प्रांशु
prāṃśuवि · adj.In 14 kośas: 13 synonym verses, 2 as a meaning of another word.
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् ।अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥
अनुष्टुप्
genderविadj.
विषमोन्नतं स्थपुटं बन्धुरं तून्नताननम् ।उच्चे प्रांशून्नतं तुङ्गमुदग्रमपि वाच्यवत् ॥ १२६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
अनुष्टुप्
genderविadj.
निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ।दीर्घं प्रांशु विशालं च बहुलं पृथुलं पृथु ॥ १८३ ॥
अनुष्टुप्
genderविadj.
अथोच्छ्रायोत्सेधा ------नगाद्यारोह एव हि ।उद्धुरं चोन्नते तुङ्गमुच्चं प्रांशूच्छ्रिते समे ॥ ३१८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
अतिदूरे दवीयश्च दवीयानपि च क्वचित् ।उन्नते प्रांशुभिन्नोच्चोदग्रोच्छ्रोच्छ्रितबन्धुराः ॥ ६९३ ॥
अनुष्टुप्
genderविadj.
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderविadj.
उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा ।उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
स्वभावादुन्नतं कार्यवशान्नतञ्च बन्धुरम् ।उच्चे तुङ्गोन्नतप्रांशूच्छ्रितोदग्रास्तथोच्चकैः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
genderविadj.
उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् ।उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥
अनुष्टुप्
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
अनुष्टुप्
genderविadj.
प्रांशु as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप द्राङ्गहितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽथ सत्वरे । द्राङ्गं प्रांशौ च दीप्तं तु स्याद्दग्धे भासितेऽपि च ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 2.4.11
- नानार्थार्णवसंक्षेप तुङ्गतुङ्गस्तु पुंसि पुन्नागद्रुमे प्रांशौ तु स त्रिषु । स्त्रियां तु तुङ्गा स्याद्वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.548