कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

तृतीयकाण्डम्

॥ इत्यन्त्यवर्णवर्गः समाप्तः ॥

॥ इति द्वितीयः काण्डः समाप्तः ॥

॥ श्रीः ॥

॥ अथ तृतीयकाण्डम् ॥

॥ अथ प्रकीर्णवर्गः प्रारभ्यते ॥

प्रकीर्णवर्गे लिङ्गोहः प्रकृतिप्रत्ययादिभिः ।संचयोऽपचयो तुल्यौ संक्षयाऽपचयो क्षये ॥ १ ॥
3.1 · p. 253
अनुष्टुप्
निष्ठीवने तु थूत्कार उदजः पशुचालनम् ।विरामोपशमौ तुल्यौ वान्तिस्तु वमनं वमिः ॥ २ ॥
3.2 · p. 253
अनुष्टुप्
छर्द्युद्गाराऽऽविधस्तु स्याद् वेधनी भृङ्गसूचिका ।स्तम्बघ्नस्तु क्षुरपे स्यात्प्रत्याख्यानं निराकृतौ ॥ ३ ॥
3.3 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
विपर्ययविपर्यासौ व्यत्यासव्यत्ययावपि ।प्रतिशासनमाहूय दूतादिप्रेषणे स्वतः ॥ ४ ॥
3.4 · p. 254
अनुष्टुप्
परिरम्भपरिष्वङ्गाऽऽश्लेषाआलिङ्गनार्थकाः ।दर्शनं त्वीक्षणं वीक्षा निर्वर्णनमुदीक्षणम् ॥ ५ ॥
3.5 · p. 254
अनुष्टुप्
समौ प्रारम्भः आरम्भस्त्वरायां वेगसंभ्रमौ ।प्रतिबन्धोऽन्तरायः स्यात्समालेपे विलेपनम् ॥ ६ ॥
3.6 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्भः (wrong syllable)
प्रतिज्ञायां च वचने स्थित आस्रव इष्यते ।सामीप्ये सन्निधिः पुंसि धान्यादिवपनः पवे ॥ ७ ॥
3.7 · p. 254
अनुष्टुप्
अभिप्रायाऽऽशयच्छन्दाः प्रस्तावेऽवसरः स्मृतः ।विग्रहे व्यासविस्तारौ विस्तरः शब्दविग्रहः ॥ ८ ॥
3.8 · p. 255
अनुष्टुप्
प्रसरो वस्तुविस्तारे संवाहस्त्वङ्गमर्दने ।धीशक्तिर्निष्क्रमः सूत्रवेष्टने त्रसरः स्मृतः ॥ ९ ॥
3.9 · p. 255
अनुष्टुप्
प्रणयप्रश्रयौ प्रेम्णि प्रजनोपसरौ समौ ।समौ समाससंक्षेपौ आस्या स्यादासना स्थितौ ॥ १० ॥
3.10 · p. 255
अनुष्टुप्
नीवाको धनधान्यादेः प्रयामेऽर्थक्षतौ व्ययः ।संक्रमो दुर्गसंचारोऽवेक्षा स्त्री वस्त्ववेक्षणे ॥ ११ ॥
3.11 · p. 256
अनुष्टुप्
विरहे विप्रलम्भः स्याद् विप्रयोगोऽपि रागिणः ।विधुरं स्यात्प्रविश्लेषे परिसर्पे परिक्रिया ॥ १२ ॥
3.12 · p. 256
अनुष्टुप्
प्रक्रमः प्रथमारम्भ उन्नतौ तु समुन्नयः ।मेलायां मेलको मेलः सम्मेलः सङ्गसंगमौ ॥ १३ ॥
3.13 · p. 256
अनुष्टुप्
भूरिदाने विलम्भः स्याद् विख्यातिस्त्वतिविश्रुतिः ।उद्घनः परिकाष्ठं च यत्राऽऽधायाऽऽशु तक्ष्यते ॥ १४ ॥
3.14 · p. 256
अनुष्टुप्
परिसर्या परीसारे उपघ्नस्त्वन्तिकाश्रये ।उपभोगे तु निर्वेशो मदहर्षो प्रमोदने ॥ १५ ॥
3.15 · p. 257
अनुष्टुप्
अभिचारस्तु हिंसादिक्रिया सन्धिस्तु मेलनम् ।समुच्चये समाहारोऽपहारोऽपहृतौ मतः ॥ १६ ॥
3.16 · p. 257
अनुष्टुप्
पादचारे विहारः स्यात् प्रवाहो जलनिर्गमे ।अनुहारेऽनुकारः स्यात् स्यान्निरोधस्तु निग्रहः ॥ १७ ॥
3.17 · p. 257
अनुष्टुप्
विप्लवो डमरो डिम्बो बन्धने बन्ध इत्यपि ।विप्रकारो निकारे स्याद् आधारे विषयाऽऽश्रयौ ॥ १८ ॥
3.18 · p. 257
अनुष्टुप्
वृतौ वरो हवो हूतौ, निगादः परिभाषणे ।अनुग्रहोऽनुकम्पायामभियोगस्त्वभिग्रहे ॥ १९ ॥
3.19 · p. 258
अनुष्टुप्
परिणामः फले श्रायः श्रयणे जयने जयः ।इङ्गिते त्विङ्ग आकारो विकारो विक्रियार्थकः ॥ २० ॥
3.20 · p. 258
अनुष्टुप्
प्रसूतौ प्रसवो दान्तौ दमः शान्तौ शमस्तथा ।उत्कर्षाऽतिशयौ तुल्यौ क्लमो ग्लानौ स्नवः स्तवे ॥ २१ ॥
3.21 · p. 258
अनुष्टुप्
परस्परं मिथोऽन्योऽन्यमितरेतरमित्यपि ।घृतादीनां द्रवीभावे आधारो द्रव इत्युभौ ॥ २२ ॥
3.22 · p. 259
अनुष्टुप्
न्यायो नीतौ भ्रमो भ्रान्तौ व्यधो वेधे रणः क्वणे ।न्याय्यं न्यायपथोपेते प्लोषो दाहे वरः पतिः ॥ २३ ॥
3.23 · p. 259
अनुष्टुप्
परम्परोपदेशे स्यादाम्नायो ग्रहणे ग्रहः ।स्फुरणा स्फुरणं स्फूर्तौ यदृच्छास्वैरिते समे ॥ २४ ॥
3.24 · p. 259
अनुष्टुप्
स्फातिर्वृद्धौ क्षिया ह्रासे जागर्याजागरे समे ।प्रथा ख्यातौ प्रमा सम्यग्ज्ञाने प्रमिति रित्यपि ॥ २५ ॥
3.25 · p. 259
अनुष्टुप्
तर्पणं प्रीणनं तुल्ये कम्पनं तु विधूननम् ।व्याप्तौ सम्मूर्छनं छेदे वर्द्धनं गदने गदः ॥ २६ ॥
3.26 · p. 260
अनुष्टुप्
शुभकर्माऽवदाते स्तः कार्मणं मूलकर्मणि ।शष्कुल्यादिसमूहे स्यादेकैकं वक्ष्यमाणकम् ॥ २७ ॥
3.27 · p. 260
अनुष्टुप्
क्रमाच्छाष्कुलिकं पृष्ठ्यं ब्राह्मण्यं शाक्तुकं तथा ।आपूपिकञ्च साहस्रं भैक्ष्यं कारीष्यधैनुके ॥ २८ ॥
3.28 · p. 260
अनुष्टुप्
काकं मानुष्यकं बाकं स्त्रैणं पौस्नं च यौवतम् ।पाश्या सहायता खल्या हल्यैवं जनतादिकम् ॥ २९ ॥
3.29 · p. 260
अनुष्टुप्
एवमन्येपि संकीर्णाः शब्दा बोध्या यथामति ।
3.30 · p. 261