कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

प्रथमः काण्डः · व्योमवर्गः

इति सुरवर्गः समाप्तः ।

॥ अथ व्योमवर्गः प्रारभ्यते ॥

अथ व्योम वियद्विष्णुपदं खं पुष्करं नभः ।अन्तरीक्षाऽम्बराऽनन्तगगनानि नपुंसके ॥ १ ॥
1.3.1 · p. 23
अनुष्टुप्
अस्त्री विहाय आकाशोऽन्तरिक्षसुरवर्त्मनी ।तारापथो द्योदिवौ स्त्री मेघमार्गो विहायसः ॥ २ ॥
1.3.2 · p. 23
अनुष्टुप्
धाराधरो जलधरो जीमूतो मुदिरोऽम्बुभृत् ।जलमुग्धूमयोनिश्च वारिदश्च बलाहकः ॥ ३ ॥
1.3.3 · p. 24
अनुष्टुप्
वारिवाहो घनो मेघस्त्वभ्रमेव नपुंसकम् ।
1.3.4 · p. 24
अनुष्टुप्
कादम्बिनी मेघपङ्क्तिर्विद्युत्सौदामिनी तडित् ॥ ४ ॥
1.3.4 · p. 24
अनुष्टुप्
ह्लादिनी चञ्चला शम्पा चपला च क्षणप्रभा ।
1.3.6 · p. 24
अनुष्टुप्
मेघध्वनिस्तु रसित-गर्जितस्तनितानि च ॥ ५ ॥
1.3.5 · p. 25
अनुष्टुप्
वज्रघोषः स्फूर्जथुः स्याद् घनज्योतिरिरंमदः ।वर्षोत्पलस्तु करका मेघाच्छन्नं तु दुर्दिनम् ॥ ६ ॥
1.3.6 · p. 25
अनुष्टुप्
धाराप्रपात आसारः शीकरोऽम्बुकणः पुमान् ।इन्द्रधनुः शक्रचापे दृश्यते वार्दलोद्गमे ॥ ७ ॥
1.3.7 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
पुंस्यन्तर्धिर्निलयने ह्यन्तर्धा व्यवधा स्त्रियाम् ।पिधानमपिधानं च तिरोधानाऽपवारणे ॥ ८ ॥
1.3.8 · p. 25
अनुष्टुप्
निकोचनाऽऽच्छादने च चन्द्रस्त्विन्दुर्निशापतिः ।सोमः सुधांशुः शुभ्रांशुर्हिमांशुश्चन्द्रमा विधुः ॥ ९ ॥
1.3.9 · p. 25
अनुष्टुप्
शशी शशधरः शीतरश्मिः कुमुदबान्धवः ।नक्षत्रेशो मृगाङ्को ग्लौरोषधीशः कलानिधिः ॥ १० ॥
1.3.10 · p. 26
अनुष्टुप्
क्षपाकरनिशानाथौ विंशतिः केवलं पुमान् ।
1.3.13 · p. 26
अनुष्टुप्
मण्डलं त्रिषु बिम्बोऽस्त्री षोडशांऽशः कला स्त्रियाम् ॥ ११ ॥
1.3.11 · p. 26
अनुष्टुप्
खण्डोऽस्त्री शकले भित्तं पुंस्यर्धोऽर्ध समांशके ।
1.3.15 · p. 26
अनुष्टुप्
चान्द्री स्याच्चन्द्रिका चन्द्रकला ज्योत्स्ना च कौमुदी ॥ १२ ॥
1.3.12 · p. 27
अनुष्टुप्
प्रसन्नता प्रसादः स्यात् लाञ्छनं लक्ष्मलक्षणम् ।चिह्नमङ्कः कलङ्कश्च चत्वार्याहुर्नपुंसके ॥ १३ ॥
1.3.13 · p. 27
अनुष्टुप्
द्युतिः कान्तिश्छविः शोभा सुषमा तु महाद्युतिः ।अगस्त्यो घटयोनिश्च मैत्रावरुणकुम्भजौ ॥ १४ ॥
1.3.14 · p. 27
अनुष्टुप्
उडु नक्षत्रमृक्षं भं तारा स्त्री तारका न ना ।मृगशीर्षं मृगशिर आह गोपालितः स्त्रियाम् ॥ १५ ॥
1.3.15 · p. 27
अनुष्टुप्
जीवो गुरुः सुराचार्यो वाचस्पतिबृहस्पती ।भार्गवो भृगुजः काव्यः शुक्रो दैत्यगुरुः कविः ॥ १६ ॥
1.3.16 · p. 27
अनुष्टुप्
मङ्गलोऽङ्गारको भौमः कुजो भूमिसुतस्तथा ।रौहिणेयो बुधः सौम्यः शनिः शौरिः शनैश्चरः ॥ १७ ॥
1.3.17 · p. 27
अनुष्टुप्
स्वर्भानुः सैंहिकेयोऽपि तमो राहुर्विधुन्तुदः ।सूर्यः स्यादर्यमासुर आदित्यो भास्करो रविः ॥ १८ ॥
1.3.18 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सु (wrong syllable)
अर्को विभाकरो भास्वान् प्रभाकरदिवाकरौ ।मार्तण्डो मिहिरो लोकचक्षुर्ग्रहपतिस्तथा ॥ १९ ॥
1.3.19 · p. 28
अनुष्टुप्
उष्णरश्मिश्च चण्डांशुः सप्ताश्वः पूषणोऽपि च ।तरणिस्तपनः पूषा तमोहन्ता ह्यहर्पतिः ॥ २० ॥
1.3.20 · p. 28
अनुष्टुप्
विवस्वानंशुमान्भानुर्मित्रो द्युमणिरुष्णगुः ।
1.3.25 · p. 28
अनुष्टुप्
परिधिः परिवेषस्तु सूर्यमण्डलतः परे ॥ २१ ॥
1.3.21 · p. 29
अनुष्टुप्
रवेः पार्श्वचरा नित्यं माठराद्या उदाहृताः ।सूर्यप्रिया तु छाया स्यात् समौस्त उदयोद्गमौ ॥ २२ ॥
1.3.22 · p. 29
अनुष्टुप्
अस्तंगतेऽर्थेऽस्तमनं तथाऽस्तमयनं द्वयम् ।अनूरुररुणः सूरसूतश्च गरुडाऽग्रजः ॥ २३ ॥
1.3.23 · p. 29
अनुष्टुप्
मयूखांऽश्वस्रकिरणा गभस्तिघृणिरश्मयः ।भानुःकरो मरीचिस्तु द्वयोः स्याद्दीधितिः स्त्रियाम् ॥ २४ ॥
1.3.24 · p. 29
अनुष्टुप्
भा भाः प्रभा रुचिस्त्विड्रुग्दीप्तयश्च द्युतिश्छविः ।शोचिरोचिरमू क्लीबे प्रकाशो द्योत आतपः ॥ २५ ॥
1.3.25 · p. 29
अनुष्टुप्
कवोष्णं कोष्णमन्दोष्णे कदुष्णं त्रिषु तद्वति ।तथा तीक्ष्णं स्वरं तिग्मं मृगतृष्णा मरीचिका ॥ २६ ॥
1.3.26 · p. 30
अनुष्टुप्
मेषो वृषश्च मिथुनं कर्कः सिंहश्च कन्यका ।तुला च वृश्चिको धन्वी मकरः कुम्भमीनकौ ॥ २७ ॥
1.3.27 · p. 30
अनुष्टुप्
राशीनामुदयो लग्नं द्वादश स्युः क्रमादमी ।अवश्यायस्तुषारश्च नीहारस्तुहिनं हिमम् ॥ २८ ॥
1.3.28 · p. 30
अनुष्टुप्
प्रालेयं मिहिका वाऽपि हिमानी हिमसंचयः ।शीतं गुणे तदर्था ये सुषीमः शिशिरो जडः ॥ २९ ॥
1.3.29 · p. 31
अनुष्टुप्
तुषारशीतलौ शीतहिमौ तल्लिङ्गवाचकाः ।स्त्रियां दिक्ककुभौ काष्ठा हरिदाशाऽथ तद्भिदाः ॥ ३० ॥
1.3.30 · p. 31
अनुष्टुप्
पश्चिमादि प्रतीची स्यादवाची दक्षिणा मता ।पूर्वा प्राच्युत्तरोदीची शदिश्यं तु दिग्भवे त्रिषु ॥ ३१ ॥
1.3.31 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पूर्वे भवतु प्राचीनमर्वाचीनं ततः परम् ।अर्वाचीनमुदीचीनं भवार्थे सर्व एव ते ॥ ३२ ॥
1.3.32 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
तिर्यग्दिशां तु पतय इन्द्रोऽग्निर्यम नैर्ऋतौ ।वरुणो वायुयक्षेशावीशानश्च यथाक्रमम् ॥ ३३ ॥
1.3.33 · p. 32
अनुष्टुप्
सूर्यः शुक्रः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः ।अष्टावेते क्रमाज्ज्ञेयाः पूर्वादीनां दिशां ग्रहाः ॥ ३४ ॥
1.3.34 · p. 32
अनुष्टुप्
अन्तरालं दिशोर्मध्यं चक्रवालं हि मण्डलम् ।विदिक् स्त्रियां दिशोर्मध्येऽपदिशं क्लीबमव्ययम् ॥ ३५ ॥
1.3.35 · p. 32
अनुष्टुप्