कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

तृतीयकाण्डम् · विशेषणवर्गः

॥ इति प्रकीर्णवर्गः समाप्तः ॥

॥ अथ विशेषणवर्गः प्रारभ्यते ॥

विशेष्ये यादृशे यादृक् स्याल्लिङ्गवचनादिकम् ।गुणद्रव्यक्रियारूपे तत्तादृक् तद्विशेषणे ॥ १ ॥
3.1.1 · p. 262
अनुष्टुप्
दानशौण्डौ वदान्यश्च दानशूरो बहुप्रदः ।निपुणो विज्ञनिष्णातप्रवीणाऽभिज्ञशिक्षिताः ॥ २ ॥
3.1.2 · p. 262
अनुष्टुप्
वैज्ञानिकः कृती किञ्च कुशलोऽथ परीक्षकः ।हैतुको हृदयालुस्तु यः स्यात्सुहृदयः पुमान् ॥ ३ ॥
3.1.3 · p. 262
अनुष्टुप्
उन्मना उत्क उत्कण्ठावाञ्जनोऽन्तर्मनास्तु यः ।दुर्मना विमना हृष्टचेता हर्षितमानसे ॥ ४ ॥
3.1.4 · p. 262
अनुष्टुप्
प्रमनाश्चाऽपि दुर्वाचि दुर्वक्ताऽपि च कद्वदः ।पुण्यवान् सुकृती धन्योऽथ महेच्छमहाशयौ ॥ ५ ॥
3.1.5 · p. 262
अनुष्टुप्
महोद्योगी महोत्साहे प्रतीक्ष्याऽऽपराध्य पूज्यकाः ।स्याज्जैवातृक आयुष्मान् शास्त्रज्ञः शास्त्रवित्समौ ॥ ६ ॥
3.1.6 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दक्षिण्यो दक्षिणार्हे स्याद्वरदो वरदायकः ।सुकलो दातृभोक्ता स्यात्सेवकोपासकौ समौ ॥ ७ ॥
3.1.7 · p. 263
अनुष्टुप्
सन्दिहानः सांशयिके सरलोदारदक्षिणाः ।विख्यातवित्तविज्ञातप्रतीतप्रथिताः समाः ॥ ८ ॥
3.1.8 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सां (wrong syllable)
स्याद्गुण्यो गुणसम्पन्नो निर्वार्यो दृढकार्यकृत् ।प्रसिताऽऽसक्ततल्लीनोत्सुकाऽऽविष्टास्तु तत्परे ॥ ९ ॥
3.1.9 · p. 263
अनुष्टुप्
कुटुम्बव्यापृतोऽभ्यागारिकोऽथ निरवग्रहः ।स्वैरी स्वतन्त्रः स्वच्छन्द इभ्याऽऽढ्यधनिनः समाः ॥ १० ॥
3.1.10 · p. 264
अनुष्टुप्
प्रभुः परिवृढो नेता नायकः पतिरीश्वरः ।अधिपस्वामिनौ चाऽथ समृद्धोऽत्यधिकर्द्धिकः ॥ ११ ॥
3.1.11 · p. 264
अनुष्टुप्
श्रीलः श्रीमांश्च लक्ष्मीवांल्लक्ष्मणश्चाऽथ वत्सलः ।स्निग्धो मूकस्त्ववाक् कार्मः कर्मशालिनि कर्मठे ॥ १२ ॥
3.1.12 · p. 264
अनुष्टुप्
कर्मशूरः कृपालुस्तु दयालुः सूरतस्तथा ।भवेत्कारुणिको यस्तु परतन्त्रः स नाथवान् ॥ १३ ॥
3.1.13 · p. 264
अनुष्टुप्
पराधीनश्च परवान् क्रियावांस्तु क्रियापरः ।आयत्ताऽधीननिघ्नाः स्युरस्वच्छन्दश्च गृह्यकः ॥ १४ ॥
3.1.14 · p. 265
अनुष्टुप्
क्षीबशौण्डोत्कटाः मत्ते गृध्नौ लुब्धोऽभिलाषुकः ।तृष्णक्यगर्धनो लिप्सु लेलुभो लोलुपः समौ ॥ १५ ॥
3.1.15 · p. 265
अनुष्टुप्
उन्मदिष्णून्मदौ तुल्यौ जिघत्सुरशनायितः ।बुभुक्षितोऽपि क्षुधित आघूनोऽदरिकावथ ॥ १६ ॥
3.1.16 · p. 265
अनुष्टुप्
परान्नः परपिण्डादभक्षकेऽद्मरघस्मरौ ।परलोकोऽस्ति नाऽस्तीति मतिमन्तौ क्रमादमू ॥ १७ ॥
3.1.17 · p. 265
अनुष्टुप्
आस्तिको नास्तिको दिष्टं मन्वानो दैष्टिको मतः ।दुर्विनीतोऽविनीतौ द्वौ सर्वान्नीनोऽखिलान्नभुक् ॥ १८ ॥
3.1.18 · p. 265
अनुष्टुप्
कर्मण्यं च भरण्यं च वेतनं कर्मकृन्नरः ।भुङ्क्ते कर्मकरोऽतः स्यात् कर्मकारस्तु तत्क्रियः ॥ १९ ॥
3.1.19 · p. 266
अनुष्टुप्
पिपर्त्यात्मम्भरिः कुक्षिम्भरिः स्वमुदरम्भरिः ।मृतस्नातस्त्वपस्नात आमिषाशिनि शौष्कलः ॥ २० ॥
3.1.20 · p. 266
अनुष्टुप्
कामुकः कमनः कम्रः कामनः कमिताऽभिकः ।कामयित्र्यनुकाऽभीका गोष्ठश्वो गृहनिन्दकः ॥ २१ ॥
3.1.21 · p. 266
अनुष्टुप्
बाधाशून्यो निराबाधो निष्कामस्तु निरामिषः ।निरीहो निरपेक्षः स्यान्निर्विकारे निरञ्जनः ॥ २२ ॥
3.1.22 · p. 266
अनुष्टुप्
कर्मक्षमोऽलङ्कर्मीणो जाल्मो यस्त्वसमीक्ष्यकृत् ।द्वयोर्बहुकरा किञ्च खलपूः खलशोधकः ॥ २३ ॥
3.1.23 · p. 266
अनुष्टुप्
चिरक्रियो दीर्घसूत्रो मन्दः कुण्ठः क्रियालसः ।अत्यन्तकोपनश्चण्डः क्रोधनः कोप्यमर्षणः ॥ २४ ॥
3.1.24 · p. 267
अनुष्टुप्
स्त्री दोहदिन्यां श्रद्धालुः श्रद्धायुक्तस्तु वाच्यवत् ।ईर्ष्यालुरीर्ष्यकस्तन्द्रायुक्तस्तन्द्रालुघूर्णितौ ॥ २५ ॥
3.1.25 · p. 267
अनुष्टुप्
समौ शयालुनिद्रालू जागरूकस्तु जागरी ।यदुन्नताऽऽनतं तत्तु बन्धुरं दीर्घमायते ॥ २६ ॥
3.1.26 · p. 267
अनुष्टुप्
प्रोच्छ्रितोदग्रप्रांशूच्चतुङ्गा निस्तलवर्तुले ।वृत्ते वामननीचन्यक्खर्वह्रस्वा अधोमुखे ॥ २७ ॥
3.1.27 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्र (wrong syllable)
आनताऽवनताऽवग्रा नेदीयोऽत्यन्तमन्तिके ।सवेशनिकटाऽभ्याशसमीपाऽऽसन्नपार्श्वकाः ॥ २८ ॥
3.1.28 · p. 268
अनुष्टुप्
संनिकृष्टसमर्यादसदेशसविधानि च ।संनिधानोपकण्ठे चाऽभ्यग्रोपान्तसनीडवत् ॥ २९ ॥
3.1.29 · p. 268
अनुष्टुप्
संनिकर्षाऽन्तिकाऽभ्यर्णाः संनिधिः सविधेऽभितः ।पुङ्गवर्षभशार्दूलसिंहव्याघ्रादिकुञ्जराः ॥ ३० ॥
3.1.30 · p. 268
अनुष्टुप्
नृपुङ्गवादयः शब्दाः पुंसि प्राशस्त्यवाचकाः ।परः शतादयो ये स्युस्ते संख्येयाः शतात्परे ॥ ३१ ॥
3.1.31 · p. 268
अनुष्टुप्
निबिडं तु घनं सान्द्रं विरले पेलवं तनु ।समौ विरक्तनिर्विण्णौ स्याद्विकासी विकस्वरः ॥ ३२ ॥
3.1.32 · p. 269
अनुष्टुप्
क्षमाशीलः क्षमिक्षान्तृसहिष्णुसहनाः समाः ।निद्राणः शयितः सुप्तः स्निग्धसान्द्रे तु मेदुरः ॥ ३३ ॥
3.1.33 · p. 269
अनुष्टुप्
क्षिप्नुर्निराकरिष्णुः स्यात्प्रसारी तु विसृत्वरः ।भविष्णुर्भविता भूष्णुर्विदुरज्ञातृबिन्दवः ॥ ३४ ॥
3.1.34 · p. 269
अनुष्टुप्
लज्जाशीलेऽपत्रपिष्णुर्वन्दारुर्वन्दकः समौ ।मण्डनोऽलङ्करिष्णुः स्याद् हिंसके हिंस्रघातुकौ ॥ ३५ ॥
3.1.35 · p. 269
अनुष्टुप्
उत्पतित्रुत्पतिष्णू द्वौ भ्राजिष्णुः सुषमाऽन्वितः ।रोचिष्णू रोचको विभ्राड् अविनीते समुद्धतः ॥ ३६ ॥
3.1.36 · p. 270
अनुष्टुप्
घृष्टघृष्णग्वियाताः स्युरधीरे त्रस्तकातरौ ।वश्यः प्रणेये प्रश्रितविनीतनिभृताः समाः ॥ ३७ ॥
3.1.37 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प्र (wrong syllable)
प्रगल्भः प्रतिभायुक्तो भीरुके भीरुभीलुकौ ।त्रस्नुर्विस्मयमापन्ने विलक्षो विस्मितो मतः ॥ ३८ ॥
3.1.38 · p. 270
अनुष्टुप्
लज्जिताऽधृष्टशालीना आशंसाऽऽशंसिनौ समौ ।तुल्यौ वाक्पतिवागीशौ वदवक्तृवदावदाः ॥ ३९ ॥
3.1.39 · p. 270
अनुष्टुप्
वावदूकोऽतिवक्ता स्याद् वाग्मी तूचितवाक्पटुः ।वाचाटः स्यात्तु जल्पाको वाचालो बहुगर्ह्यवाक् ॥ ४० ॥
3.1.40 · p. 271
अनुष्टुप्
यस्तु प्रियवदः शक्लः प्रियवादी स एव हि ।मुखरो दुर्मुखो गर्ह्यवादी दुर्वाक्यकद्वदः ॥ ४१ ॥
3.1.41 · p. 271
अनुष्टुप्
लोहलोऽस्फुटवाक् काकस्वरोऽसौम्यस्वरोऽस्वरः ।कुवादः कुचरस्तुल्यौ शब्दनो रवणः समौ ॥ ४२ ॥
3.1.42 · p. 271
अनुष्टुप्
आश्रवो विनयग्राही विधेयवचने स्थितौ ।अतिमूढो जडश्चाऽज्ञः पराचीने पराङ्मुखः ॥ ४३ ॥
3.1.43 · p. 271
अनुष्टुप्
एडमूकस्ववाक्कर्णस्तूष्णीको मौनमास्थितः ।प्रत्याख्यातो निरस्तोऽपि प्रत्यादिष्टो निराकृतः ॥ ४४ ॥
3.1.44 · p. 272
अनुष्टुप्
शठेऽनृजुर्विप्रलब्धे वञ्चितो नाटकादिषु ।भेर्यादिवादके नान्दीवादी नान्दीकरो मतः ॥ ४५ ॥
3.1.45 · p. 272
अनुष्टुप्
नग्नो दिगम्बरोऽवासा अपध्वस्ते तु धिक्कृतः ।व्यसनि न्युपरक्तः स्यात्समौ संकसुकाऽस्थिरौ ॥ ४६ ॥
3.1.46 · p. 272
अनुष्टुप्
निष्कासितेऽवकृष्टः स्याद् विवशाऽरिष्टदुर्मतिः ।व्यासक्तो व्याकुलो व्यग्रस्तुल्यौ विह्वलविक्लवौ ॥ ४७ ॥
3.1.47 · p. 272
अनुष्टुप्
क्षारिताऽऽक्षारितौ वाच्योऽभिशस्तोऽथ मनोहतः ।हतः प्रतिहतश्चैव प्रतिबद्धोऽमनोरथे ॥ ४८ ॥
3.1.48 · p. 273
अनुष्टुप्
दूष्यस्तिरस्करिण्यादिः कशार्हे कश्य इष्यते ।पिशुनो दुर्जनो वाऽपि खलो भेदक्रियापटुः ॥ ४९ ॥
3.1.49 · p. 273
अनुष्टुप्
गुप्तसंसूचनात्कर्णेजपः सूचक इत्युभौ ।हननीयः स्मृतो बध्ये धूर्ते व्यंसकवञ्चकौ ॥ ५० ॥
3.1.50 · p. 273
अनुष्टुप्
क्रूरे पापे नृशंसश्च चिकुरश्चलेऽपि च ।दरिद्रे दुर्गतो दीनो रङ्को निःस्वश्च दुर्विधः ॥ ५१ ॥
3.1.51 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रोच्यते कृपणे क्षुद्रः कदर्यस्तु मितंपचः ।मूर्खे मूढाऽज्ञवैधेययथाजाताश्च बालिशः ॥ ५२ ॥
3.1.52 · p. 273
अनुष्टुप्
अहंयुः स्यादहंकारी शुभंयुर्यः शुभाऽन्वितः ।स्वेदजा मत्कुणाद्याः स्युर्गोनराद्या जरायुजाः ॥ ५३ ॥
3.1.53 · p. 274
अनुष्टुप्
अण्डजाः पक्षिसर्पाद्या उद्भिजा वृक्षगुल्मकाः ।प्रतिश्रुतं परिज्ञातमूरीकृतमुरीकृतम् ॥ ५४ ॥
3.1.54 · p. 274
अनुष्टुप्
संगीर्णोपश्रुते चैव विदितं चोररीकृतम् ।संश्रुतोपगते अंगीकृतं चाऽपि समाहितम् ॥ ५५ ॥
3.1.55 · p. 274
अनुष्टुप्
आश्रुते रक्षिते त्राणत्रातगोपायिताऽविताः ।शोभनं मञ्जुलं मञ्जु मनोज्ञं चारु सुन्दरम् ॥ ५६ ॥
3.1.56 · p. 274
अनुष्टुप्
कान्तं मनोहरं साधु रुचिरं चाऽथ वल्लभम् ।अभीप्सितं प्रियं हृद्य अभीष्टमथ शोधितम् ॥ ५७ ॥
3.1.57 · p. 274
अनुष्टुप्
निःशोध्यं मृष्टनिर्णीक्ते अनवस्करमित्यपि ।मलीमसे स्यान्मलिनं मलदूषितकच्चरे ॥ ५८ ॥
3.1.58 · p. 275
अनुष्टुप्
पवित्रमेध्यपूतानि पावनं पुण्यमुज्ज्वले ।विमलाऽनाविले वीध्राऽवदातविशदानि च ॥ ५९ ॥
3.1.59 · p. 275
अनुष्टुप्
विशुद्धं शुचि शून्यन्तु रिक्तं तुच्छमथाऽधमः ।अवमश्च निकृष्टोऽपि गर्ह्ये निन्द्यश्च कुत्सितः ॥ ६० ॥
3.1.60 · p. 275
अनुष्टुप्
प्रमुखं च प्रधानं तु सदैकत्वे नपुंसकम् ।प्रवेक उत्तमो वर्यो वरेण्योऽनुत्तमोऽग्रियः ॥ ६१ ॥
3.1.61 · p. 275
अनुष्टुप्
परार्ध्याऽनवरार्ध्याग्राऽग्रीयप्राग्र्यऽग्र्यमुख्यवत् ।वरः प्राग्रहरश्चाऽपि प्रवहोऽथाऽतिशोभनः ॥ ६२ ॥
3.1.62 · p. 275
अनुष्टुप्
सत्तमः पुष्कलः श्रेयान् श्रेष्ठोऽसारं तु फल्गुनि ।विशङ्कटं विशालोरुविपुलानि बृहन्महत् ॥ ६३ ॥
3.1.63 · p. 276
अनुष्टुप्
पृथुलं पृथु वड्रं च पीनस्तु स्थूलपीवरौ ।स्तोकेऽल्पक्षुल्लसूक्ष्माणि दस्रं श्लक्ष्णं कृशं तनु ॥ ६४ ॥
3.1.64 · p. 276
अनुष्टुप्
त्रुटिर्मात्रा स्त्रियां पुंसि कणलेशलवाणवः ।अल्पीयोऽत्यल्पमल्पिष्ठं भूरि तु प्रचुरं बहु ॥ ६५ ॥
3.1.65 · p. 276
अनुष्टुप्
अदभ्रं बहुलं प्राज्यं भूरिष्ठं स्फारभूयसी ।स्फिरं पुरु प्रभूतं च पुरुहं चाऽखिले समम् ॥ ६६ ॥
3.1.66 · p. 276
अनुष्टुप्
समग्राऽखण्डकृत्स्नानि सकलाऽशेषविश्ववत् ।सर्वपूर्णसमस्ताऽनूननिःशेषाण्यथो नतम् ॥ ६७ ॥
3.1.67 · p. 276
अनुष्टुप्
वेल्लितं वक्रमाविद्धमाभुग्नं जिह्मकुञ्चिते ।ऊर्मिमत्कुटिलं भुग्नमशलेऽनश्वरे ध्रुवः ॥ ६८ ॥
3.1.68 · p. 277
अनुष्टुप्
नित्योऽपि शाश्वतश्चाऽपि सनातनसदातनौ ।किमसेचनकं तृप्तेर्नाऽस्त्यन्तो यस्य दर्शनात् ॥ ६९ ॥
3.1.69 · p. 277
अनुष्टुप्
चरस्त्रसश्चरिष्णुश्च जंगमेङ्गचराचरः ।कालव्यापी तु कूटस्थ एकरूपतया स्थितः ॥ ७० ॥
3.1.70 · p. 277
अनुष्टुप्
स्थेयान् स्थिरतरः स्थाष्णुर्दवीयस्त्वतिदूरके ।चलनं चञ्चलं लोलं चलं क्रमं चलाचलम् ॥ ७१ ॥
3.1.71 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
तरलं चटुलं पारिप्लवं चाऽपि परिप्लवम् ।न द्वयोः कम्पनं क्रमुकम्पयोर्मेदिनी त्रिषु ॥ ७२ ॥
3.1.72 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्र (wrong syllable)
संहते दृढसन्धिः स्याद् अवाग्रेऽवनताऽऽनतौ ।अतिरिक्तोऽधिके तु स्यात्तथा समधिकोऽपि च ॥ ७३ ॥
3.1.73 · p. 278
अनुष्टुप्
प्रौढेधितप्रवृद्धानि प्रतनस्तु पुरातनः ।चिरन्तनः पुराणश्च प्रत्न ऐन्द्रियकं तु यत् ॥ ७४ ॥
3.1.74 · p. 278
अनुष्टुप्
प्रत्यक्षमिन्द्रियैर्ज्ञातमप्रत्यक्षमतीन्द्रियम् ।मोघं निरर्थकं व्यर्थ स्पष्टे प्रव्यक्तमुल्बणम् ॥ ७५ ॥
3.1.75 · p. 278
अनुष्टुप्
स्फुटं साधारणं तु स्यात्सामान्यं च निरर्गलम् ।निर्बाधमसहायेऽर्थे एकाकी चैक एककः ॥ ७६ ॥
3.1.76 · p. 278
अनुष्टुप्
ग्रन्थिले ग्रन्थितं दृब्धं गुम्फितं संदितं तथा ।जघन्याऽन्ताऽन्त्यपाश्चात्याश्चरमः पश्चिमोऽस्त्रियाम् ॥ ७७ ॥
3.1.77 · p. 278
अनुष्टुप्
संकटं पुंसि संबाधो वपुः सव्यं तु वामकम् ।दक्षिणं त्वपसव्यं स्याद् विस्मृताऽन्तर्गते समे ॥ ७८ ॥
3.1.78 · p. 279
अनुष्टुप्
अन्योऽन्यतर एकस्त्व इतरस्त्वोऽन्यवाचिनि ।स्युर्वलयितसंवीतरुद्धान्यावृतवेष्टिते ॥ ७९ ॥
3.1.79 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
मुषितचोरिते विश्वकोष आहत्य मूषितम् ।निवृतं तु परिक्षिप्तं प्रवृद्धप्रसृते समे ॥ ८० ॥
3.1.80 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
अरुन्तुदं यन्मर्मस्पृग् विस्तृते विततं ततम् ।चलिते कम्पिताऽऽधूतधुतप्रेङ्खितवेल्लिताः ॥ ८१ ॥
3.1.81 · p. 279
अनुष्टुप्
द्रुताऽवदीर्णे न्यस्तं तु निसृष्टे गुणिताऽऽहते ।निदिग्धोपचिते घ्राते घ्राणमुद्गूर्ण उद्यतम् ॥ ८२ ॥
3.1.82 · p. 280
अनुष्टुप्
गुण्डितो रूषितो लिप्तो दिग्धे मीढं तु मूत्रितम् ।नुन्ननिष्ठ्यूतनुताऽस्तक्षिप्ताऽऽविद्धेरिता अथ ॥ ८३ ॥
3.1.83 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नु (wrong syllable)
शिक्यितं काचितं शिक्ये ह्रीतह्रीणौ तु लज्जिते ।निशितं तेजितं शातं क्ष्णुतेऽथ पूजितेऽञ्चितम् ॥ ८४ ॥
3.1.84 · p. 280
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
भवेद्याचितकं याञ्चा प्राप्ते प्रार्थितयाचिते ।प्राप्तेऽप्राप्तेऽर्दिते भिन्ने दीर्णदारितभेदिताः ॥ ८५ ॥
3.1.85 · p. 281
अनुष्टुप्
दग्धे प्लुष्टोषितप्रुष्टः समाप्तेऽवसितः सितम् ।ज्ञप्तं तु ज्ञपिते रुग्णं भुग्ने विद्धे तु वेधितम् ॥ ८६ ॥
3.1.86 · p. 281
अनुष्टुप्
छिद्रं निर्वाणमग्नौ च मुन्यादौ च तनूकृते ।तष्टस्त्वष्टोऽथ शमिते शान्तः संदानिते सितः ॥ ८७ ॥
3.1.87 · p. 281
अनुष्टुप्
मूतं मुद्दितबद्धे च सन्दितं स्यात्तिरोहितम् ।क्लीनेऽन्तर्हितं चापि निलीनं क्लिशिते पुनः ॥ ८८ ॥
3.1.88 · p. 281
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 क्ली (syllables merged)
क्लिष्टं क्वथितनिष्पक्वे स्वनितध्वनिते अथ ।विविधस्तु बहुविधनानारूपपृथग्विधाः ॥ ८९ ॥
3.1.89 · p. 282
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
पुष्टे स्यात्पुषितं संगूढे तु संकलितः स्मृतः ।मृगिताऽन्वेशिताऽन्विष्टमार्गितानि गवेषिते ॥ ९० ॥
3.1.90 · p. 282
अनुष्टुप्
पक्वं परिणते सोढे क्षान्तं पूर्णे तु पूरितम् ।दान्तः स्यात् शमिते हन्नगुने निष्कासिते गुदात् ॥ ९१ ॥
3.1.91 · p. 282
अनुष्टुप्
ध्वस्तभ्रष्टच्युतस्रस्तगलितस्कन्नपन्नकाः ।निन्दिते त्ववगीतं स्याद् वृक्णे कृत्तं छितं दितम् ॥ ९२ ॥
3.1.92 · p. 282
अनुष्टुप्
छिन्नं छातं लूनदाते संयोजित उपाहिते ।स्यूतमूतमुतं चेति तितयं तन्तुसंतते ॥ ९३ ॥
3.1.93 · p. 283
अनुष्टुप्
संतापिते तु सन्तप्तं दूनं धूपिततापिते ।विधुतत्यक्तहीनास्तु धूतोत्सृष्टसमुज्झिताः ॥ ९४ ॥
3.1.94 · p. 283
अनुष्टुप्
आख्याताऽभिहितोक्ताः स्युर्लपितोदितजल्पिताः ।भाषिते प्रतिपन्ने तु मानितं बुधितं तथा ॥ ९५ ॥
3.1.95 · p. 283
अनुष्टुप्
बुद्धं चाऽवसितज्ञातविदिताऽवगतानि च ।भुक्तेऽभ्यवहृतं जग्धमशितं भक्षितं तथा ॥ ९६ ॥
3.1.96 · p. 283
अनुष्टुप्
चर्वितं गिलितं लीढं खादितं ग्रस्तमित्यपि ।तृप्ते प्रमुदितः प्रीतो हृष्टस्तुष्टश्च हर्षितः ॥ ९७ ॥
3.1.97 · p. 284
अनुष्टुप्