कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

प्रथमः काण्डः · जलवर्गः

॥ इति पातालवर्गः समाप्तः ॥

॥ अथ जलवर्गः प्रारभ्यते ॥

जलं स्यात्सलिलं वारि मेघपुष्पं दकं च कम् ।पानीयमुदकं नीरं क्षीरं जीवनमम्बु च ॥ १ ॥
1.9.1 · p. 65
अनुष्टुप्
कीलालममृतं तोयं पाथोऽर्णोऽम्भश्च शंवरम् ।क्लीबमापो बहुत्वे स्त्री पयो वाः पुष्करं वनम् ॥ २ ॥
1.9.2 · p. 65
अनुष्टुप्
नदी निर्झरिणी स्रोतस्वती द्वीपवती धुनी ।तरङ्गिव्यापगा कूलंकषा शैवलिनी सरित् ॥ ३ ॥
1.9.3 · p. 65
अनुष्टुप्
सरस्वती स्रवन्ती च तटिनी ह्रदिनी तथा ।निम्नगाऽमूः स्त्रियः सर्वा गङ्गा जह्नुसुताऽपि च ॥ ४ ॥
1.9.4 · p. 65
अनुष्टुप्
भागीरथी त्रिपथगा तथा विष्णुपदीति च ।सूर्यात्मजा तु यमुना कालिन्दी शमनस्वसा ॥ ५ ॥
1.9.5 · p. 65
अनुष्टुप्
सोमजा नर्मदा रेवा सैव मेकलकन्यका ।करतोया सदानीरा चन्द्रभागा सरस्वती ॥ ६ ॥
1.9.6 · p. 66
अनुष्टुप्
शरावती वेत्रवती कावेर्याद्याः अनेकशः ।ब्रह्मपुत्रो नदः शोणः कुल्योऽल्पा कृत्रिमा सरित् ॥ ७ ॥
1.9.7 · p. 66
अनुष्टुप्
समुद्र उदधिः सिन्धुरब्धिर्जलधिरर्णवः ।सरस्वान् सागरः पारावारो रत्नाकरस्तथा ॥ ८ ॥
1.9.8 · p. 66
अनुष्टुप्
यादःपतिरुदन्वांश्च सरित्पतिरपांपतिः ।भेदा लवणक्षीराऽऽज्यसुरेक्षुदधिवारयः ॥ ९ ॥
1.9.9 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण (wrong syllable)
तरङ्गभङ्गौ लहरी वीचिरूर्मिर्द्वयोर्मतः ।जलभ्रमिः स्यादावर्तः कल्लोलोल्लौ महोर्मिषु ॥ १० ॥
1.9.10 · p. 67
अनुष्टुप्
विप्रुट् स्त्रियां पृषत्क्लीबे स्याद्बिन्दुः पृषतः पुमान् ।पुटभेदो भ्रमः पुंसि चक्रं च जलनिर्गमे ॥ ११ ॥
1.9.11 · p. 67
अनुष्टुप्
स्यात् त्रिलिङ्गं तटं कूलं प्रतीरं तीररोधसी ।परतीरं तु पारं स्यादवारमपरं तथा ॥ १२ ॥
1.9.12 · p. 67
अनुष्टुप्
सिन्धुमेले तु संभेदः प्रणाली जलपद्धतौ ।अस्त्री द्वीपोऽन्तरीपं च जलाभ्यन्तस्तटे द्वयम् ॥ १३ ॥
1.9.13 · p. 67
अनुष्टुप्
सैकतं सिकतापुञ्जे द्वे सिक्ताऽसिकते स्त्रियौ ।जलक्रमेण संजाते तटे पुलिनमीरितम् ॥ १४ ॥
1.9.14 · p. 67
अनुष्टुप्
परीवाहो जलोच्छ्वासः प्रवृद्धजलनिर्गतौ ।ह्रदोऽगाधजले पुंसि जलाधारो जलाशये ॥ १५ ॥
1.9.15 · p. 68
अनुष्टुप्
उदपानं स्त्रियां न स्यादन्धुः कूपः प्रहिः पुमान् ।विदारको भवेत्कूपो गर्तेऽम्बुप्राप्तये कृतः ॥ १६ ॥
1.9.16 · p. 68
अनुष्टुप्
त्रिका तु नेमिः कूपस्य वीनाहो मुखबन्धनम् ।देवखातमखातं स्यात्खातं पुष्करिणी स्त्रियाम् ॥ १७ ॥
1.9.17 · p. 68
अनुष्टुप्
पद्माकरस्तटाकोऽस्त्री तडागः सरसी सरः ।कासारः पल्वले त्वल्पसरो वेशन्त इत्यपि ॥ १८ ॥
1.9.18 · p. 68
अनुष्टुप्
आधारो जलाधान्यालवाला वापोऽऽवालस्तु क्षुद्रजे ।खेयं स्यात्परिखा वाप्यां दीर्घिका द्वे अमू स्त्रियाम् ॥ १९ ॥
1.9.19 · p. 68
अनुष्टुप्metre not read in every line
जलनील्यान्तु शैवालः वारिपर्णी तु कुम्भिका ।सौगन्धिकं सिताम्भोजं कल्हारं यत् त्रिसन्ध्यकम् ॥ २० ॥
1.9.20 · p. 69
अनुष्टुप्
रक्तं तद्धल्लकं ज्ञेयं कमलेषु कुशेशयम् ।पद्मारविन्दे नलिनं शतपत्रं स्त्रियं विना ॥ २१ ॥
1.9.21 · p. 69
अनुष्टुप्
सहस्रपत्रमम्भोजमब्जं राजीवमम्बुजम् ।कञ्जं पङ्केरुहं पुण्डरीकं तामरसोत्पले ॥ २२ ॥
1.9.22 · p. 69
अनुष्टुप्
अम्भोरुहं सरसिजं सारसं सरसीरुहम् ।रात्रीपद्मं कुवलयं कैरवं कुमुदं सिते ॥ २३ ॥
1.9.23 · p. 69
अनुष्टुप्
नीले चेन्दीवरं कन्दस्त्वेषां शालूकमुच्यते ।पद्ममूलं शिफाकन्दः करहाट उभौ पुमान् ॥ २४ ॥
1.9.24 · p. 70
अनुष्टुप्
नलिन्यां बिसिनी प्रोक्ता कुमुदिन्यां कुमुद्वती ।नाला नालं स्त्रियां क्लीबे रक्तः कोकनदोऽम्बुजः ॥ २५ ॥
1.9.25 · p. 70
अनुष्टुप्
मृणालं च मृणाली स्त्री बिसे किञ्जल्ककेसरौ ।वराटको बीजकोशे परागो रेणुरुच्यते ॥ २६ ॥
1.9.26 · p. 70
अनुष्टुप्
पङ्कोऽस्त्री कर्दमः शादो जम्बालश्च निषद्वरः ।नौतार्ये त्रिषु नाव्यं स्यात्तरणिर्नौर्स्तरिः स्त्रियाम् ॥ २७ ॥
1.9.27 · p. 70
अनुष्टुप्
पोतस्तु पुंसि वोहित्थं वहित्रं वहनं च तत् ।स्रोतः स्वतोऽम्बुसरणे प्लवकोलौ तथोडुपः ॥ २८ ॥
1.9.28 · p. 71
अनुष्टुप्
काष्ठाऽम्बुवाहिनी द्रोणी गुणवृक्षस्तु कूपकः ।अरित्रं केनिपातेऽथ नौदण्डे क्षेपणी स्त्रियाम् ॥ २९ ॥
1.9.29 · p. 71
अनुष्टुप्
आतराऽतितरौ स्यातां तरपण्येऽथ सेचनम् ।सेकपात्रेऽथ नावोऽर्धेऽर्धनावं क्लीबलिङ्गकम् ॥ ३० ॥
1.9.30 · p. 71
अनुष्टुप्
नाविकः कर्णधारः स्यात्पोतवाहो नियामकः ।पारगस्त्रिषु पारीणोऽवारपारीण इत्यपि ॥ ३१ ॥
1.9.31 · p. 71
अनुष्टुप्
सांयात्रिको द्वयोर्नौका वणिक् पोतवणिक्च सः ।अभ्रिः काष्ठस्य कुद्दाले प्रसन्नाऽच्छौतु निर्मलः ॥ ३२ ॥
1.9.32 · p. 72
अनुष्टुप्
समलः कलुषोऽनच्छ अविलश्चेत्यमी समाः ।निम्नं गभीरगम्भीरे अगाधेऽस्ताद्य इत्यपि ॥ ३३ ॥
1.9.33 · p. 72
अनुष्टुप्
धीवरे दाशकैवर्तौ मत्स्याधानी कुवेणिका ।मत्स्यवेधनयन्त्रे स्याद्बडिशं बडिशा स्त्रियाम् ॥ ३४ ॥
1.9.34 · p. 72
अनुष्टुप्
आनायो ना च जालं स्यान्मीने वैसारिणो झषः ।पृथुरोमा च मत्स्यश्च विसारः शकली पुमान् ॥ ३५ ॥
1.9.35 · p. 72
अनुष्टुप्
सहस्रदंष्ट्रपाठीनौ प्रौष्ठी तु शफरी द्वयोः ।मद्गुरः शालराजीवौ शकुलस्तिमिरोहितौ ॥ ३६ ॥
1.9.36 · p. 73
अनुष्टुप्
झषास्तिमिङ्गिलोऽन्ये तु यादांसि जलजन्तवः ।शङ्कुद्रशिशुमाराः स्युस्तद्भेदे मकरादयः ॥ ३७ ॥
1.9.37 · p. 73
अनुष्टुप्
कच्छपः कमठः कूर्मे कुलीरः कर्कटः पुमान् ।ग्राहेऽवहारो नक्रस्तु कुम्भीरेऽथ महीलता ॥ ३८ ॥
1.9.38 · p. 73
अनुष्टुप्
गण्डूपदः किंचुलुको निहाका स्यात्तु गोधिका ।मुक्तास्फोटः पुमान् शुक्तिः स्त्रिजलौका तु रक्तपा ॥ ३९ ॥
1.9.39 · p. 74
अनुष्टुप्
क्षुद्रशङ्खे शङ्खनखाः शङ्खः कम्बुर्न तु स्त्रियाम् ।भेके मण्डूकशालूरवर्षाभूदर्दुरप्लवाः ॥ ४० ॥
1.9.40 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शृङ्गी मग्दुरपुंयोगे भेकी स्त्री कमठी डुलिः ।
1.9.41 · p. 74