कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

द्वितीयकाण्डम् · वणिग्वर्गः

॥ इति राजन्यवर्गः समाप्तः ॥

॥ अथ वणिग्वर्गः प्रारभ्यते ॥

वणिग्विडर्यवैश्योरुजा वार्तैषान्तु जीविका ।पुंस्याजीवः स्त्रियां वृत्तिस्तथा जीवनवर्तने ॥ १ ॥
2.10.1 · p. 226
अनुष्टुप्
वृत्तिभेदास्तु वाणिज्यं कृषिः स्त्री पशुपालनम् ।कुसीदं न द्वयोरर्थप्रयोगे वृद्धिजीविका ॥ २ ॥
2.10.2 · p. 226
अनुष्टुप्
पुंस्युद्धार ऋणं सत्यानृतं तु क्रयविक्रयौ ।परिप्राप्तं व्यतीहाराद् यन्तदेवाऽऽपमित्यकम् ॥ ३ ॥
2.10.3 · p. 226
अनुष्टुप्
ऋणदातोत्तमर्णः स्यादधमर्णो ग्रहीतरि ।अथ वार्धुषिको वृद्ध्याजीवस्तद्वत्कुसीदिकः ॥ ४ ॥
2.10.4 · p. 226
अनुष्टुप्
कर्षकः कृषकः क्षेत्राजीवः क्षेत्री कृषीवलः ।स्यात्क्षेत्रं वप्रकेदारावस्त्री सेतुस्तु संवरः ॥ ५ ॥
2.10.5 · p. 227
अनुष्टुप्
आलिः पाल्यपि शाकस्य क्षत्रं स्यात् शाकशाकटम् ।शाकशाकीनमौमीनमुम्यं यव्यं यवक्यवत् ॥ ६ ॥
2.10.6 · p. 227
अनुष्टुप्
तैलीनमपि तिल्यं च माषीणं माष्यमुच्यते ।व्रैहेयं चापि शालेयं व्रीहिः शाली विवृद्धिमत् ॥ ७ ॥
2.10.7 · p. 227
अनुष्टुप्
मौद्गीनं भाङ्ग्यभाङ्गीने अणवीनमणोस्तथा ।अणव्यमथ षाष्ठिक्यं कौद्रवीणमनुक्रमात् ॥ ८ ॥
2.10.8 · p. 227
अनुष्टुप्
हल्यं सीत्यं च कृष्टं स्यात्क्षेत्रं कृष्टं यदेकधा ।शम्बाकृतं द्विहल्यं च द्विसीत्यं द्विगुणाकृतम् ॥ ९ ॥
2.10.9 · p. 228
अनुष्टुप्
त्रिहल्ये तु त्रिसीत्यं स्यात् त्रिगुणाकृतमित्यपि ।उप्त्वा कृष्टं भवेदुप्तकृष्टं बीजाकृतं तथा ॥ १० ॥
2.10.10 · p. 228
अनुष्टुप्
वापे द्रोणाऽऽढकादेः स्युर्द्रौणिकाऽऽढकिकादयः ।खारीवापोऽपि खारीकस्त्रिष्विमा अमृतादयः ॥ ११ ॥
2.10.11 · p. 228
अनुष्टुप्
स्युः कैदारिककैदार्ये क्षैत्रं कैदारकं गणे ।लोष्टोऽस्त्रियां पुमाल्लेष्टुः कुद्दालस्त्ववदारणम् ॥ १२ ॥
2.10.12 · p. 228
अनुष्टुप्
खनित्रमपि दात्रं तु लवित्रं तत्प्रभेदजम् ।लोष्टभेदनहेतुत्वात्कोटिशो लोष्टभेदनः ॥ १३ ॥
2.10.13 · p. 229
अनुष्टुप्
आबन्धो योक्त्रयोत्रे स्तस्तोत्रं प्राजनतोदने ।गोदारणं हलं सीरो लाङ्गलं हलपद्धतिः ॥ १४ ॥
2.10.14 · p. 229
अनुष्टुप्
सीता कृषिकफालौ तु निरीशं कुटकं फलम् ।हलयष्टिः स्त्रियामीशा हलीशा युगकीलकम् ॥ १५ ॥
2.10.15 · p. 229
अनुष्टुप्
शम्या मेधिः पुमान् दारु कणमर्दनभूः खलम् ।खलिनो च स्त्रियां खल्या खण्टः शङ्कुश्च कीलकम् ॥ १६ ॥
2.10.16 · p. 230
अनुष्टुप्
कुसूलोऽस्त्री स्त्रियां कोष्टी तुषभेदेऽवगुण्डितम् ।धान्यादिगुच्छे काण्डस्तु नाली स्त्री नालमित्यपि ॥ १७ ॥
2.10.17 · p. 230
अनुष्टुप्
अवचूर्णः पलालः स्याद्धान्यकाण्डेऽतिनिष्फले ।धान्यत्वचि बुसं क्लीबे तुषः पुंसि कडङ्गरः ॥ १८ ॥
2.10.18 · p. 230
अनुष्टुप्
सस्यस्य शूकं किंशारुर्मञ्जर्यां कणिशोऽस्त्रियाम् ।स्तम्बो गुच्छस्तृणादीनां शमीशिम्बे स्त्रियामुभे ॥ १९ ॥
2.10.19 · p. 230
अनुष्टुप्
मर्दितं निस्तृणं धान्यमृद्धमावसितं स्मृतम् ।राशीकृतं तु पूतं स्यात् तदेव बहुलीकृतम् ॥ २० ॥
2.10.20 · p. 231
अनुष्टुप्
पदार्थः पुंसि वस्तु स्यात् क्लीबे उरव्यं तु पैठरम् ।सम्मृष्टगोधिते तुल्या मसृणस्निग्धचिक्कणाः ॥ २१ ॥
2.10.21 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुसंस्कृतः प्रयस्तोऽथ समे विजिलपिच्छिले ।तूल्यौ प्रणीतसम्पन्नौ त्रिपूरव्याद्यास्त्रयोदश ॥ २२ ॥
2.10.22 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बल्लवाऽऽभीरगोपाला गोपोऽथ वृषभो वृषः ।बलीवर्दर्षभो क्षाणा अनड्वांसोऽथ गौर्द्वयोः ॥ २३ ॥
2.10.23 · p. 232
अनुष्टुप्
माहेयी सौरभेय्युस्राऽर्जुन्युध्न्या सुरभिर्गवि ।योत्तमा नैचिकी भेदाः शबलीधवलादिकाः ॥ २४ ॥
2.10.24 · p. 232
अनुष्टुप्
धेनूनां धैनुकं गव्या गोत्रा च स्त्री गवीगणः ।गोरसो दुग्धदध्यादिः समे गोकुलगोधने ॥ २५ ॥
2.10.25 · p. 232
अनुष्टुप्
तदाशितं गवीनं गौः पूर्वं यत्राऽऽशिता त्रिषु ।वत्सानां वात्सकं तद्वदुक्ष्णामौक्षकमित्यपि ॥ २६ ॥
2.10.26 · p. 232
अनुष्टुप्
जरद्गवः स्याद्वृद्धोक्षो महोक्षस्तु महावृषः ।जातोक्षस्तरुणः सद्योजाते तु तर्णकः स्मृतः ॥ २७ ॥
2.10.27 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
वत्सः शकृत्करिर्बाल्ये दम्यवत्सतरौ ततः ।आर्षभः स्पृष्टतारुण्ये इष्टवरः षण्डगोपती ॥ २८ ॥
2.10.28 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ष्टव (syllable split)
गोस्कन्धः स्याद्वहः सास्ना स्त्रियां ना गलकम्बलः ।प्रासङ्ग्या शाकटा युग्या युगादीनान्तु वोढरि ॥ २९ ॥
2.10.29 · p. 233
अनुष्टुप्
एवं हलादिवोढारो हालिकाद्या विदेलिमाः ।धुरिणो धूर्वहो धूर्यो धौरेयश्च धुरन्धरः ॥ ३० ॥
2.10.30 · p. 233
अनुष्टुप्
नस्योतो नस्यितः स्यूतनासिको ये तु केवलम् ।वोढारः शकटस्यैकधुरीणैकधुरौ समौ ॥ ३१ ॥
2.10.31 · p. 234
अनुष्टुप्
समासमीना सा गौर्या वर्षे वर्षे प्रसूयते ।एकहायनवत्सायाः संज्ञा वष्कयिणी गवी ॥ ३२ ॥
2.10.32 · p. 234
अनुष्टुप्
नव प्रसूता धेनुः स्यात्सुखदोह्या तु सुव्रता ।सुकरा गौरचण्डी स्याद्बह्वपत्या परेष्टुका ॥ ३३ ॥
2.10.33 · p. 234
अनुष्टुप्
गृष्टिः सकृत्प्रसूतायां वशा वन्ध्या नगर्भभाक् ।धेनुष्या पीतदुग्धा या संस्थिता दुग्धबन्धके ॥ ३४ ॥
2.10.34 · p. 234
अनुष्टुप्
क्लीबे द्वे ऊध आपीने रज्जुः सन्दानदामनी ।दोरं तु दोरकं दोघ दोग्धारो दोहकर्मकृत् ॥ ३५ ॥
2.10.35 · p. 235
अनुष्टुप्
मन्थास्तु मन्थमन्थानवैशाखाः खञ्जकस्तथा ।दधिमन्थानपात्रन्तु गर्गरी मन्थनी मता ॥ ३६ ॥
2.10.36 · p. 235
अनुष्टुप्
मेषैडकोरणोरभ्रोर्णायुर्मेढ्राऽविवृष्णयः ।वस्ताऽजच्छागलस्तभा छागी त्वजा स्त्रियाम् ॥ ३७ ॥
2.10.37 · p. 235
अनुष्टुप्metre not read in every line
गडेरगड्डुरौ पाले चाले मेषस्य गड्डुलिः[रिः] ।शशोर्णं शशलोमानि ऊर्णायुर्मेषकम्बलः ॥ ३८ ॥
2.10.38 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चिरमेही च वालेयखररासभगर्दभाः ।चक्रीवान् शङ्कुकर्णोऽपि तथा वैशाखनन्दनः ॥ ३९ ॥
2.10.39 · p. 236
अनुष्टुप्
उष्ट्रक्रमेलकौ तुल्यौ करभस्त्वस्य बालकः ।नैगमो वाणिजः सार्थवाही वैदेहको वणिक् ॥ ४० ॥
2.10.40 · p. 236
अनुष्टुप्
क्रयविक्रयिकः पण्याजीव आपणिकस्तथा ।वस्तु गृह्णाति मूल्येन क्रयिकः क्रायिकः क्रयी ॥ ४१ ॥
2.10.41 · p. 236
अनुष्टुप्
विक्रीणीते स विक्रेता तथा विक्रयिकः स्मृतः ।वणिज्या चाऽपि वाणिज्यं वणिजां कर्म कीर्त्यते ॥ ४२ ॥
2.10.42 · p. 236
अनुष्टुप्
मूल्येऽर्घोऽवक्रयो वस्नः फलं लाभोऽधिकं तु यत् ।क्लीबे मूलधनं नीवी स्त्रियाः परिपणः पुमान् ॥ ४३ ॥
2.10.43 · p. 237
अनुष्टुप्
पुंस्याधिर्बन्धकं भाटो भाटकः पण आपणः ।उपधिर्न्यासनिक्षेपौ प्रतिदानं तदर्पणम् ॥ ४४ ॥
2.10.44 · p. 237
अनुष्टुप्
परिवर्तपरावर्तनैमेयनिमया अपि ।विनिमयव्यतीहारौ परिदानेऽन्यवस्तुनः ॥ ४५ ॥
2.10.45 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
क्रय्यं स्यादापणद्रव्यं पण्यं विक्रेयवस्तुनि ।क्रेयं क्रेतव्यमात्रेऽपि पणिकाऽऽपणिकौ समौ ॥ ४६ ॥
2.10.46 · p. 237
अनुष्टुप्
सत्यङ्कारः स्त्रियां सत्या-कृतिः सत्यापनं तथा ।धारशोधर्णशोधौ च त्रिषु द्वावृणिधारिणौ ॥ ४७ ॥
2.10.47 · p. 238
अनुष्टुप्
ऋणं धारोऽथ निष्कोऽस्त्री स्वर्णमुद्राऽथ टङ्कटः ।रूप्यं च कार्षिकः कार्षापणः स्यात्ताम्रिकः पणः ॥ ४८ ॥
2.10.48 · p. 238
अनुष्टुप्
वराटिका कपर्दी स्याद् विंशतिः सा तु काकिणी ।तुर्यांशः कुडवः पादोऽथार्धप्रस्थोऽर्द्धशेटकः ॥ ४९ ॥
2.10.49 · p. 238
अनुष्टुप्
समौ स्तः शेटकः प्रस्थो द्विशेटि तु द्विशेटिका ।आढको भाजनं कंसः पात्रं सार्द्धद्विशेटिका ॥ ५० ॥
2.10.50 · p. 238
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
दशशेटी घटी पञ्चप्रस्थी स्यात्प्रञ्चशेटिका ।दशशेटी भवेद्द्रोणः स्त्रियां खारी मणः पुमान् ॥ ५१ ॥
2.10.51 · p. 239
अनुष्टुप्
वाहो द्वादश खारी स्याद् वण्टकर्यां पृषाकरा ।अक्षकर्षौ तु तोलायामक्षः षोडशमाषकः ॥ ५२ ॥
2.10.52 · p. 239
अनुष्टुप्
गुञ्जानामष्टकं माषो मानार्थे क्रम आदृतः ।स्वापतेयवसुद्रव्यरिक्थर्क्थद्रविणानि च ॥ ५३ ॥
2.10.53 · p. 239
अनुष्टुप्
हिरण्यद्युम्नवित्तानि रा अर्थ विभवा वपि ।एको दश शतं तद्वत् सहस्रमयुतं तथा ॥ ५४ ॥
2.10.54 · p. 239
अनुष्टुप्
लक्षं च प्रयुतं कोटिरर्बुदं चाऽब्जमेव च ।खर्वो निखर्वः पद्मोऽपि शङ्कुश्च सागरस्ततः ॥ ५५ ॥
2.10.55 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
अन्त्यं मध्यं परार्धं च संख्या दशगुणोत्तराः ।संख्या संख्येययो विंशत्याद्या एकत्ववाचिनः ॥ ५६ ॥
2.10.56 · p. 240
अनुष्टुप्
संख्यायते चेत्संख्यैव द्वित्वाद्यपि तदा भवेत् ।
2.10.57 · p. 240