कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवाग्र

avāgraवि · adj.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.107 · p. 55
ऋजावजिह्मप्रगुणाववाग्रेऽवनतानते ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.70
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.127 · p. 228
स्यादुच्चैरुच्चकैर्नीचैर्नीचकैर्न्यक् च नीचकः ।वामनो ह्रस्वखर्वौ चावागग्रेऽवनतानते ॥ १२७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.84 · p. 20
अधोमुखमवाग्रं स्यादुभे चावनतानतम् ।विशङ्कटं विशालं स्याद्विकटं पृथुलं पृथु ॥ ८४ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.695 · p. 117
अवाग्रं चाप्यवनतमरालं मण्डलीकृतम् ।भग्नं च वेल्लितं भुग्नमाविद्धं कुटिलं तथा ॥ ६९५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2647 · p. 427
अवाग्रमाऽऽनतञ्चैवमऽवगतमऽधोमुखम् ॥ २६४७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.25 · p. 165
वामने ह्रस्वखर्वन्यङ्नीचा नीचैस्तथाव्ययम् ।आनते स्यादवाग्रन्तु भवेदवनतोऽपि च ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1636 · p. 197
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.