All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
प्रथमः काण्डः · मतिवर्गः
॥ अथ मतिवर्गः प्रारभ्यते ॥
मतिर्धीर्धिषणा बुद्धिः शेमुषी चेतनाऽपि च ।मनीषौत्पत्तिकी ज्ञेया ततो वैनयिकी मता ॥ १ ॥
1.5.1 · p. 42
अनुष्टुप्
कर्मजा सा तृतीया तु चतुर्थी पारिणामिकी ।मनसः कर्मसङ्कल्पो मेधा तु धारणा धियः ॥ २ ॥
1.5.2 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
तर्कोऽध्याहर ऊहस्तु विचारे च विचारणा ।संशयो विचिकित्सा स्त्री सन्देहः पुंसि कीर्तितः ॥ ३ ॥
1.5.3 · p. 42
अनुष्टुप्
मिथ्यादृष्टिरसच्छास्त्री निर्णयो निश्चयः पुमान् ।उभौ सिद्धान्तराद्धान्तौ द्वेषो हि द्रोहचिन्तनम् ॥ ५ ॥
1.5.5 · p. 43
अनुष्टुप्
अतद्वस्तुनि तज्ज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः ।अङ्गीकारेऽभ्युपगमः स्वीकारः स्वीकृतिस्तथा ॥ ६ ॥
1.5.6 · p. 43
अनुष्टुप्
मोक्षबुद्धिर्भवेज्ज्ञानं विज्ञानं शिल्पशास्त्रता ।पुंसि मोक्षोपवर्गश्च स्त्रियां मुक्तिर्नपुंसके ॥ ७ ॥
1.5.7 · p. 43
अनुष्टुप्
निर्वाणाऽमृतकैवल्यश्रेयोनिःश्रेयसान्यपि ।तिक्तः कटुः कषायोऽम्लो मधुरश्च रसा इमे ॥ ८ ॥
1.5.8 · p. 43
अनुष्टुप्
शब्दाद्या विषयाः पञ्च कर्णादीनीन्द्रियाण्यिमौ ।गन्धौ परिमलाऽऽमोदौ मर्दनोत्थमनोहरौ ॥ ९ ॥
1.5.9 · p. 43
अनुष्टुप्
इष्टगन्धस्तु सुरभिः सुगन्धिरपि गीयते ।दुर्गन्धो पूतिगन्धस्तु विस्रं च मांसगन्धके ॥ १० ॥
1.5.10 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
अथ शुक्लोऽवदातश्च शुभ्रश्च धवलः सितः ।श्वेतो गौरोऽवलक्षाश्चाऽर्जुनपाण्डरपाण्डवः ॥ ११ ॥
1.5.11 · p. 44
अनुष्टुप्
कापोतस्तु कपोताभः स्वल्पपीतस्तु धूसरः ।कालेकृष्णाऽसितश्यामनीलश्यामलमेचकाः ॥ १२ ॥
1.5.12 · p. 44
अनुष्टुप्
हारिद्रः पीत आख्यातः पालाशे हरितो हरित् ।रक्ते लोहितशोणौ तु श्वेतरक्ते च पाटलः ॥ १३ ॥
1.5.13 · p. 44
अनुष्टुप्
पिञ्जरः पीतरक्तो यो बालसन्ध्याप्रभोऽरुणः ।पिशङ्गपिङ्गकपिलकडाराः कद्रुपिङ्गलौ ॥ १४ ॥
1.5.14 · p. 45
अनुष्टुप्
कृष्णलोहितवर्णे तु पुमांसौ धुम्रधूमलौ ।कर्बुरे चित्रकिर्मीरकल्माषशवलास्त्रिषु ॥ १५ ॥
1.5.15 · p. 45
अनुष्टुप्
गुणि लिङ्गा इमे प्रोक्ता गुणाः पुंसि तु केवलम् ।
1.5.16 · p. 45