2.4.8 · p. 94
अनुष्टुप्metre not read in every line
पलाशं छदनं पर्णं दलं पत्रं पुमान् छदः ।स्यात्पल्लवः किसलयं वृन्तं पुष्पादिबन्धनम् ॥ ९ ॥
2.4.9 · p. 95
अनुष्टुप्
ततौ विस्तारविटपौ कलिका कोरकः पुमान् ॥ १० ॥
2.4.10 · p. 95
आरामः कृतिमाऽरण्यं तथैवोपवनं मतम् ।स्यात्पुंस्याक्रीड उद्यानं राजसाधारणं वनम् ॥ ११ ॥
2.4.11 · p. 95
अनुष्टुप्
अमात्यादेर्गृहाऽऽसन्न आरामो वृक्षवाटिका ।अन्तःपुरोचितं यत्स्यात्प्रमदावनमुच्यते ॥ १२ ॥
2.4.12 · p. 96
अनुष्टुप्
वनेऽटवी स्त्री विपिनाऽरण्ये गहनकानने ।निष्कुटस्तु गृहारामोऽरण्यानी तु महावनम् ॥ १३ ॥
2.4.13 · p. 96
अनुष्टुप्
वनानां संहतिर्वन्या नूतनोद्भिदि वाऽङ्कुरः ।वीथी श्रेण्याबलिः पङ्क्तिःरालिर्लेखासुराजयः ॥ १४ ॥
2.4.14 · p. 96
अनुष्टुप्
व्याक्रोशो विकचः फुल्लः स्फुटो विकसिते द्रुमे ।क्षुद्रशाखे क्षुपः प्रोक्तः शङ्कौ स्थाणु ध्रुवः पुमान् ॥ १५ ॥
2.4.15 · p. 96
अनुष्टुप्
आमे शलौटुः शुष्के तु वानं सत्ये फले त्रिषु ।विकसन्ती तु कलिका कुड्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥
2.4.16 · p. 97
अनुष्टुप्
वृक्षादेर्वल्कलाज्जातो रसो निर्यास इष्यते ।प्रसूनं कुसुमं पुष्पं सुमं सुमनसः स्त्रियः ॥ १७ ॥
2.4.17 · p. 97
अनुष्टुप्
रजः परागः पुष्पाणां मकरन्दो रसः स्मृतः ।फले स्याज्जाम्बवं जम्बुवृक्षे जम्बूः स्त्रियां मता ॥ १८ ॥
2.4.18 · p. 97
अनुष्टुप्
पुष्पे जातिः फले व्रीहिः विदारी पाटलः पुमान् ।वासन्ती मालती जातिश्चम्बेली तूपजातिका ॥ १९ ॥
2.4.19 · p. 97
अनुष्टुप्
वार्षिकी मल्लिका श्वेता हेमपुष्पा तु यूथिका ।चन्द्रवल्यतिमुक्ता च वासन्ती माधवी लता ॥ २० ॥
2.4.20 · p. 98
अनुष्टुप्
लाक्षापुष्पा तु सेवन्ती शतपुष्पा महासहा ।चाम्पेयश्चम्पको हेमपुष्पको भ्रमरातिथिः ॥ २१ ॥
2.4.21 · p. 98
अनुष्टुप्
बकुलो मुकुलो वृद्धबकुलस्तु बुको वसुः ।माध्यः कुन्दो मुकुन्दस्तु पालक्यां कुन्दकुन्दरू ॥ २२ ॥
2.4.22 · p. 98
अनुष्टुप्
पुन्नागस्तिलको नीपकदम्बौ तु हरिप्रिये ।कर्णिकारः परिव्याधः लिकुचे लकुचो डहुः ॥ २३ ॥
2.4.23 · p. 98
अनुष्टुप्
केतकी पांशुला च स्त्री केतकः क्रककच्छदः ।अशोको वञ्जुलः पुंसि स्यात्पुंनागे तुङ्गकेसरौ ॥ २४ ॥
2.4.24 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
झिंटी सैरीयकः सैव रक्तः कुरुवको मतः ।दासी वाणा द्वयोरार्तगलो नीला भवेद्यदि ॥ २५ ॥
2.4.25 · p. 99
अनुष्टुप्
महासहा तथाऽऽम्लानो झिण्टीभेदे बुधैः स्मृतौ ।पीते कुरूण्टकः शोणे भवेत्कुरवकः स च ॥ २६ ॥
2.4.26 · p. 99
अनुष्टुप्
बन्धुजीवो ज्वरघ्नश्च बन्धूको बन्धुजीवकः ।पारिजातो निम्बभेदे ओड्रपुष्पे जपा जवा ॥ २७ ॥
2.4.27 · p. 99
अनुष्टुप्
तुलसी पावनी वृन्दा मरुन्मरुवकौ समौ ।गन्धोत्कटो दमनको बर्बरी वनबर्बरी ॥ २८ ॥
2.4.28 · p. 100
अनुष्टुप्
अव्यथाऽतिचरा पद्मा सारदा स्थलपद्मिनी ।आम्रो रसालो माकन्दः सहकरोऽतिसौरभः ॥ २९ ॥
2.4.29 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
राजाम्रः कलभाम्रः स्यात्कोशाम्रस्तु सुकेशकः ।पक्वस्याऽस्य रसो घर्मशुष्क आम्रातकः स्मृतः ॥ ३० ॥
2.4.30 · p. 100
अनुष्टुप्
आम्रातके पीतनः स्यात्समौ दाडिम्बदाडिमौ ।रम्भायां कदली मोचा नारिकेलो जटाफलः ॥ ३१ ॥
2.4.31 · p. 100
अनुष्टुप्
स्त्री खर्जूरी च खर्जूरः छोहारा तत्प्रभेदभाक् ।स्याद्वातादस्तु वादामो वदामः सुफलश्च सः ॥ ३२ ॥
2.4.32 · p. 101
अनुष्टुप्
नागरङ्गो नागरूको नारङ्गो नागरोऽपि च ।बीजपूरे मातुलुङ्गः कपोतो रुचकस्तथा ॥ ३३ ॥
2.4.33 · p. 101
अनुष्टुप्
जम्बीरो जम्भिरो जम्भो जम्भलश्चेत्यमी समाः ।निम्बूकं निम्बुकं क्लीबे निम्बुनिम्बू उभे स्त्रियाम् ॥ ३४ ॥
2.4.34 · p. 101
अनुष्टुप्
चुक्रमम्लं तिन्तिडीकं वृक्षाम्लं च द्वयो समी ।कालस्कन्धस्तिन्दुकः स्यात्किम्पाकस्तु विषद्रुमः ॥ ३५ ॥
2.4.35 · p. 101
अनुष्टुप्
मधुवारो मधुकः स्यात् पीलुर्गुडपलो मतः ।इम आक्षोट आखोट आखरोटः पुमंसकाः ॥ ३६ ॥
2.4.36 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
गुवाकः पूगगूवाकौ क्रमुकः खपुरः क्रमुः ।तृणराजः तलस्तालः कपित्थं तु कपिप्रियम् ॥ ३७ ॥
2.4.37 · p. 102
अनुष्टुप्
कारुकः कर्मरङ्गः स्यात् करम्लः करमर्दनः ।विकङ्कतो यज्ञवृक्षो ग्रन्थिलः स्वादुकण्टकः ॥ ३८ ॥
2.4.38 · p. 102
अनुष्टुप्
राजादनं प्रियालोऽपि प्रियालः क्षीरिणीतरौ ।म्रियेतैकफलं सूत्वा तदनन्नासमुच्यते ॥ ३९ ॥
2.4.39 · p. 102
अनुष्टुप्
सीताफलं स्यादातृप्यं लवनी स्त्री मृदूफलम् ।तथा रामफलं प्रोक्तं स्यात्पिस्तं तु निकोचकम् ॥ ४० ॥
2.4.40 · p. 102
अनुष्टुप्
तूतस्तूदस्तिन्दूकः स्याल्लघुद्राक्षा तु काकली ।स्वाद्वी मधुरसा द्राक्षा मृद्वीका गोस्तनीति च ॥ ४१ ॥
2.4.41 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ति (wrong syllable)
लताम्रं तुवरं तद्वत् दृढबीजं च फेरुकम् ।वटे जटालो न्यग्रोधो बहुपाद्दीर्घजीवनः ॥ ४२ ॥
2.4.42 · p. 103
अनुष्टुप्
विप्रश्चैत्यद्रुमोऽश्वत्थः पिप्पलः कुञ्जराशनः ।जटी स्यात्पर्कटी प्लक्षः काकोदुम्बरिका तु सः ॥ ४३ ॥
2.4.43 · p. 103
अनुष्टुप्
उदुम्बरो वा क्षीरी वा शिरीषस्तु कपीतनः ।शिंशपा सारिणीपीता गजभक्षा तु सल्लकी ॥ ४४ ॥
2.4.44 · p. 103
अनुष्टुप्
सालोऽश्वकर्णकः सर्जः तत्प्रभेदे तु सर्जकः ।जीवकोऽसनबन्धूकपुष्पाविन्द्रद्रुमोऽर्जुनः ॥ ४५ ॥
2.4.45 · p. 104
अनुष्टुप्
खदिरो रक्तसारः स्यात् प्लीहशत्रौ तु रोहितः ।तुल्यौ बबूलबब्बूलौ स्यादरिष्टे तु फेनिलः ॥ ४६ ॥
2.4.46 · p. 104
अनुष्टुप्
इङ्गुदस्तापसो वृक्षः पुत्रंजीवस्तु गर्भदः ।मण्डुकपर्णी मञ्जिष्ठा स्यात्पलाशस्तु किंशुकः ॥ ४७ ॥
2.4.47 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ण्डु (wrong syllable)
स्थिरायुः पूरणी मोचा पिच्छिला शाल्मलिर्द्वयोः ।तापिच्छलश्च तमालः स्यात् कालस्कन्धस्तमोऽपि च ॥ ४८ ॥
2.4.48 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शम्यैकाऽल्पा समीरोऽन्यः शिवा सक्तुफली शमी ।शमी शिम्बाफलं यस्या अग्निगर्भा शमीतरुः ॥ ५० ॥
2.4.50 · p. 105
अनुष्टुप्
करवीरः शतप्राशो रथद्रुस्तिनिशे स्मृतः ।शारदः सप्तपर्णः स्याद् विशालत्वगयुक्छदः ॥ ५१ ॥
2.4.51 · p. 105
अनुष्टुप्
मृगनाभौ मृगमदः कस्तूरी च द्रुमेष्वपि ।घनसारस्तु कर्पूरश्चन्द्रः स्त्री हिमतालुका ॥ ५२ ॥
2.4.52 · p. 105
अनुष्टुप्
पुलिके स्यादर्कमूला सुनन्दा च विषापहा ।कुङ्कुमं केसरे रक्तचन्दनन्तु कुचन्दनम् ॥ ५३ ॥
2.4.53 · p. 106
अनुष्टुप्
श्रीखण्डे चन्दनं गन्ध-सारं पाटीरमस्त्रियाम् ।देवदार्विन्द्रदारु स्यात् क्लीबेऽगरुकजोङ्गकम् ॥ ५४ ॥
2.4.54 · p. 106
अनुष्टुप्
धूपवृक्षश्च सरलस्तगरश्च महोरगः ।पद्मकं पद्मकाष्ठे स्यात् समौ कोशिकगुग्गुलौ ॥ ५५ ॥
2.4.55 · p. 106
अनुष्टुप्
रालः सर्जरसो देवधूपो धूनकधूपने ।श्रीवासे तिलपर्णः स्यात् पालङ्के कुन्दुकुन्दुरू ॥ ५६ ॥
2.4.56 · p. 107
अनुष्टुप्
जातीफलं जातिफलं लवङ्गं तु लवङ्गकम् ।जातीकोषा जातिपत्री स्थूलैला गर्भसम्भवा ॥ ५७ ॥
2.4.57 · p. 107
अनुष्टुप्
कङ्कोलकं कोषफलं केशरो नागकेशरः ।त्वक्पत्रम् स्याद्दारुसिता सूक्ष्मैला द्राविडिस्त्रुटिः ॥ ५८ ॥
2.4.58 · p. 107
अनुष्टुप्
तेजपत्रे पत्रकं स्यात् पाकरञ्जनमित्यपि ।लोमशा जटिलाऽपि स्याज्जटामांसी तपस्विनी ॥ ५९ ॥
2.4.59 · p. 107
अनुष्टुप्
प्रियङ्गुः फलिनी गुन्द्रा गौरी गोरोचनेऽस्त्रियाम् ।उशीरे नलदं व्याघ्रनखे व्याडायुधं स्मृतम् ॥ ६० ॥
2.4.60 · p. 108
अनुष्टुप्
शैलेयमश्मनो जातं कन्दं पुष्पं मधुद्रवः ।मुस्ता नगरमुस्ता स्त्री वन्यं कैवर्तमुस्तकम् ॥ ६१ ॥
2.4.61 · p. 108
अनुष्टुप्
शंखिनी चोरपुष्पी स्यात् तस्करश्चोरके पुमान् ।कुष्ठं तु जरणं रामं कर्चुरे कल्पकः स्मृतः ॥ ६२ ॥
2.4.62 · p. 108
अनुष्टुप्
गन्धिनी तालपर्णी स्याद् दैत्या गन्धकुटी मुरा ।उक्तं खसफलक्षीरं माफूकं महिफेनकम् ॥ ६३ ॥
2.4.63 · p. 108
अनुष्टुप्
उच्यन्ते खसबीजानि ते खाखसतिला अपि ।एला वालुकमैरेयं स्पृक्का देवी लघुर्लता ॥ ६४ ॥
2.4.64 · p. 109
अनुष्टुप्
शौण्डी कृष्णोपकुल्या च मागधी पिप्पली कणा ।नली नटी कपोताङ्घ्रिः पुदिनो वान्तिहारकः ॥ ६५ ॥
2.4.65 · p. 109
अनुष्टुप्
हरीतक्यभया पथ्या कायस्था श्रेयसी शिवा ।विभीतकः कलिद्रुर्ना भूतावासो बहेडुकः ॥ ६६ ॥
2.4.66 · p. 109
अनुष्टुप्
द्वयो रामलको धात्री स्त्रियां तिक्तफलाऽमृता ।आर्द्रकं शृङ्गवेरं स्यादथ शुण्ठी महौषधम् ॥ ६७ ॥
2.4.67 · p. 109
अनुष्टुप्
कोलकं कृष्णमरिचं मरीचे शिग्रुजं सिते ।श्रेयसी कपिवल्ली च वशिरो गजपिप्पली ॥ ६८ ॥
2.4.68 · p. 110
अनुष्टुप्
ऊषणं पिप्पलीमूलं ग्रन्थिलं चटकाशिरः ।कणामूलं गुणं चन्यं चविका गुदजापहम् ॥ ६९ ॥
2.4.69 · p. 110
अनुष्टुप्
चविकायाः फलं प्राज्ञैः कथ्यते गजपिप्पली ।अतिच्छत्रा सितच्छत्राऽवाक्पुष्पी कारवी मिसिः ॥ ७० ॥
2.4.70 · p. 110
अनुष्टुप्
मधुरा शतपुष्पा च शालेयो वनजो यदि ।मिश्रेयोऽसौ शीतशितश्छत्रा मधुरिका मिसिः ॥ ७१ ॥
2.4.71 · p. 110
अनुष्टुप्
शतपुष्पा त्वहिच्छत्रा चित्रके व्यालपाठिनौ ।चन्द्रिका चन्द्रशुरोऽपि पशुमेहनकारिका ॥ ७२ ॥
2.4.72 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
मेथिका मेथिनी मेथी कालाऽजाज्यपि जीरकः ।धान्यकं तुवरं प्रोक्तमजमोदा यवानिका ॥ ७३ ॥
2.4.73 · p. 111
अनुष्टुप्
वचा तीक्ष्णोग्रगन्धायां पारसीकवचा तथा ।द्वीपान्तरवचा चाऽपि कुलिञ्जनमितः पृथक् ॥ ७४ ॥
2.4.74 · p. 111
अनुष्टुप्
हपुषा पुष्पवस्ता च पराऽश्वत्थफला मता ।फिरङ्गजा चोपचीनी विडङ्गं वह्निकृल्लघु ॥ ७५ ॥
2.4.75 · p. 111
अनुष्टुप्
यवजं तु तवक्षीरं त्वक् क्षीरी वंशलोचना ।निचुलः सिन्धुफेनः स्यादिज्जलो हिज्जलस्तथा ॥ ७६ ॥
2.4.76 · p. 112
अनुष्टुप्
मधुकं मधुयष्टी च यष्टीमधु मधुश्रवा ।आरग्वधे तु संपाकव्याधिघातसुवर्णकाः ॥ ७७ ॥
2.4.77 · p. 112
अनुष्टुप्
कटुका कटुकी कट्वी चिरतिक्तः किरातकः ।कुटजः कौटकः कौटः कलिङ्गेन्द्रयवौ समौ ॥ ७८ ॥
2.4.78 · p. 112
अनुष्टुप्
मदनो मुचुकुन्दः स्याद्रास्ना तु सुरसा रसा ।मत्स्याक्षी च वयस्था च ब्राह्मी च सोमवल्लरी ॥ ७९ ॥
2.4.79 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्वर्णक्षीरी हिमावत्यां समे काफलकट्फले ।घोषा कर्कटशृङ्गी स्याद् घातकी घातपुष्पिका ॥ ८० ॥
2.4.80 · p. 113
अनुष्टुप्
मञ्जिष्ठा विकसा भण्डी कुसुम्भं ग्राम्यकुङ्कुमम् ।पुमानलक्तो यावश्च स्त्री लाक्षा जतु न द्वयोः ॥ ८१ ॥
2.4.81 · p. 113
अनुष्टुप्
हरिद्राकाञ्चनी पीता निशाह्वा वरवर्णिनी ।दार्वी दारुहरिद्रायां बाकुची सोमराजिका ॥ ८२ ॥
2.4.82 · p. 113
अनुष्टुप्
काश्मीरं पौष्करे मूले दद्रुघ्नश्चक्रमर्दनः ।द्वयोर्भल्लातको भल्लः वीरवृक्षो ह्यरुष्करः ॥ ८३ ॥
2.4.83 · p. 113
अनुष्टुप्
जया च विजया भङ्गा गञ्जा स्त्री च रसः पुमान् ।सर्जिक्षारः सर्जिका च यवक्षारो यवाग्रजः ॥ ८४ ॥
2.4.84 · p. 114
अनुष्टुप्
सैन्धवं माणिमन्थं च विडं द्राविडभासुरम् ।सांभरं रौमलवणं रुच्यं सौवर्चलं लघु ॥ ८५ ॥
2.4.85 · p. 114
अनुष्टुप्
लवणोदधिसंजातं सामुद्रं वशिरं च तत् ।औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् ॥ ८६ ॥
2.4.86 · p. 114
अनुष्टुप्
सौभाग्यं टंकणं क्षारो नवसारो नसादरः ।सूर्यक्षारस्तीक्ष्णरसः सर्वक्षारो मलापनुत् ॥ ८७ ॥
2.4.87 · p. 114
अनुष्टुप्
ताम्बूल्येव तु ताम्बूलवल्ली स्यान्नागवल्ल्यपि ।मालूरः श्रीफलो बिल्वो गम्भारी मधुपर्णिका ॥ ८८ ॥
2.4.88 · p. 115
अनुष्टुप्
अमोघा पाटला कृष्णवृन्ता सैव फलेरुहा ।अग्निमन्थस्तु कणिका श्रीपर्णं गणिकारिका ॥ ८९ ॥
2.4.89 · p. 115
अनुष्टुप्
मयूरः कारवी दीप्यः खराश्वालोचमस्तकः ।ध्रुवा स्थिरा शालपर्णी लाङ्गली तोयपिप्पली ॥ ९० ॥
2.4.90 · p. 115
अनुष्टुप्
वार्ताकी बृहती सिंही कासघ्नी कण्टकारिका ।गोकण्टको गोक्षुरको जीवन्ती स्यान्मधुव्रता ॥ ९१ ॥
2.4.91 · p. 115
अनुष्टुप्
वनमुद्रा मुद्गपर्णी माषपर्णी तु पर्णिनी ।एरण्डको व्याघ्रपुच्छः स्यान्मन्दारोऽर्कद्रुमो मत ॥ ९२ ॥
2.4.92 · p. 116
metre not recognisednearly अनुष्टुप्
स्नुहा स्नुही भूरिदुग्धा सत्तला सातलाऽमला ।वज्रवल्ल्यस्थिसंहारी कालिकारी तु लाङ्गली ॥ ९३ ॥
2.4.93 · p. 116
अनुष्टुप्
करवीरो दिव्यपुष्पो हयमारोऽश्वमारकः ।कनको मत्तधत्तूरधूर्तधत्तूरधुस्तुराः ॥ ९४ ॥
2.4.94 · p. 116
अनुष्टुप्
वासकोऽटरुषो वासो वरतिक्तस्तु पर्पटः ।निम्बो नियमनो नेता पिचुमन्दः शुकप्रियः ॥ ९५ ॥
2.4.95 · p. 116
अनुष्टुप्
पाकारिः काञ्चनालञ्च काञ्चनो यमलच्छदः ।कर्बूदारः कोविदारो विष्णुक्रान्ताऽपराजिता ॥ ९६ ॥
2.4.96 · p. 117
अनुष्टुप्
शोभाञ्जनः शिग्रुरुग्रो मुखमोदः शुभाञ्जनः ।निर्गुण्डीन्द्राणिका सिन्धुवारकः सिन्दुकस्तथा ॥ ९७ ॥
2.4.97 · p. 117
अनुष्टुप्
कुटजः कुटकः शक्रः करञ्जः कलिमारकः ।वल्लीकण्टकरञ्जः स्यात्काकजङ्घा तु रक्तिका ॥ ९८ ॥
2.4.98 · p. 117
अनुष्टुप्
गुञ्जाऽथ श्वेतेगुञ्जायां स्याच्चूडाला भिरिण्टिका ।आत्मगुप्ता तु दुःस्पर्शा कपिकच्छूश्च कण्डुरा ॥ ९९ ॥
2.4.99 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
समौ वेतसवानीरौ निचुलो हिज्जलोऽम्बुजे ।वाट्यालका बलायां स्यादङ्कोटस्तु निकोचकः ॥ १०० ॥
2.4.100 · p. 118
अनुष्टुप्
गाङ्गेरुकी नागबला पुत्रकन्दा तु लक्ष्मणा ।कृष्णाभा वनकार्पासी नलपोटगलौ समौ ॥ १०१ ॥
2.4.101 · p. 118
अनुष्टुप्
वंशस्तृणध्वजो वेणुस्त्वचिसारो बृहत्तृणः ।वंशोऽसौ कीचको यः स्याद्रन्ध्रस्वानोऽनिलोद्धतेः ॥ १०२ ॥
2.4.102 · p. 118
अनुष्टुप्
स्थूलदण्डः सुरद्रुश्च देवनालो महानले ।द्वयोर्मुञ्जः शरो वाणो गुन्द्रोरच्छः पटेरकः ॥ १०३ ॥
2.4.103 · p. 118
अनुष्टुप्
काशेकासः पुमान्काशीषीकाकाशाः स्त्रियामिमाः ।गुन्द्रैरके समे दर्भो बर्हिः क्लीबे कुशोऽस्त्रियाम् ॥ १०४ ॥
2.4.104 · p. 119
अनुष्टुप्
कत्तृणं श्यामकं पौरं स्याद्भूतोकं तु भूतृणम् ।बल्वजा दृढपत्री स्यात्पण्यन्धा कङ्कनी दला ॥ १०५ ॥
2.4.105 · p. 119
अनुष्टुप्
सुनाला चणिका दुग्धा शूली तु महिषीप्रिया ।अनन्ता दुर्भरा दूर्वा गोलोमी शकुलादनी ॥ १०६ ॥
2.4.106 · p. 119
अनुष्टुप्
भूकूष्माण्डी विलाडी च विदारी वाजिवल्लभा ।अन्या क्षीरविदारी स्यादिक्षुगन्धा पयोलता ॥ १०७ ॥
2.4.107 · p. 119
अनुष्टुप्
जीमूतः कुक्कुटो वेणी देवदाली गरागरी ।कर्कटी च खरस्पर्शा विषघ्नी गरनाशिनी ॥ १०८ ॥
2.4.108 · p. 120
अनुष्टुप्
अर्शोघ्नी मुसली ताली तालमूली च तालिका ।नारायणी वरी दिव्या शतमूली शतावरी ॥ १०९ ॥
2.4.109 · p. 120
अनुष्टुप्
अश्वगन्धा हया बल्या पाठा स्याद्विद्धकर्णिका ।रेचनी सुवहा श्यामा दन्ती तु श्वेतघण्टिका ॥ ११० ॥
2.4.110 · p. 120
अनुष्टुप्
जयपालश्च जैपालो विशाला त्विन्द्रवारुणी ।कल्याणी स्वर्णपात्री स्याद्रेचिका मलधारिणी ॥ १११ ॥
2.4.111 · p. 120
अनुष्टुप्
रञ्जनी नीलिका नीला काला नीली च नीलनी ।दुरालभा समुद्रान्ता यवासो बहुकण्टकः ॥ ११२ ॥
2.4.112 · p. 121
अनुष्टुप्
अपामार्गश्चमत्कारः श्वेते रक्ते क्षवा स्मृतः ।काण्डेक्षुः कोकिलाक्षः स्यादिक्षुगन्धे क्षुरक्षुरौ ॥ ११३ ॥
2.4.113 · p. 121
अनुष्टुप्
कन्या घृतकुमारी स्यादेलीयः कृष्णबोधकः ।पाटलिः पाण्डुफल्यां स्याद् वनप्सा तु ज्वरापहा ॥ ११४ ॥
2.4.114 · p. 121
अनुष्टुप्
नीलाऽसौ नीलिनी श्यामा राजपर्णी प्रसारिणी ।अनन्ता सारिवा गोपी भृङ्गराजस्तु मार्कवः ॥ ११५ ॥
2.4.115 · p. 121
अनुष्टुप्
शणपुष्पी पीतपुष्पी त्रायमाणा तु पालिनी ।शंखिनी यवतिक्ता स्याल्लिङ्गिनी शिवमल्लिका ॥ ११६ ॥
2.4.116 · p. 122
अनुष्टुप्
गोकर्णी मोरटा मूर्वा काकमाची तु वायसी ।काकजंघा तु काकाक्षी मेषशृङ्गी विषाणिका ॥ ११७ ॥
2.4.117 · p. 122
अनुष्टुप्
गुडूची त्वमृता सोमा सोमवल्ली त्रिदोषहा ।चन्दा जीवन्तिका वृक्षरुहा वृक्षादनी स्मृता ॥ ११८ ॥
2.4.118 · p. 122
अनुष्टुप्
लज्जावती तु लज्जालुः स्पर्शलज्जा प्रसारिणी ।द्रोणपुष्पी फलेपुष्पाऽऽदित्यभक्ता सुवर्चला ॥ ११९ ॥
2.4.119 · p. 122
अनुष्टुप्
वन्ध्या कर्कोटकी नागारातिः सर्पविषापहा ।मार्कण्डिका पीतपुष्पी मार्कण्डी मृदुरेचनी ॥ १२० ॥
2.4.120 · p. 123
अनुष्टुप्