All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · क्षत्रियवर्गः (1/2)
॥ इति वंशवर्गः समाप्तः ॥
॥ अथ क्षत्रियवर्गः प्रारभ्यते ॥
मूर्धाभिषिक्तराजन्यविराट्क्षत्रियबाहुजाः ।नृपे पार्थिवराट्क्ष्माभृद्राजभूपमहीक्षितः ॥ १ ॥
2.9.1 · p. 193
अनुष्टुप्
सार्वभौमः समुद्रान्तधरेशे चक्रवर्तिनि ।मण्डलेश्वर ऊर्व्येकदेशशास्ताऽथ राजकम् ॥ २ ॥
2.9.2 · p. 193
अनुष्टुप्
राजन्यकं भवेदेषां सचिवोऽमात्यमन्त्रिणौ ।महामात्रः प्रधानं स्याद् द्वाःस्थो दौवारिकस्तथा ॥ ३ ॥
2.9.3 · p. 193
अनुष्टुप्
द्वारपालः प्रतीहारो द्वारपो वेत्रधारकः ।प्रहरीयामिकौ द्वौ स्तः प्राड्विपाकोऽक्षदर्शकः ॥ ४ ॥
2.9.4 · p. 193
अनुष्टुप्
प्रस्तोता धर्मकृत्यस्य पुरोहितपुरोधसौ ।स्याद्गर्वनरः कर्ममन्त्री तदवरस्तु यः ॥ ५ ॥
2.9.5 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्या (syllables merged)
स कर्मेशनरः तप्पाऽधीशस्तु करकूटनः ।न्यायाधीशस्त्वक्षपाटो धार्मिकोऽथ मनस्विपः ॥ ६ ॥
2.9.6 · p. 194
अनुष्टुप्
विवादाधिपतिः स्थेयः प्रान्तेशो मध्यदेशराट् ।सेवकोऽर्थ्यऽनुजीवी स्यात्कोट्टपाले तु मुद्रकः ॥ ७ ॥
2.9.7 · p. 194
अनुष्टुप्
मुखतारो मुख्यतरः स्यान्मनस्वा तु मुद्रकः ।औद्घाटिकः पुलीशस्तु पुरीशो यामिकाधिपे ॥ ८ ॥
2.9.8 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मु (wrong syllable)
पुंस्युद्घाटः स्त्रियां स्थानी यामिकाधिपतिस्थलम् ।नैष्किको रजताध्यक्षः कोशाध्यक्षस्तु कोशपः ॥ ९ ॥
2.9.9 · p. 194
अनुष्टुप्
धनपालो धनाध्यक्षः स्वर्णाध्यक्षस्तु भौरिकः ।प्रशस्तकर्मकर्तृणां मानदानेऽभिनन्दनम् ॥ १० ॥
2.9.10 · p. 195
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्तृ (wrong syllable)
अधिकारिण्यधिकृताऽध्यक्षाऽधिपतिमालिकाः ।जयपत्रं लब्धिपत्रं समौ मध्यस्थसाक्षिणौ ॥ ११ ॥
2.9.11 · p. 195
अनुष्टुप्
माध्यस्थं साक्षिता प्रातिभाव्यलग्नकते समे ।यदावेदनपत्रं तत् प्रार्थनादलमुच्यते ॥ १२ ॥
2.9.12 · p. 195
अनुष्टुप्
प्रमाणपत्रं यत्तस्याद् व्यवस्थापत्रमित्यपि ।अभियोगस्तु राजादिष्वपराधनिवेदनम् ॥ १३ ॥
2.9.13 · p. 195
अनुष्टुप्
शङ्कातत्त्वाभियोगाभ्यां तद्भेदो द्विविधो मतः ।अभियोगस्य यार्थाथ्याऽन्वेषणे त्वभियोजनम् ॥ १४ ॥
2.9.14 · p. 196
अनुष्टुप्
कारा स्त्री बन्धनाऽगारं बन्द्यां तु प्रग्रहः पुमान् ।आवेदकोऽभियोक्ताऽभियोगी वादी च वादकः ॥ १५ ॥
2.9.15 · p. 196
अनुष्टुप्
अभियुक्तः प्रतिद्वन्द्वी प्रतिवादी विवादकः ।कक्षावेक्षकशुद्धान्तपालाऽन्तर्वेशिकाः समाः ॥ १६ ॥
2.9.16 · p. 196
अनुष्टुप्
कञ्चुकी सैविदल्लः स्यात् षण्ढवर्षवरावपि ।आस्थानो राजधानी स्त्री हास्यकारी विदूषकः ॥ १७ ॥
2.9.17 · p. 196
अनुष्टुप्
भाण्डागारः कोषकोशौ रक्षी स्याद्राजरक्षकः ।घण्टायन्त्रं घटीनाली यामनाली यमेरुका ॥ १८ ॥
2.9.18 · p. 197
अनुष्टुप्
स्वेदेशान्तरितो राजा मित्रं शत्रुरितोऽन्यदृक् ।उदासीनस्तृतीयः स्यात्पार्ष्णिग्राहोऽनुपृष्ठगः ॥ १९ ॥
2.9.19 · p. 197
अनुष्टुप्
समौ स्निग्धवयसौ स्तः क्लीबे मित्रं सखा सुहृत् ।शत्रुस्तु शात्रवाऽमित्राऽहिताऽरिरिपुवैरिणः ॥ २० ॥
2.9.20 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
परप्रतीपप्रत्यर्थिविपक्षाऽरातिविद्विषः ।दुर्हृद्द्वेषिद्विषद्दस्युसपत्नपरिपन्थिनः ॥ २१ ॥
2.9.21 · p. 197
अनुष्टुप्
आप्तो विश्वसितो गुप्तचरे चारचरस्पशाः ।स्त्री मैत्री मित्रता मैत्र्यं सख्यं साप्तपदीनकम् ॥ २२ ॥
2.9.22 · p. 198
अनुष्टुप्
इष्टसंपादनं स्वस्याऽऽराध्यादेरनुवर्तनम् ।सत्री सदाव्रती दानी सिद्धान्तज्ञस्तु तान्त्रिकः ॥ २३ ॥
2.9.23 · p. 198
अनुष्टुप्
दैवज्ञो गणको ज्योतिर्विद्भविज्ज्योतिषी स्मृतः ।सामुद्रिकस्त्वीक्षणिको दूतः सन्देशहारकः ॥ २४ ॥
2.9.24 · p. 198
अनुष्टुप्
विविक्तं विजनैकान्ताः उपांशु च रहोऽव्ययः ।रहस्यं त्रिषु तज्जाते युक्तौ क्लीबं समञ्जसम् ॥ २५ ॥
2.9.25 · p. 198
अनुष्टुप्
धर्माधिकरणं धर्मासनं नीतिवितर्दिकाः ।स्त्रियां न्यायालयः पुंसि तथा कचहरीत्यपि ॥ २६ ॥
2.9.26 · p. 199
अनुष्टुप्
स्याद्वार्णिकोऽक्षरकरो लेखकोऽक्षरजीवकः ।तथैवाऽक्षरचञ्चुश्च लोकेऽक्षरचणो मतः ॥ २७ ॥
2.9.27 · p. 199
अनुष्टुप्
स्यात्कागदं करगलं स्त्रियां स्याल्लिपिधानिका ।तथा पुंस्यक्षरन्यासोऽक्षरधिः पत्रिका स्त्रियाम् ॥ २८ ॥
2.9.28 · p. 199
अनुष्टुप्
लिपिर्लिबिः स्त्रियां लेखेऽक्षरन्यासोऽक्षराङ्गकम् ।जननी त्वक्षरस्य स्याल्लेखन्यक्षरतूलिका ॥ २९ ॥
2.9.29 · p. 199
अनुष्टुप्
कलमोऽथ मसीधानी मसीपात्रं मसिप्रसूः ।नीतिः स्त्रियां न्यायकल्पौ शासनं तु निदेशनम् ॥ ३० ॥
2.9.30 · p. 199
अनुष्टुप्
स्त्रियामाज्ञाऽपराधे तु मन्तु रागो नपुंसकम् ।मन्त्रः स्यादषडक्षीणो भ्रेष औचित्यपातनम् ॥ ३१ ॥
2.9.31 · p. 200
अनुष्टुप्
त्रिषु त्वौपायिकं न्याय्यं युक्तं बलिकरौ समौ ।स्यात्तदात्वं तु तत्कालः समे उद्दानबन्धने ॥ ३२ ॥
2.9.32 · p. 200
अनुष्टुप्
गलहस्तोऽर्धचन्द्रः स्याद् धारा दण्डप्रणालिका ।स्यादुद्बन्धनमुत्प्राशः शूलदण्डस्तु शूलिका ॥ ३३ ॥
2.9.33 · p. 200
अनुष्टुप्
प्रक्रिया त्वधिकारोऽस्त्रि शुक्लं घट्टादिजः करः ।आयतिः स्युरुत्तरे काले चमरं चामरं समे ॥ ३४ ॥
2.9.34 · p. 200
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुदायो यौतुके देये सज्जनं सैन्यरक्षणे ।उपग्राह्योपचारौ द्वा वुत्कोच उपहारकः ॥ ३५ ॥
2.9.35 · p. 201
अनुष्टुप्
उपदानं कौशलिकं ढौकनाऽऽमिषप्राभृतम् ।उपायनं तथा लञ्चोपदा दाने स्वयं कृते ॥ ३६ ॥
2.9.36 · p. 201
अनुष्टुप्metre not read in every line
पुंस्युदर्कः फलं भावि सद्यः सान्दृष्टिकं तु यत् ।हैमं सिंहासनं तुल्ये भद्रासननृपासने ॥ ३७ ॥
2.9.37 · p. 201
अनुष्टुप्
भृङ्गारः पुंसि झारी स्त्री झरीका कनकालुका ।धारायन्त्रमपांयन्त्रे वस्तिः स्याद्रेचके पुमान् ॥ ३८ ॥
2.9.38 · p. 201
अनुष्टुप्
स्याद्वेश्यालम्पटः कामकूटः कूर्चं तु कूर्चकम् ।वेत्रासनं समावेदी चाऽऽसन्दी कथितास्त्रियाम् ॥ ३९ ॥
2.9.39 · p. 202
अनुष्टुप्
स्यादासङ्गस्तु सम्बन्ध आसनं तूपवेशनम् ।नागदन्ताश्च भूम्न्येव पुंसि स्याद्घटकर्कटः ॥ ४० ॥
2.9.40 · p. 202
अनुष्टुप्
चक्राऽभ्यासश्चक्रशिला तत्स्थानं तु खलूरिका ।शिबिरं कटकं षण्ढे निवेशोऽप्यथ कुञ्जरः ॥ ४१ ॥
2.9.41 · p. 202
अनुष्टुप्
द्विपो दन्तावली दन्ती द्विरदो वारणो गजः ।इभः स्तम्बेरमो नागः करी हस्ती मतङ्गजः ॥ ४२ ॥
2.9.42 · p. 202
अनुष्टुप्
मातङ्गोऽनेकपः पद्मी कुम्भी करीटसिन्धुरौ ।मदोत्कटो मदोन्मत्तो मत्तो मदकलः समाः ॥ ४३ ॥
2.9.43 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
यूथेशो यूथनागः स्यात्कलभोऽतिशिशुः करी ।उद्वान्तो निर्मदो यूथे हास्तिकं गजता स्त्रियाम् ॥ ४४ ॥
2.9.44 · p. 203
अनुष्टुप्
हस्तिगण्डः कटोऽस्य स्त्री हस्तिनी करिणी वशा ।इषीका नेत्रगोलं स्याल्ललाटं स्यात्त्ववग्रहः ॥ ४५ ॥
2.9.45 · p. 203
अनुष्टुप्
शुण्डादण्डः करस्तज्जो जलाणुर्वमथुः पुमान् ।दानं मदः शिरःपिण्डः कुम्भोऽस्याभ्यन्तरं विदुः ॥ ४६ ॥
2.9.46 · p. 203
अनुष्टुप्
आसनं स्कन्धदेशोऽस्य बिन्दुजालं तु पद्मकम् ।अङ्कुशोऽस्त्री सृणिः स्त्री स्यात्कशायां तोत्रवैणुकौ ॥ ४७ ॥
2.9.47 · p. 204
अनुष्टुप्
निगडोऽस्त्र्यन्दुको नाऽन्दूः स्त्री नना शृंखलं भवेत् ।कल्पना सञ्जना कक्ष्यादूष्ये तूदरबन्धिनी ॥ ४८ ॥
2.9.48 · p. 204
अनुष्टुप्
कुथो वर्णः परिस्तोमः प्रवेण्यास्तरणं त्रिषु ।आहवो पालितोऽन्ये तु द्वयोरेव कुथं विदुः ॥ ४९ ॥
2.9.49 · p. 204
अनुष्टुप्
झलझल्ला तथाऽस्फाले हस्तिनीकर्णचालने ।आलानं बन्धनस्तम्भः स्याद्वारी गजबन्धनी ॥ ५० ॥
2.9.50 · p. 204
अनुष्टुप्
हस्तिशाला वरण्डस्तु पुमान् स्त्री गजवेदिका ।हस्तिपाऽघोरणौ तुल्यौ वीतं फल्गु हयद्विपम् ॥ ५१ ॥
2.9.51 · p. 205
अनुष्टुप्
अश्वस्तुरङ्गतुरगहयवाजितुरङ्गमाः ।घोटघोटकगन्धर्वसप्तिवाहाऽर्वसैन्धवाः ॥ ५२ ॥
2.9.52 · p. 205
अनुष्टुप्
पीतिर्विनीतः संजाता शिक्षा यस्य स आहवे ।भिन्नो जह्यान्नयः संज्ञामाजानेयस्तु सत्कुलः ॥ ५३ ॥
2.9.53 · p. 205
अनुष्टुप्
काम्बोजा वाह्लिकास्तद्वत् पारसीका वनायुजाः ।सवेगो जवनः पृष्ठ्यस्थौरिणौ भारवाहके ॥ ५४ ॥
2.9.54 · p. 205
अनुष्टुप्
शुल्काऽश्वे पुंसि कर्कः स्याद् रथ्यस्तु रथवाहकः ।आश्वीनं येन चैकाह्ना गम्यो गम्येत तत् त्रिषु ॥ ५५ ॥
2.9.55 · p. 206
अनुष्टुप्
घोट्यश्वा वडवा वामी वाडवं वडवागणः ।अश्वस्य नासिका प्रोथं धारा पञ्चगतिर्यथा ॥ ५६ ॥
2.9.56 · p. 206
अनुष्टुप्
प्लुतमास्कन्दितं धौरितकं वल्गितरेचके ।हेषा ह्रेषा च शब्दे स्त्री कश्यं मध्ये नपुंसकम् ॥ ५७ ॥
2.9.57 · p. 206
अनुष्टुप्
गलदेशो निगालोऽथाऽऽश्वीयमाश्वं हयोच्चयः ।खुरः पुंसि शफं क्लीबे पुच्छाग्रं वालधिः पुमान् ॥ ५८ ॥
2.9.58 · p. 206
अनुष्टुप्
लाङ्गूलं लाङ्गुलं लूमं पूच्छेऽथ कविका स्त्रियाम् ।दन्तालिका खलिनोऽस्त्री वल्गा स्त्री प्रग्रहः पुमान् ॥ ५९ ॥
2.9.59 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
यो युद्धार्थो रथश्चक्री शताङ्गः स्यन्दनश्च सः ।सुखेन भ्रमणार्थो यः सस्यात्पुष्परथो रथः ॥ ६० ॥
2.9.60 · p. 207
अनुष्टुप्
स्त्रीणां रथे पुमान् कर्णी रथः प्रवहणं तथा ।क्लीबेऽनः शकटो नस्त्री गन्त्री गान्त्री च गाडिका ॥ ६१ ॥
2.9.61 · p. 207
अनुष्टुप्
ताम्रयानं चतुर्दोली पाल्यङ्कीशिबिके समे ।प्रेङ्खाहिन्दोलयोर्दोला दोली तु खर्वयोस्तयोः ॥ ६२ ॥
2.9.62 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
वस्त्राद्यावृतयाने स्यात् त्रिषु वास्त्रादयः स्मृताः ।साध्यकीलं तु पद्यानं कारयानन्तु मुष्टिलम् ॥ ६३ ॥
2.9.63 · p. 207
अनुष्टुप्
व्योमयानं वायुयानं वाष्पयानं तु वह्न्यनः ।स्थेशनं विश्रमस्थानं गुप्तवाटी तु गुर्वटी ॥ ६४ ॥
2.9.64 · p. 208
अनुष्टुप्
चिटिकाऽथो वेशपत्रं तद्द्रष्टा चिटिकेट् त्रिषु ।वाष्पयानप्रकोष्ठे तु काम्यपीठं प्रकोष्टकम् ॥ ६५ ॥
2.9.65 · p. 208
अनुष्टुप्
अथ लौहपथो लौहकर्म तन्मार्ग उच्यते ।उपरिष्टाज्जलादेर्यो मर्गः स पुलमुच्यते ॥ ६६ ॥
2.9.66 · p. 208
अनुष्टुप्
प्रधिः पुंसि स्त्रियां नेमिः चक्रभूस्पशि दारुणि ।पिण्डिका तु स्त्रियां नाभिश्चक्रमध्यस्थपिण्डिके ॥ ६७ ॥
2.9.67 · p. 208
अनुष्टुप्
समे रथाङ्गचक्रे तत् कीले त्वाणिरणिर्द्वयोः ।काष्ठेऽधःस्थेऽनुकर्षोऽथ वरूथो रथवेष्टनः ॥ ६८ ॥
2.9.68 · p. 209
अनुष्टुप्
यानमात्रे स्मृतं युग्मं यानं पत्रं च वाहनम् ।वृषादिस्कन्धसंसक्तो युगः प्रासङ्ग ईरितः ॥ ६९ ॥
2.9.69 · p. 209
अनुष्टुप्
अश्वादिबन्धने काष्ठे कूबरश्च युगन्धरः ।रथाऽवयवमात्रेषु रथाङ्गोपस्करावुभौ ॥ ७० ॥
2.9.70 · p. 209
अनुष्टुप्
अस्त्री वैनीतकं तत्स्यान्न साक्षाद्वाहनञ्च यत् ।रथाऽऽरोही रथी योद्धा सेनापालस्तु सैनिकः ॥ ७१ ॥
2.9.71 · p. 209
अनुष्टुप्
अश्ववारोऽश्ववाहोऽश्वसादोऽश्वारोहसादिनौ ।अश्वारोह्यश्च सादी च स्युः सप्तैतेऽश्ववाहकाः ॥ ७२ ॥
2.9.72 · p. 210
अनुष्टुप्
अश्वशास्त्रं शालिहोत्रमश्वशालासु मन्दुरा ।सूतो यन्ता नियन्ता च सारथावथ सैनिकः ॥ ७३ ॥
2.9.73 · p. 210
अनुष्टुप्
सेनासम्मिलितः सैन्यः बाणवारस्तु कञ्चुकः ।सेनापतिस्तु सेनानीर्भटयोधौ तु योद्धरि ॥ ७४ ॥
2.9.74 · p. 210
अनुष्टुप्
वेधन्यास्फोटनी तुल्ये आस्फोटो बाहुताडनम् ।परिधिस्थः सैन्यनेतृ नेता परिचरोऽपि सः ॥ ७५ ॥
2.9.75 · p. 210
अनुष्टुप्
क्लीबे सारसनं बाणवारबन्धवस्त्रिका ।स्याच्छीर्षण्यं शिरस्त्राणे किरीटे मुकुटं तथा ॥ ७६ ॥
2.9.76 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोटीरं च द्वयोर्मौलिः शिरोवेष्टनकं तु यत् ।उष्णीषं शीर्षकं क्लीबे तनुत्रे वर्म दंशने ॥ ७७ ॥
2.9.77 · p. 211
अनुष्टुप्
कंकटोरश्छदावस्त्री कवचो जगरोऽपि च ।नेत्रत्राणं च चक्षुर्मा उपनेत्रोपचक्षुषी ॥ ७८ ॥
2.9.78 · p. 211
अनुष्टुप्
क्लीबे कावचिकं तु स्याद् गणे कवचधारिणाम् ।आडम्बरस्तु संरम्भस्तथैवाऽऽटोप इत्यपि ॥ ७९ ॥
2.9.79 · p. 211
अनुष्टुप्
व्यूढकङ्कटसन्नद्धसज्जदंशितवर्मिताः ।आमुक्तप्रतिमुक्तौ द्वावपिनद्धः पिनद्धवत् ॥ ८० ॥
2.9.80 · p. 211
अनुष्टुप्
गुणाः यानाऽऽसनद्वैधविग्रहोऽऽश्रयसन्धयः ।त्रिवर्गस्तु क्षयो वृद्धिः स्थानं दण्डस्तु साहसम् ॥ ८१ ॥
2.9.81 · p. 212
अनुष्टुप्
दमश्चाऽथोपधाधर्माद्यैर्भृत्यादिपरीक्षणम् ।प्रभावो दण्डजं तेजः प्रतापः कोशजं तथा ॥ ८२ ॥
2.9.82 · p. 212
अनुष्टुप्
उपायाः सामदानं च भेदो दण्डोऽथ शक्तयः ।तिस्रः स्युर्मन्त्रणोत्साहप्रभावजनिता इमाः ॥ ८३ ॥
2.9.83 · p. 212
अनुष्टुप्
राजा मन्त्री सुहृत्कोषो राष्ट्रं सैन्यं च दुर्गभूः ।राज्याङ्गं प्रकृतिस्तु स्यात् पुरश्रेणियुतं च तत् ॥ ८४ ॥
2.9.84 · p. 212
अनुष्टुप्
सहायसाधनोपायौ विभागः कालदेशयोः ।प्रतीकारो विपत्तीनां सिद्धिः पञ्चाङ्गमिष्यते ॥ ८५ ॥
2.9.85 · p. 213
अनुष्टुप्
पुंसि भेदोपजापौ स्तः क्लीबे साम तु सान्त्वनम् ।अध्वगः पथिकः पान्थोऽध्वनीनो यात्रिकस्त्रिषु ॥ ८६ ॥
2.9.86 · p. 213
अनुष्टुप्
पदातिः पदिकः पत्तिः पदाजिः पदगस्तथा ।पादातिकश्च गर्वाटः पादातं तत्कदम्बकम् ॥ ८७ ॥
2.9.87 · p. 213
अनुष्टुप्
मन्थरो मन्दगामी स्याज्जङ्घालाऽतिजवौ समौ ।पुरोगमः पुरोगोऽग्रेसरः प्रष्ठः पुरःसरः ॥ ८८ ॥
2.9.88 · p. 213
अनुष्टुप्
तरस्वी त्वरितो वेगी रथिको रथिनो रथी ।जैत्रजित्वरजेतारो जिष्णावुरसिलस्त्वसौ ॥ ८९ ॥
2.9.89 · p. 213
अनुष्टुप्
उरस्वान् सांयुगीनस्तु युद्धे शक्तोऽथ धन्वनि ।धनुष्मधन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धरः ॥ ९० ॥
2.9.90 · p. 214
अनुष्टुप्
शक्त्यस्त्रभृत् शाक्तीको याष्टीको यष्टियोधनः ।काण्डीरः काण्डवान् पारश्वधिकः पर्श्वधायुधः ॥ ९१ ॥
2.9.91 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भृत् (syllables merged)
नैस्त्रिंशिकोऽसिधारी स्यात्कौन्तिकप्रासिकौ समौ ।फलकी ढालिकश्चर्मी पताकी वैजयन्तिकः ॥ ९२ ॥
2.9.92 · p. 214
अनुष्टुप्
लघुहस्तः शरक्षेपकुशलः सिद्धहस्तकः ।वेध्यच्युतशरस्तु स्यादपराद्धेषुरित्यपि ॥ ९३ ॥
2.9.93 · p. 214
अनुष्टुप्
काण्डपृष्ठाऽऽयुधीयाऽऽयुधिकाः स्युः शस्त्रजीविनः ।योग्यो जयस्य जेयः स्याच्छक्यो जय्य इति स्मृतः ॥ ९४ ॥
2.9.94 · p. 215
अनुष्टुप्
अभ्यमित्रोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभिशत्रुगे ।यथेष्टगेऽनुकामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ९५ ॥
2.9.95 · p. 215
अनुष्टुप्
वीरः शूरश्च विक्रान्तस्त्रिष्विमे मन्थरादयः ।नस्त्रियां तौ धनुश्चापौ पुंसीष्वासः शरासनम् ॥ ९६ ॥
2.9.96 · p. 215
अनुष्टुप्
कोदण्डं कार्मुकं धन्व चत्वार्येतानि न द्वयोः ।एतत्पार्थस्य गाण्डीवं गाण्डिवं वाऽस्त्रियामुभे ॥ ९७ ॥
2.9.97 · p. 215
अनुष्टुप्
लस्तकं धनुषो मध्यं प्रान्ते कोट्यटनी स्त्रियौ ।ज्याघातवारणे गोधा ज्या मौर्वी स्त्री गुणः पुमान् ॥ ९८ ॥
2.9.98 · p. 215
अनुष्टुप्
शरो त्विषुर्द्वयोर्बाणविशिखाऽऽशुगमार्गणाः ।लौहबाणस्तु नाराचो बाजपक्षावुभौ समौ ॥ ९९ ॥
2.9.99 · p. 216
अनुष्टुप्
विषाक्ते लिप्तिको लिप्तो निरस्तः प्रहिते त्रिषु ।निषङ्गः तूणतुणीरोपासङ्गेषुधयः समाः ॥ १०० ॥
2.9.100 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
खड्गः कौक्षेयकोरिष्टिस्तरवारिः कृपाणकः ।चन्द्रहासाऽसिनिस्त्रिंशा ईलिका तु कटीतलः ॥ १०१ ॥
2.9.101 · p. 216
अनुष्टुप्
अज्झलं फलकं ढालं परिघे परिघातनम् ।भिन्दिपालः सृगस्तुल्यौ मुद्गरे द्रुघणो घनः ॥ १०२ ॥
2.9.102 · p. 216
अनुष्टुप्
मुष्टिः फलस्य संग्राहः खड्गादीनां तु सात्सरुः ।एषां तीक्ष्णं मुखं धारा मेखला मुष्टिबन्धनम् ॥ १०३ ॥
2.9.103 · p. 217
अनुष्टुप्
कुठारः परशुः पर्शुः कुठारी स्त्री परश्वधः ।स्त्री वासिस्तक्षणी वास्यमसिपुत्री छुरी समे ॥ १०४ ॥
2.9.104 · p. 217
अनुष्टुप्
शल्यं क्लीबे पुमान् शङ्कुर्बाणग्रथितमायुधम् ।शर्बला तोमरो न स्त्री प्रासः कुन्तश्च भल्लवत् ॥ १०५ ॥
2.9.105 · p. 217
अनुष्टुप्
कोटिरश्रिः स्त्रियौ कोणोऽक्षवाटो मल्लयुद्धभूः ।बन्धूकस्तु भुशुण्डी स्त्री तत्प्रभेदे तु नालिका ॥ १०६ ॥
2.9.106 · p. 218
अनुष्टुप्
तोपः पुमान् शतघ्नी स्त्री चक्रं चक्रस्वरूपकम् ।गोलिका गुलिका गोला गुटिका च गुटी स्त्रियाम् ॥ १०७ ॥
2.9.107 · p. 218
अनुष्टुप्
पृतना वाहिनी सेनाऽनीकिनी ध्वजिनी चमूः ।अनीकमस्त्रियां सैन्यं बलं चक्रं च पुंसि तु ॥ १०८ ॥
2.9.108 · p. 218
अनुष्टुप्
मण्डलाऽऽलीढवैशाखप्रत्यालीढानि चाऽऽसने ।स्याद्व्यूहः सैन्यविन्यासोऽथ पत्त्यादिक्रमो यथा ॥ १०९ ॥
2.9.109 · p. 218
अनुष्टुप्
नाम हस्तीसंख्या रथसंख्या अश्वसंख्या पदातिसंख्यापत्तिः १ १ ३ ५सेना ३ ३ ९ १५सेनामुखम् ९ ९ २७ ४५गुल्मः २७ २७ ८१ १३५वाहिनी ८१ ८१ २४३ ४०५पृतना २४३ २४३ ७२९ १२१५चमू ७२९ ७२९ २१८७ ३६४५अनीकिनी २१८७ २१८७ ६५६१ १०९३५
2.9.110 · p. 219
अनुष्टुप्metre not read in every line
द्वितीयकोष्ठक
सेनानाम गजरथ अश्व पदातिपत्ति १ ३ ५सेनामुख ३ ९ १५गुल्म १ २७ ४५गण २७ ८१ १३५वाहिणी ८१ २४३ ४०५पृतना २४३ ७२९ १२२५चमू ७२९ २१८७ १६४५अनीकिनी २१८७ ६५६१ १०९३५अक्षौहिनी २१८७० ६५६१० १०९३५०पत्तिरेकरथा पञ्च पद्गात्र्यश्वैककुञ्जरा ।सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ११० ॥
2.9.110 · p. 219
अनुष्टुप्metre not read in every line
अनीकिनी त्रिभिर्दिग्भिर्गुणिताऽक्षौहिणी तया ।सेनामुखादयोऽक्षौहिण्यन्ता भेदाश्च भूरिशः ॥ १११ ॥
2.9.111 · p. 220
अनुष्टुप्
संपत्संपत्तिलक्ष्म्यः श्रीर्विपदापदविपत्तयः ।सेनया शत्रु सार्थाऽभिगमनं त्वभिषेणनम् ॥ ११२ ॥
2.9.112 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 र्विप (syllable split)
युद्धे शूरस्य शत्रून्प्रत्युपयानमभिक्रमः ।अभिनिर्याणप्रस्थानप्रयाणगमनानि च ॥ ११३ ॥
2.9.113 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण (wrong syllable)
व्रज्या यात्रा गमः पुंसि मागधो वंशवर्णकः ।संकेतज्ञः सुधीर्बन्दी तथा वैतालिको मतः ॥ ११४ ॥
2.9.114 · p. 220
अनुष्टुप्
वैजयन्ती पताका च केतनं त्रिषु तु ध्वजः ।पांशुः पुमान्द्वयो रेणुर्धूलिः स्त्री न द्वयोः रजः ॥ ११५ ॥
2.9.115 · p. 220
अनुष्टुप्
क्षोदच्चूर्णेऽथ वीराऽऽशंसनं भूर्भूरिभीतिदा ।अहंपूर्वंक्रियाऽऽशंसा स्यादहंपूर्विका मिथः ॥ ११६ ॥
2.9.116 · p. 221
अनुष्टुप्
आत्मसंभावना दर्पादाहोपुरिषिका मता ।शक्तिः पराक्रमः प्राणः स्थामशौर्ये सहोबलम् ॥ ११७ ॥
2.9.117 · p. 221
अनुष्टुप्
तरोद्रविणशुष्माणि विक्रमोऽत्यन्तशक्तिता ।चालनोद्घट्टने वीरपाणं पश्चात्पुरायुधः ॥ ११८ ॥
2.9.118 · p. 221
अनुष्टुप्
जन्यमायोधनं युद्धं प्रधानाऽऽस्कन्दने मृधम् ।प्रविदारणसंख्ये च समीकं सम्परायकम् ॥ ११९ ॥
2.9.119 · p. 221
अनुष्टुप्