उदग्र
udagraवि · adj.In 13 kośas: 13 synonym verses.
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् ।अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥
अनुष्टुप्
genderविadj.
अनुदारोऽप्युदारः स्यादनुदग्र उदग्रवत् ।वादान्यः स्याद्वदान्योऽपि मार्षो मारिष उच्यते ॥ २५८ ॥
अनुष्टुप्
genderविadj.
विषमोन्नतं स्थपुटं बन्धुरं तून्नताननम् ।उच्चे प्रांशून्नतं तुङ्गमुदग्रमपि वाच्यवत् ॥ १२६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
अनुष्टुप्
genderविadj.
उदग्रमथ नीचैव मन्थरं कुब्जवामने ।खर्वं ह्रस्वं पृथौ व्यूढं विशालं पृथुलं पुनः ॥ ३१९ ॥
अनुष्टुप्
genderविadj.
अतिदूरे दवीयश्च दवीयानपि च क्वचित् ।उन्नते प्रांशुभिन्नोच्चोदग्रोच्छ्रोच्छ्रितबन्धुराः ॥ ६९३ ॥
अनुष्टुप्
genderविadj.
उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा ।उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
स्वभावादुन्नतं कार्यवशान्नतञ्च बन्धुरम् ।उच्चे तुङ्गोन्नतप्रांशूच्छ्रितोदग्रास्तथोच्चकैः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
genderविadj.
अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गकौ ।उदग्रमनुदग्रं च, खर्वे न्यग्नीचवद् ,गुरौ ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्पी (wrong syllable)
genderविadj.
उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् ।उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥
अनुष्टुप्
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
अनुष्टुप्
genderविadj.