कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पृथु

pṛthuपुं · masc.

In 22 kośas: 48 synonym verses, 9 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.700 · p. 29
आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ ७०० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र अग्निकायः Abhidhānacintāmaṇipariśiṣṭa 4.3.168 · p. 6
अग्नौ वमिर्दीप्रः समन्तभुक् ॥ १६६ ॥पर्परीकः पविर्घासिः पृथुर्घघरिराशिरः ।जुहुराणः पृदाकुश्च जुषाकुर्हवनो हविः ॥ १६७ ॥घृतार्चिर्नाचिकेतश्च प्रेष्ठो वञ्चतिरञ्चतिः ।भुजिर्भरथपीथौ च स्वनिः पवनवाहनः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.64
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.40
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.60
विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.699 · p. 81
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
आर्या
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.238 · p. 87
कलम्बू वायसी वासा निद्रालुः खरनामकः ।शोषः केशफला घण्टा पृथौ कोशातकीति च ॥ २३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.24 · p. 91
सुहृन्मित्रमपि क्लीबे सख्यं साप्तपदीनकम् ।आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.196 · p. 154
पृथ्वी स्थूलकणा चापि मनोज्ञा पृथुरित्यथ ।मेथिनी दीपनी मेथी बहुपत्रा च बेधिनी ॥ १९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.198 · p. 154
पृथ्वीका कवरी हिङ्गुपत्री चापि तथा पृथुः ।दार्वीपत्नी दारुपत्नी विल्की वाष्प्यथ रामढम् ॥ १९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.114 · p. 226
विशंकटं पृथु महद्विशाला च विसंकटा ।स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥ ११४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.115 · p. 227
विसंकटो विशालो द्वे वद्रं वड्रं बृहत्पृथु ।पीनं तु पीवरं पीवा बहूरु विपुलं पुनः ॥ ११५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.184 · p. 234
ह्रसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः ।पीवरोऽभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥ १८४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 183
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.10 · p. 245
शलाकापुरुषा भूपाः पृथुः स्यादादिभूपतिः ।वैन्यश्चाप्यथ मान्धाता युवनाश्वसुतो मतः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.84 · p. 20
अधोमुखमवाग्रं स्यादुभे चावनतानतम् ।विशङ्कटं विशालं स्याद्विकटं पृथुलं पृथु ॥ ८४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.29 · p. 97
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.266 · p. 145
हिङ्गुपत्र्यां पृथुः पृथ्वी दीर्घिका वारिपत्रिका ।जतुका रामठी वंशपत्री पिण्डा शिवाटिका ॥ २६६ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.337 · p. 182
जीरके तु कणाऽजाजी जरणः कणजीरकः ।कृष्णेऽस्मिन् कारवी पृथ्वी सुगन्धा सुषवी पृथुः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.83 · p. 18
श्वभीरुः सृगालो भेरुः क्रोष्टा च मृगमत्तकः ।मर्कटः स्यान्महावेगः कुरङ्गो भल्लुकः पृथुः ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 183 · p. 87
निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ।दीर्घं प्रांशु विशालं च बहुलं पृथुलं पृथु ॥ १८३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.331 · p. 142
आदिराजः पृथुः प्रोक्तो हरिश्चन्द्रस्त्रिशङ्कुजः ।कुवलाश्वो धुन्धुमार ऐलबौधौ पुरूरवाः ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.7 · p. 2
ऊर्ध्वं लेखगमानन्दमनन्तं सर्वगं पृथु ।पुष्करं दुष्करं निष्कं नभः खं नभसं नभम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.11 · p. 26
राजमार्गे तु नल्वः स्यात्पृथु संसरणं तथा ।निष्कुरं नीष्कुरं च स्यादुपनिष्कुरमित्यपि ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.455 · p. 84
जीरके जीरणो जीर अ(आ?)जाजी वाथ कृष्णके ।सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिके ॥ ४५५ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.459 · p. 84
सहस्रवेदी(दि?) जतुकं रामठं हिङ्गुरिष्यते ।हिङ्गुवृक्षत्वचि दले बाष्पिका पृथुरित्यपि ॥ ४५९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.689 · p. 116
विस्तीर्णे विकटं व्यूढं विकरालं च विस्तृतम् ।विशङ्कटं विशालं च वद्रं स्थूलं बृहत्पृथु ॥ ६८९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.19 · p. 124
पृथवः पृथुदेहाश्च मन्दाः संचारवर्जिताः ।जन्तुसर्वस्वगिरकाः खण्डकाश्च सजीविनः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.94 · p. 43
बृहद्विशालं विस्तीर्णं महच्च विपुलं पृथु ।कठोरः कठिनो रूक्षो निष्ठुरः कर्कशः खरः ॥ ९४ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1137 · p. 177
आदिराजः पृथुर्वैन्यो मान्धाता युवनाश्वजः ॥ ११३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1921 · p. 315
तनूनपात् तमोघ्नश्च कृपीटयोनिरञ्चतिः ।उषर्बुधः पृथुः पुष्टः वीतिहोत्रश्च वञ्चतिः ॥ १९२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2601 · p. 419
उरु गुरु बहु स्फारं पृथु च पृथुलं पुनः ।एतन्नामानि मन्यन्ते विशालस्य बुधैः सदा ॥ २६०१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.140 · p. 120
आदिराजः पृथुर्वैण्यः काकुस्थः स्यात् पुरञ्जयः ।यौवनाश्वस्तु मान्धाता कट्वङ्गः स्याद्दिलीपकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.76 · p. 142
कृष्णजीरे तु मुशवी मुषवी पृथुका पृथुः ।कारवी पृथिवी काला पृथ्वी स्यादुपकुञ्चिका ॥आर्द्रकं शृङ्गवेरं स्यात् शृङ्गवेरार्द्रकञ्च तत् ।धन्याकं धान्यकं धान्यं धनिकञ्च धनीयकम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.82 · p. 143
गृहिणी मघुरासूपधूपनं जतुकं जतु ।त्वक् पत्री त्वक् च तत्पत्री कवरी कर्वरी पृथुः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.12 · p. 164
अप्राग्र्यं न द्वयोरेते अप्रधानोपसर्जने ।बृहद्विशालपृथुलं महत् पृथुविशङ्कटकम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.60 · p. 193
जीरणो जरणः कणः जीरकः कृष्णजीरके ।सुषवी दन्त्यमूर्धन्यतालवयान्तर्गता पृथुः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable); pāda 4, syllable 2 लव (syllable split)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.225 · p. 236
बाष्पीका पृथु-पृथ्व्यौ च स्यान्मयूरशिखोऽप्यसौ ।मयूरो लोचतः ख्यातो मस्तको मर्कटोऽपि च ॥ २२५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.34 · p. 252
पृथुलं पृथु विपुलं पुलं वद्रं च वड्रवत् ।वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पृ (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1452 · p. 176
सहस्रवेधि जतुकं बाह्लीकं शूकधूपनम् ।बाष्पिका कबरी पृथ्वी तत्पत्री कारवी पृथुः ॥ १४५२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1596 · p. 192
तरललोलचलाचलचञ्चलप्रचलकम्पनकम्प्रचलानि च ।विकटपीनविशंकटपीवराः पृथुविशालबृहत्पृथुलोरवः ॥ १५९६ ॥
द्रुतविलम्बितम्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1835 · p. 223
अर्जुनः कार्तवीर्यः स्यात् पृथुर्वैन्य उभौ समौ ।निषधस्तु नलोऽथ स्याज्जनको मिथिलाधिपः ॥ १८३५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.2 · p. 61
स्कन्धावारस्तु कटकः शिबिरं तु बलस्थितिः ।आदिराजः पृथुर्वैन्यः काकुत्स्थस्तु पुरञ्जयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.40 · p. 68
महावेगो दधिमुखः कुरंगो भल्लुकः पृथुः ।वलीमुखो वनौकास्स गोलांगूलोऽसिताननः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.85 · p. 130
कृष्णे तु जीरके पृथ्वी पृथुः कालोपकुंचिका ।सुषवी कारवी फारी पृथ्विका पृथुशालिका ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.132 · p. 134
पत्रेऽस्य करवी बाष्पी पृथ्विका कारवी पृथुः ।तिन्तृणीके तु वृक्षाम्लं चुक्रं शुक्ती रुचिः स्त्रियाम् ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.80 · p. 207
विशालमुरु विस्तीर्णं विपुलं पृथुलं पृथु ।स्फारं भद्रं बृहद्व्यूढमुदूढं बहुलं बहु ॥ ८० ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास थार्धश्लोकः Dharaṇikośa 16.2.3 · p. 90
पृथुरादिनृपे प्रोक्तः कृष्णजीरे महत्यपि ।ग्रन्थिर्व्याघिविशेषः स्याद्ग्रन्थिः कौटिल्यपर्वणोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.95 · p. 230
नील्यां स्त्र्यथ स्याद्द्रवनिष्पवायांक्वाथो विपाके व्यसने च दुःखे ।पृथुस्तु वैश्वानरराजभेद-त्वक्पत्रिका मेचकजीरके ना ।त्रय्यां महत्येष हुताशने तुतुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥
इन्द्रवज्राtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.811 · p. 112
पृथुः पुंस्यादिराजन्यभेदे वैन्य इति श्रुते ।अन्यत्रापि क्वचित् पक्ष्ये वासुदेवस्य राजनि ॥ ८११ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.812 · p. 112
राज्ञस्त्रिशङ्कुसंज्ञस्य जनकेऽप्यनरण्यजे ।विस्तीर्णे तु त्रि तत्रापि पृथुः पृथ्वीति वा स्त्रियाम् ॥ ८१२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.813 · p. 112
स्त्री तु पृथ्वी पृथिव्यां स्यादुभयं कृष्णजरिके ।पृथुः पृथ्वी च बाष्पाख्यभेषजे पृथुरेव सा ॥ ८१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ज (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.814 · p. 112
मर्कटे तु द्वयोः क्ली तु पृषत् पुण्ड्रे तु (?) विप्रुषि ।तथा दध्युपसिक्ताज्ये पशुगात्रस्थबिन्दुषु ॥ ८१४ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.291 · p. 199
पीलुः काण्डे तरौ पुष्पे परमाणौ मतङ्गजे ।पृथुर्भूपे विशाले च पुरं मन्दिरदेहयोः ॥ २९१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र थद्विः Śivakoṣa 13.1.215 · p. 20
पृथुः स्त्रियां च त्वक्पत्रीकारवीकृष्णजीरके ।सिक्थो भक्तपुलाके स्यान्मधूच्छिष्टे तु न द्वयोः ॥ २१५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.4 · p. 227
पीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् ।पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु ॥त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् ।प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 जि (wrong syllable)

पृथु as a meaning in nānārtha verses

  • कोषकल्पतरु गुरुगुरुर्निषेकादिकरे * ताता- दिके सुराणामपि मन्त्रिणि स्यात् । विशेष्यवद्दुर्जरकेऽलघिष्ठे पृथौ रुरुर्दैत्यविशेषरङ्क्वोः ॥ ६५ ॥ Koṣakalpataru 6.27.65
  • कोषकल्पतरु मन्थरमञ्जरीवाचकस्तु स्त्रियां सम्मतो मन्थरः सूचके कोशमन्थानयोः । स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौ तादृशः सम्मतो वक्रमन्दाह्वये ॥ २८ ॥ Koṣakalpataru 6.27.28
  • कोषकल्पतरु विपुलअगाधपृथ्वोः परवत्तुमुलस्तु कलिद्रुमे । स्याद्युद्धसंकुले क्लीबे बहुलः कृष्णपक्षके ॥ ७ ॥ Koṣakalpataru 6.28.7
  • कोषकल्पतरु विशालतमालमस्त्री वरुणद्रुमे स्या- त्तापिच्छवृक्षे तिलके कृपाणे । विशाल उर्वीपतिवृक्षभेदे पृथौ स्त्रियां नाथ भवेद्गवाक्ष्याम् ॥ ३८ ॥ Koṣakalpataru 6.28.38
  • कोषकल्पतरु पृथ्वीभूमौ पृथौ मे[78a]चकजीरके च स्याद्बाष्पिकायामवनौ महत्याम् । उर्वी भवेत्स्यन्दनभेदके तु लघ्वी तथा ह्रस्वविवक्षितेऽपि ॥ १३ ॥ Koṣakalpataru 6.29.13
  • नानार्थार्णवसंक्षेप मन्थरवन्यसंज्ञे तुरुष्काख्यनिर्यासे चाथ मन्थरम् । मन्दे वक्रे पृथौ च त्रि सूचके मन्दगामिनि ॥ १३४७ ॥ Nānārthārṇavasaṃkṣepa 4.1347
  • शब्दरत्नावली मन्थरमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95
  • वैजयन्ती विकटपृथौ कराले विकटो विसृतं विगते तते । वदान्यो वल्गुवाग्दात्रोर्वरीयान् सत्तमेऽत्युरौ ॥ २६ ॥ Vaijayantī 7.4.26