कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवधारण

avadhāraṇaक्ली · neut.

In 9 kośas: 1 synonym verse, 39 as a meaning of another word.

वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.40 · p. 34
विकल्पना पृथक्क्रियावधारणान्यनिह्नुतिः ।समस्या तु समासः स्यात् संक्षेपः स्यादविस्तरः ॥ ४० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.

अवधारण as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् मात्रक्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥ Amarakośa 3.3.178
  • नामलिङ्गानुशासनम् तुस्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे । Amarakośa 3.3.472
  • नामलिङ्गानुशासनम् यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४७ ॥ Amarakośa 3.3.247
  • नामलिङ्गानुशासनम् ननुप्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४९ ॥ Amarakośa 3.3.249
  • नामलिङ्गानुशासनम् हिअहहेत्यद्भुते खेदे हि हेताववधारणे । Amarakośa 3.3.502
  • हलायुधकोशः (अभिधानरत्नमाला) तुप्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति । हि स्याद्विशेषणे हेतौ तु स्याद्भेदेऽवधारणे ॥ ८८१ ॥ Abhidhānaratnamālā (Halāyudha) 5.881
  • हलायुधकोशः (अभिधानरत्नमाला) ननुअनेकार्थे भवेन्नाना ननु प्रश्नेऽवधारणे । आकस्मिकार्थे सहसा तत्काले च निगद्यते ॥ ८८४ ॥ Abhidhānaratnamālā (Halāyudha) 5.884
  • धरणिकोश मात्रमात्रा कर्णविभूषायां धने माने परिच्छदे । अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥ Dharaṇikośa 26.3.9
  • धरणिकोश तुतु पादपूरणे मेदे समुच्चयेऽवधारणे । अस्तु स्यादभ्यनुज्ञाने ईर्ष्यापी[111]डार्थयोरपि ॥ Dharaṇikośa 34.7.3
  • धरणिकोश यावत्यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ Dharaṇikośa 34.7.6
  • धरणिकोश ननुननु प्रश्नेऽप्यनुनये चानुज्ञानेऽवधारणे । नाना तु वर्जने प्रोक्तं नानानेकोभयार्थयोः ॥ Dharaṇikośa 34.11.2
  • धरणिकोश वावशब्द उपमाने स्याद्वरुणे च त्वनव्ययम् । वा समुच्चयोपमयोर्वा विकल्पेऽवधारणे ॥ Dharaṇikośa 34.13.1
  • धरणिकोश एवम्अलं भूषणपर्याप्तिवारणेषु स्मृत[मलम्] । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ Dharaṇikośa 34.15.4
  • धरणिकोश एवदिवाहनि प्रभाते स्यादेवौपम्येऽवधारणे । Dharaṇikośa 34.18.1
  • कोषकल्पतरु यावत्यावत्तावत्सीम्नि माने साकल्ये चावधारणे । वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥ Koṣakalpataru 5.1.90
  • नानार्थार्णवसंक्षेप मात्रह्रस्ववर्णप्रयोगस्य काले पारे तु कश्चन । स्यात् तूत्तरपदे क्लीबं मात्रं कार्त्स्न्येऽवधारणे ॥ ९८० ॥ Nānārthārṇavasaṃkṣepa 2.5.980
  • नानार्थार्णवसंक्षेप केवलज्ञाने तु पूर्णे क्लीबं स्यात् केचिदन्येऽवधारणे । निर्णीते त्वपरेऽथ स्यात् क्षेत्रज्ञो निपुणे त्रिषु ॥ ५७९ ॥ Nānārthārṇavasaṃkṣepa 4.579
  • शब्दरत्नावली मात्रस्वल्पवर्णान्तयोः स्त्री तु मात्रं कार्त्स्न्येऽवधारणे । मारः स्मरे विघ्नमृत्योर्मारिः स्त्री मृतिवर्षयोः ॥ Śabdaratnāvalī 7.27.29
  • शब्दरत्नावली उत्प्रेक्षाउत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि । कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे ॥ कलुषं चाविले पापे किल्विषन्तु रुगागयोः । कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके ॥ गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे । प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् ॥ गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ । गोरक्षके नागरङ्गे पिच भवेत्पुमान् । जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥ Śabdaratnāvalī 7.31.19
  • शब्दरत्नावली हिही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे । Śabdaratnāvalī 7.33.2
  • शब्दरत्नावली चचात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे ॥ किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि ॥ दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते ॥ ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ Śabdaratnāvalī 8.1.18
  • शब्दरत्नावली तुतु पादपूरणे भेदे समुच्चयेऽवधारणे ॥ Śabdaratnāvalī 8.1.22
  • शब्दरत्नावली यावत्यावत्तावत्प्रशंसायां साकल्ये चावधारणे ॥ Śabdaratnāvalī 8.1.29
  • शब्दरत्नावली एवम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली एवविज्ञाने स्यात्परिभवे पालनेऽपि निगद्यते । एवोपमा नियोगावधारणे वाक्यपूरणे ॥ Śabdaratnāvalī 8.1.57
  • शब्दरत्नाकर मात्रअंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ Śabdaratnākara 4.1.1980
  • शब्दरत्नाकर तुतुर्भेदावधारणयोर्दुरशोभनदुःखयोः । धिग्भर्त्सने कुत्सने च नि न्यग्भावनिषेधयोः ॥ २२५३ ॥ Śabdaratnākara 5.1.2253
  • शब्दरत्नाकर हिंसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ Śabdaratnākara 5.1.2256
  • शब्दरत्नाकर ननुप्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २२७० ॥ Śabdaratnākara 5.2.2270
  • शब्दरत्नाकर पुनर्प्रबन्धे निकटेऽतीते पुराणानागते पुरा । पुनरप्रथमे पश्ने व्यावृत्ताववधारणे ॥ २२७१ ॥ Śabdaratnākara 5.2.2271
  • शब्दरत्नाकर यावत्यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । वृथा निष्कारणे वन्ध्ये शश्वद्भूयः सदेति च ॥ २२७६ ॥ Śabdaratnākara 5.2.2276
  • तन्त्राभिधान हिहः कोपे धारणेऽपि स्यात् हः शूलिनि समीरितः । हिः पद्यपूरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३७ ॥ Tantrābhidhāna 3.37
  • वैजयन्ती मात्रअक्षरावयवे माने मात्रं कार्त्स्न्येऽवधारणे । मध्यं युक्तेंऽतराले च महद्राज्यविशालयोः ॥ ६३ ॥ Vaijayantī 6.5.63
  • वैजयन्ती तुचान्वाचये समाहारे मिथोयोगे समुच्चये । तु भेदावधारणयोर्दुरशोभनदुःखयोः ॥ ४ ॥ Vaijayantī 8.7.4
  • वैजयन्ती हिहिं स्याद्विशेषणे हेतौ हि हेताववधारणे । आमन्त्रणे भर्त्सने हुं हूं संप्रश्नवितर्कयोः ॥ ९ ॥ Vaijayantī 8.7.9
  • वैजयन्ती एवउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नविकल्पयोः । समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे ॥ १८ ॥ Vaijayantī 8.7.18
  • वैजयन्ती ननुतर्कनिश्चितयोर्नूनं नानानेकोभयार्थयोः । प्रश्नावधारणैतिह्यसमीहानुमते ननु ॥ २२ ॥ Vaijayantī 8.7.22
  • वैजयन्ती पुनर्पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे । प्रतिदाने प्रतिनिधौ तुल्ये मात्राभिमुख्ययोः ॥ २४ ॥ Vaijayantī 8.7.24
  • वैजयन्ती यावत्यावत्तावच्च साकल्यमानावध्यवधारणे । वृथा निष्कारणाविध्योः शश्वद्भूः सदेति च ॥ २८ ॥ Vaijayantī 8.7.28