All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
तृतीयकाण्डम् · नानार्थाव्ययवर्गः
इति हान्ताः ।
धातुयोगजसीमाऽभिव्याप्तीषत्स्वाङ् सकृत्सहे ।एकवारेऽप्यङिद्वाक्यस्मृत्योरालङ्घनेऽप्यति ॥ २५७ ॥
3.3.257 · p. 345
अनुष्टुप्
हन्त हर्षे विशादे च वागारम्भाऽनुकम्पयोः ।इति प्रकरणे हेतु प्रकाशादिसमाप्तिषु ॥ २५८ ॥
3.3.258 · p. 345
अनुष्टुप्
तिर्यगर्थे तिरोऽन्तर्धौ प्रादुर्नामप्रकाशयोः ।अलं वारणपर्याप्तिशक्तिभूषणवाचकम् ॥ २५९ ॥
3.3.259 · p. 346
अनुष्टुप्
रहस्यापि मिथोऽन्योन्यमर्धे सामि जुगुप्सिते ।वाक्यालङ्कारजिज्ञासानिषेधाऽनुनयाः खलु ॥ २६० ॥
3.3.260 · p. 346
अनुष्टुप्
तर्केऽर्थनिश्चये नूनं किं पृच्छा वा जुगुप्सनम् ।विस्तारेऽङ्कृतौ चोरी चोररी चोररी किल ॥ २६१ ॥
3.3.261 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वि (syllables merged)
संभाव्यवार्तयोः कं स्यात्सुखे मूर्धनि वारिणि ।नामसंभाव्यक्रोधोपगमप्राकाश्यकुत्सने ॥ २६२ ॥
3.3.262 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्य (wrong syllable)
परे च लोके स्वर्गे स्वरभेदाऽप्रमथयोः पुनर् ।भेदेऽवधारणे तु स्यात् पापेषत्कुत्सनासु कु ॥ २६३ ॥
3.3.263 · p. 346
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वितर्कप्रश्नयोः स्वित् धिक् निन्दाभर्त्सनयोः उत ।विकल्पाऽप्यर्थयोः पश्चात् प्रतीच्यां चरमे वृथा ॥ २६४ ॥
3.3.264 · p. 347
अनुष्टुप्
निरर्थकेऽविधौ पश्चात् सादृश्येऽप्यनु निश्चये ।निःशेषे निर् विषादाऽर्तिशुक्षु हा वोपमादिषु ॥ २६५ ॥
3.3.265 · p. 347
अनुष्टुप्
शङ्कासमुच्चयप्रश्नगर्हासंभावनाः अपि ।अवधारणहेत्वोर्हि परिप्रश्नवितर्कयोः ॥ २६६ ॥
3.3.266 · p. 347
अनुष्टुप्
हुं प्रबन्धे च निकटेऽतीते वाऽऽगामिके पुरा ।पुरार्थे प्रथमे प्राच्यां पुरस्तादग्रतो बत ॥ २६७ ॥
3.3.267 · p. 347
अनुष्टुप्
खेदाऽनुग्रहसंतोषाऽनुकम्पाऽऽमन्त्रणे ननु ।प्रश्नेऽवधारणेऽनुज्ञाऽऽमन्त्रणाऽनुनयादिषु ॥ २६८ ॥
3.3.268 · p. 348
अनुष्टुप्
मङ्गलाऽनन्तरप्रश्नाऽऽरम्भकृत्स्नेष्वथो अथ ।यावत्तावच्च साकल्याऽवधिमानाऽवधारणम् ॥ २६९ ॥
3.3.269 · p. 348
अनुष्टुप्
नु पृच्छायां विकल्पे च नानाऽनेकोभयार्थयोः ।पुनः सहार्थता शश्वत् आराद्दूरसमीपयोः ॥ २७० ॥
3.3.270 · p. 348
अनुष्टुप्
आः कोपेऽपि च पीडायां साक्षात् तुल्यसमक्षयोः ।चाऽन्वाचयसमाहारेतरेतरसमुच्चये ॥ २७१ ॥
3.3.271 · p. 348
अनुष्टुप्
स्वस्त्याशीःक्षेमपुण्येषु जोषं तूष्णीं सुखार्थयोः ।लक्षणादौ च वीप्सायां तथा प्रतिविधौ प्रति ॥ २७२ ॥
3.3.272 · p. 349
अनुष्टुप्
अमा सह समीपेऽपि अहहाऽद्भुतखेदयोः ।शीघ्राऽभिमुखसाकल्यसमीपोभयतोऽभितः ॥ २७३ ॥
3.3.273 · p. 349
अनुष्टुप्
मध्येऽन्तिकेऽपि समया एवम् इत्थमिवार्थयोः ।
3.3.18 · p. 349