कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

1,536 verses · text only, tagging comes next

तृतीयकाण्डम् · नानावर्गः (3/3)

भावश्चेष्टादिके गौरीकेरवे तु शिवा भवः ।हरो जन्म च नीवी तु स्त्रीकटीवस्त्रबन्धने ॥ २२७ ॥
3.2.227 · p. 337
अनुष्टुप्
तथा परिपणे मूलद्रव्ये पारशवस्तु यः ।द्विजात् शूद्रासुते शस्त्रे द्वन्द्वं युग्मविवादयोः ॥ २२८ ॥
3.2.228 · p. 338
अनुष्टुप्
व्यवसायाऽसुद्रव्येषु सत्त्वं जन्तुषु न स्त्रियाम् ।ज्ञात्यात्मनोः स्व आत्मीये त्रिष्वस्त्री तु धनेष्वथ ॥ २२९ ॥
3.2.229 · p. 338
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सु (wrong syllable)
उत्पादे प्रसवो गर्भमोचने फलपुष्पयोः ।अनुर्भावः प्रभावेऽपि निश्चये भावसूचके ॥ २३० ॥
3.2.230 · p. 338
अनुष्टुप्
स्यात्स्थानं प्रभवो जन्महेतुराद्योपलब्धये ।निह्नवोऽपह्नवेऽविश्वासेऽपि ना निकृतावपि ॥ २३१ ॥
3.2.231 · p. 338
अनुष्टुप्

॥ इति वान्ताः ॥

शिश्वज्ञौ बालिशो राशीपुञ्जमेषौ कुशं जले ।आशादिक्तृष्णयोर्वंशः कुले वा मस्करे रहः ॥ २३२ ॥
3.2.232 · p. 339
अनुष्टुप्
प्रकाशेऽपि च वीकाशः कठोरादौ तु कर्कशः ।निर्वेशो भोगभृत्योश्च कीनाशः क्षुद्रकर्षयोः ॥ २३३ ॥
3.2.233 · p. 339
अनुष्टुप्
कृतान्ते यदि पुंस्येव स्थितिवर्त्त्यादयो दशाः ।ज्ञाने ज्ञातरि दृग्वैश्यमनुजौ तु विशौ स्पशः ॥ २३४ ॥
3.2.234 · p. 339
अनुष्टुप्
संपरायचरौ ख्याते प्रकाशः स्फुट आतपे ।अपदेशो निमित्ते स्यात् पदे लक्ष्ये वशा स्त्रियाम् ॥ २३५ ॥
3.2.235 · p. 339
अनुष्टुप्
करिण्यपि ---------------------------
3.2.250 · p. 340
अनुष्टुप्

इति शान्ताः ।

------------------सुरे मत्स्येऽजिमिषो विषमप्सु च ।आकर्षः शारिफलके द्यूतेऽक्षेऽप्यथ किल्विषम् ॥ २३६ ॥
3.2.236 · p. 340
अनुष्टुप्
अपराधेऽपि पक्षस्तु सहायेऽथात्ममानवौ ।पुरुषोऽधिकृतेऽध्यक्षः प्रत्यक्षेऽप्यथ वीरुधि ॥ २३७ ॥
3.2.237 · p. 340
अनुष्टुप्
कक्षस्तृणेऽपि काको मत्स्यात्खगो ध्वांक्ष इष्यते ।भारतादावब्दवृष्टयोर्वर्षमस्त्र्यथ पौरुषम् ॥ २३८ ॥
3.2.238 · p. 340
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुंभावे तत्क्रियायां च भिक्षा सेवार्थना भृती ।वृषभे सुकृते श्रेष्ठे मूषिके शुक्रले वृषः ॥ २३९ ॥
3.2.239 · p. 340
अनुष्टुप्
कलिद्रौ व्यवहारोऽक्षो द्यूताङ्गचक्रकर्षयोः ।क्लीबं स्यादिन्द्रिये प्रेक्षा प्रज्ञा नृत्येक्षणे अथ ॥ २४० ॥
3.2.240 · p. 341
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
कुड्मलार्थाघदिव्येषु कोषोऽस्त्री खड्गगोपने ।कर्षूर्वार्ताकरीषाग्न्योर्ना कुल्या मात्रकेऽस्त्रियाम् ॥ २४१ ॥
3.2.241 · p. 341
अनुष्टुप्
मर्दने प्रेषणे प्रैषस्त्विट् शोभारश्मिप्रग्रहौ ।अभीषु सामिषं तु स्यादुपादानेऽस्त्रियामथ ॥ २४२ ॥
3.2.242 · p. 341
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्मि (wrong syllable)
निःस्नेहाऽमसृणा रुक्षः शिरोवेष्टकिरीटयोः ।उष्णीषं स्यान्निष्कृटेऽपि कार्त्स्न्ये न्यक्षो--------
3.2.258 · p. 341
अनुष्टुप्

इति षान्ताः ।

---------------------------------विभावसुः ॥ २४३ ॥
3.2.243 · p. 342
अनुष्टुप्
सूर्येऽग्नौ स्याद्धिताशंसाऽहिदंष्ट्राऽऽशी दिवौकशः ।सारङ्गा लालसौत्सुक्यप्रार्थने वर्षतर्णकौ ॥ २४४ ॥
3.2.244 · p. 342
अनुष्टुप्
वत्सो वसु धने रत्ने नाऽनले रश्मिदेवयोः ।बाढसाध्वोऽस्तु साधीयान् ज्यायो वृद्धप्रशस्ययोः ॥ २४५ ॥
3.2.245 · p. 342
अनुष्टुप्
पयोऽम्बुक्षीरयोस्तेजः शुक्रदीप्तिबलादिषु ।पद्याऽभिलाषयोश्छन्दस्तपःकृच्छ्रादिकर्म यत् ॥ २४६ ॥
3.2.246 · p. 342
अनुष्टुप्
वरीया नूरुवरयोः कनीयांस्तु युवाऽल्पयोः ।भद्योतदृष्टिषु ज्योतिः खं नभः श्रावणे नभाः ॥ २४७ ॥
3.2.247 · p. 342
अनुष्टुप्
वयः खगेऽपि बाल्यादौ वेधा विष्णौ च रोदसी ।रोदस्यौ चाऽपि भूद्यावौ प्रसूरश्वाऽप्यथो रजः ॥ २४८ ॥
3.2.248 · p. 343
अनुष्टुप्
स्त्रीपुष्पे च गुणे वर्चो रूपे तेजःपुरीषयोः ।विदन् विद्वान्निम्नगाया वेगे स्रोतस्तथेन्द्रिये ॥ २४९ ॥
3.2.249 · p. 343
अनुष्टुप्
तमो राहौ गुणे ध्वान्ते सहा मार्गः सहो बले ।अर्चिर्मयुखं शिखयोर्नना चौर्यादिकर्मणि ॥ २५० ॥
3.2.250 · p. 343
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 यु (wrong syllable)
हिंसा हिंस्रेऽपि बीभत्स ओजो दीप्तौ बले महः ।तेज उत्सवयोरोकः ओकाः सद्माऽऽश्रयो रसः ॥ २५१ ॥
3.2.251 · p. 344
अनुष्टुप्
शृङ्गारादौ द्रवे वीर्ये गुणरागविषेष्वपि ।पापाऽपराधावागः स्यात्कर्णपूरे च शेखरे ॥ २५२ ॥
3.2.252 · p. 344
अनुष्टुप्
उत्तंसश्चाऽवतंसश्च हंसः श्वेतच्छदो रविः ।
3.2.269 · p. 344
अनुष्टुप्

इति सान्ता ।

निर्यूहो द्वार आपीडे निर्यासे नागदन्तके ॥ २५३ ॥
3.2.253 · p. 344
अनुष्टुप्
दारा गृहा गृहं वृत्रेऽप्यहिर्बर्हदले ग्रहाः ।निर्बन्धाऽर्कोपरागाद्या नृपार्हेऽर्थे परिग्रहे ॥ २५४ ॥
3.2.254 · p. 344
अनुष्टुप्
परिबर्हस्तुलासूत्रसप्तिरश्म्योश्च प्रग्रहः ।तमोपहोऽर्कश्चन्द्राऽग्नी व्यूहो वृन्दे परिग्रहः ॥ २५५ ॥
3.2.255 · p. 345
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable)
शापमूलपरीवारराहुवक्त्रस्थभास्कराः ।आरोहस्त्ववरोहेऽपि नानार्था अव्यया इतः ॥ २५६ ॥
3.2.256 · p. 345
अनुष्टुप्