All kośas › Śivakoṣa
शिवकोष Śivakoṣa
1,536 verses · text only, tagging comes next
द्वितीयकाण्डम् · मेरुवर्गः
॥ इति नगरवर्गः समाप्तः ॥
॥ अथ मेरुवर्गः प्रारभ्यते ॥
मेरुर्हिमालयो विन्ध्यो निषदो माल्यवानपि ।वैताढ्यादय इत्येवं विशिष्टा भूध्रभूधरौ ॥ १ ॥
2.3.1 · p. 91
अनुष्टुप्
पर्वतः शिखरी शैलो महीध्रोऽद्रिर्गिरिर्नगः ।शिलोच्चयोऽचलः क्ष्माभृद्भूभृच्च सानुमानिति ॥ २ ॥
2.3.2 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च्च (wrong syllable)
पाषाणोऽश्मोपलो ग्रावा प्रस्तरः स्त्री शिला दृषत् ।शृङ्गं तु शिखरं कूटोऽस्त्री प्रपातोऽतटो भृगुः ॥ ३ ॥
2.3.3 · p. 91
अनुष्टुप्
नितम्बे कटकोऽद्रे स्यात् प्रस्थः स्नुः सानुरस्त्रियाम्गुहायां गह्वरः किञ्च कन्दरः कन्दरा दरी ॥ ४ ॥
2.3.4 · p. 92
अनुष्टुप्
स्थूलो पलो गण्डशैलो यश्च्युतः पर्वताद्भूवि ।आकरः स्त्री खनिः खानिः पादः प्रत्यन्तपर्वते ॥ ५ ॥
2.3.5 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्भू (wrong syllable)
लताऽऽद्याऽऽच्छादितस्थानं निकुञ्जः कुञ्ज इत्युभौ ।अधित्यकोर्ध्वभूरद्रेरासन्ना भूरुपत्यका ॥ ६ ॥
2.3.6 · p. 92
अनुष्टुप्
झरोत्सनिर्झरा वारिप्रवाहो गैरिकादयः ।धातवो गिरिसम्भूताः सन्ति तेऽन्यत्र विस्तराः ॥ ७ ॥
2.3.7 · p. 92
अनुष्टुप्