कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फेरव

pheravaपुं · masc.

In 13 kośas: 12 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1290 · p. 49
सृगालो जम्बुकः फेरुः फेरण्डः फेरवः शिवा ॥ १२८९ ॥घोरवाशी भूरिमायो गोमायुर्मृगधूर्तकः ।हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः ॥ १२९० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.5
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.229 · p. 28
गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा ।फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.13 · p. 319
शृगालो वञ्चकः क्रोष्टा सृगालो मृगधूर्त्तकः ।गोमायुर्भूरिमायः स्यात्फेरवो घोरवासनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 190
पिण्डारो महिषीपालः शृगालस्तु सृगालवत् ।क्रोष्टु-जम्बुक-जम्बूक-कृश्व-फेरव-फेरवः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.195 · p. 76
शृगालो घोरवासी च गोमायुः शिवफेरघौ ।फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.164 · p. 18
शाखामृगो मर्कटश्च वनौका वानरः कपिः ।शृगालो जम्बुकः क्रोष्टा फेरुगोमायुफेरवः ॥ १६४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2330 · p. 377
शृगालश्च सृगालो वै शकुनावेदनी शिवः ।फेरण्डः फेरवः फेरुः जम्बूकः जम्बुकः पुनः ॥ २३३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.12 · p. 82
सृगालोऽपि शृगालः स्यात् फेरुजम्बुकधूर्तकाः ।जम्बूकः फेरवः क्रोष्टा वञ्चको मृगधूर्तकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.322 · p. 244
भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् ।गोमायौ फेरु-फेरुण्डौ फेरवो भूरिमायवत् ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.697 · p. 89
शिवा स्त्री जम्बुकक्रोष्टुफेरुफेरण्डफेरवाः ।गोमायुर्वञ्चको भीरुभूरिमायशृगलकाः ॥ ६९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ग (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.38 · p. 68
शयालुः सूचको घोरः फेरुफेरुण्डफेरवाः ।मृगधूर्तो भूरिमायो गोमायुर्वृकधूर्तकः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.19 · p. 361
स्यात्केशवः[78b]केशवति त्रिलिङ्गो-ऽथो कैतवं द्यूत इहच्छले च ।स्यात्फेरवः क्रोष्टरि रक्तपे चस्याद्रौरवो भीषणनारकार्थः ॥ १९ ॥
इन्द्रवज्राmetre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.44 · p. 203
फेरवो राक्षसे फेरौ स्वर्गलोके फलोदयः ।
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.33 · p. 287
अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् ।फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥माधवो यादवे विष्णौ मधुवैशाखयोरपि ।माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः ।राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे ।वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)

फेरव as a meaning in nānārtha verses