कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

प्रथमः काण्डः · पातालवर्गः

॥ इति नृत्यवर्गः समाप्तः ॥

॥ अथ पातालवर्गः प्रारभ्यते ॥

पाताल स्यादधोलोको बलिसद्म रसातलम् ।बिलं तु सुषिरं क्लीबं कुहरं विवरं स्मृतम् ॥ १ ॥
1.8.1 · p. 61
अनुष्टुप्
रोकं छिद्रं रन्ध्रमथ श्वभ्रे गर्ताऽऽवटावुभौ ।ध्वान्ते तमिस्रं तिमिरमन्धकारोऽस्त्रियां तथा ॥ २ ॥
1.8.2 · p. 61
अनुष्टुप्
अल्पे ध्वान्तेऽवतमसं घोरेऽन्धतमसं तथा ।सर्पस्तु भुजगो व्यालो द्विजिह्वोऽहिः सरीसृपः ॥ ३ ॥
1.8.3 · p. 61
अनुष्टुप्
चक्षुःश्रवा फणी काकोदरो भोगी भुजंगमः ।पन्नगः कुण्डली चक्री भुजंगः पवनाशनः ॥ ४ ॥
1.8.4 · p. 61
अनुष्टुप्
अशीविषो द्विरसनो लेलिहानश्च जिह्वगः ।विलेशयो दन्तशूको गूढपदुरगोऽपि च ॥ ५ ॥
1.8.5 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ढ (wrong syllable)
गोकर्णः कञ्चुकी कुम्भीनसो विषधरस्तथा ।काद्रवेयास्तु नागा स्युः शेषोऽनन्तस्तदीश्वरः ॥ ६ ॥
1.8.6 · p. 62
अनुष्टुप्
तिलित्सगोनसौ तूल्यौ सर्पराजस्तु वासुकिः ।अलगर्दो दराधरोऽजगरो वाहसः शयुः ॥ ७ ॥
1.8.7 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ध (wrong syllable)
स्याद्घोणो निर्विषः सर्पस्तुल्यौ घर्मणधावनौ ।राजीलो डुण्डुभो मालुधानो मातुलपन्नगः ॥ ८ ॥
1.8.8 · p. 62
अनुष्टुप्
शरीरमस्य भोगः स्याद् दंष्ट्रा त्वाशीः फणा स्फटा ।विषं तु गरलं क्ष्वेडो विषभेदा इमेऽस्त्रियाम् ॥ ९ ॥
1.8.9 · p. 63
अनुष्टुप्
हलाहलः कालकूटः काकोलश्च प्रदीपनः ।शौक्लिकेयो ब्रह्मपुत्रो वत्सनाभश्च दारदः ॥ १० ॥
1.8.10 · p. 63
अनुष्टुप्
कञ्चुकः स्यात्तु निर्मोक आहियं स्यात् त्रिलिङ्गकम् ।व्यालग्राही जाङ्गुलिको विषवैद्याऽऽहितुण्डकौ ॥ ११ ॥
1.8.11 · p. 63
अनुष्टुप्
नरको निरयः किञ्च नारको दुर्गतिः स्त्रियाम् ।तत्प्रभेदास्तु तपनो महारौरवरौरवौ ॥ १२ ॥
1.8.12 · p. 63
अनुष्टुप्
कालसूत्रं च सङ्घातोऽवीचिर्जीवास्तु नारकाः ।सिन्धुवैतरणी प्रेता यातना घोरवेदना ॥ १३ ॥
1.8.13 · p. 64
अनुष्टुप्
कष्टं प्रसूतिजं दुःखमाभीलं कृच्छ्रमित्यपि ।पीडाबाधा व्यथैतेषां त्रिषु ज्ञेयं विशेष्यगम् ॥ १४ ॥
1.8.14 · p. 64
अनुष्टुप्
घर्मावंशा तृतीया तु शैला तुर्य्याऽञ्जना क्रमात् ।रिष्टा षष्टी मघा माघवती नरकभूमयः ॥ १५ ॥
1.8.15 · p. 64
अनुष्टुप्