कीश
kīśaपुं · masc.In 13 kośas: 10 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderपुंmasc.
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
अनुष्टुप्
genderपुंmasc.
बलीमुखो मर्कटको वनौकाः,प्लवङ्गमः स्यात्प्लवगः प्लवङ्गः ।हरिः कपिः कीश इमे च शब्दाः,शाखामृगो वानर इत्यभिन्नाः ॥ २३१ ॥
उपजातिः
genderपुंmasc.
मृगमत्तः स्वभीरुः स्याज्जम्बुको ग्रन्धिलोऽपि च ।वानरो मर्कटः कीशः कुरङ्गो भल्लुकोलिगुः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः ।हरिः किखिः कपिः शोणो दधिर्वनगृहार्थकः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वाराहकं वराहेण निर्वृत्तेष्वथ वानरः ।कपिः कीशो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
शाखामृगः कपिः कीशः प्लवङ्गः प्लवगः पुनः ।प्लवङ्गमः प्रवङ्गश्च बलिमुखो बलीमुखः ॥ २३३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
genderपुंmasc.
कीशो नगाटनो झम्पी झम्पारुः स्यात् कलिप्रियः ।भल्लूकभल्लभालूकभल्लुका भालुकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
नाहलोऽप्यथ कस्तूरी राजार्हं शितिचन्दनम् ।वनौका मर्कटः कीशो वानरः प्लवगः कपिः ॥ ६९५ ॥
अनुष्टुप्
genderपुंmasc.
किखिः स्त्री क्रोष्टुभेदेऽल्पे पृथौ लोपाशगृण्डिवौ ।वानरो मर्कटः कीशः कपिः शाखामृगो हरिः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कीश as a meaning in nānārtha verses
- धरणिकोश तारतारोऽत्युच्चध्वनितरणयोः कीशमुक्ताविशुद्ध्यो- स्तारो रूप्ये स्फुरितकिरणे निर्मले तारमाहुः । तारा ऋक्षे नयनकनिका बुद्धदेव्यां च तारा तारा प्रोक्ता धिषणवनिता चापि सुग्रीवपत्नी ॥ Dharaṇikośa 26.3.24
- कोषकल्पतरु कुषाकुमोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौ निर्मोक आद्ये चरकस्तु चारे । मुनौ कुषाकुस्तु कृशानुभानु- कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥ Koṣakalpataru 6.1.1
- शब्दरत्नावली मर्कटमर्कटो लूतिके कीशे स्त्रियां शिखिकरञ्जयोः । मोचाट स्यान्मलयजे रम्भास्थिकृष्णाजीरके ॥ मोरटं स्यादिक्षुमूले तथाङ्कोठप्रसूनके । सप्तरात्रात्परक्षीरे भूर्विकायाञ्च मोरटा ॥ Śabdaratnāvalī 7.11.51
- शब्दरत्नाकर कपिक्लृप्तौ कल्पद्रुमे न्याये कल्पः कीशे गजे कपिः । कश्यस्त्रिषु कशाताड्ये कश्यं मद्याश्वमध्ययोः ॥ १८९१ ॥ Śabdaratnākara 4.1.1891