All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · मानववर्गः (2/2)
उपधाने तूपबर्होच्छीर्षौ खट्वा तु खट्विका ।निवारशणसूत्राद्याः खट्वावेष्टनसाधने ॥ १२१ ॥
2.7.121 · p. 180
अनुष्टुप्
पल्यङ्कमञ्चपर्यङ्काः सनिवारे तमङ्गकः ।प्रदीपदीपौ सदृशौ विष्टरः पीठमासनम् ॥ १२२ ॥
2.7.122 · p. 181
अनुष्टुप्
पतद्ग्रहे प्रतिग्राहः सम्पुटे तु समुद्गकः ।या स्यात्कंकतिका सैव कंकती च प्रसाधनी ॥ १२३ ॥
2.7.123 · p. 181
अनुष्टुप्
सिक्थकं स्यान्मधूच्छिष्टं सिक्थिका तस्य वर्तिका ।दीपज्वालादीपशिखादीपार्चिस्तु नपुंसकम् ॥ १२४ ॥
2.7.124 · p. 181
अनुष्टुप्
दीपधानी स्त्रियां दीपाधारे दीपद्रुमः पुमान् ।दीपावली दीपमाला दीपालिर्दीपशृङ्खला ॥ १२५ ॥
2.7.125 · p. 181
अनुष्टुप्
व्यजनं स्यात्तालवृन्तं तुल्ये कज्जलकाजले ।समा अमी स्युर्मुकुरमुकुराऽऽदर्शदर्पणाः ॥ १२६ ॥
2.7.126 · p. 182
अनुष्टुप्
पुंसि दीपध्वजो दीपकीट्टं स्याद्दीपकज्जलम् ।
2.7.127 · p. 182