कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उच्च

uccaवि · adj.

In 11 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.70
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.751 · p. 86
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् ।अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.81 · p. 20
करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् ।उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 158 · p. 76
उच्चैरुच्चावचं तुङ्गमुच्चमुन्नतमुच्छ्रितम् ।नीचं न्यगातनं कुब्जं नीचैर्ह्रस्वं नयेत्परम् ॥ १५८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.318 · p. 91
अथोच्छ्रायोत्सेधा ------नगाद्यारोह एव हि ।उद्धुरं चोन्नते तुङ्गमुच्चं प्रांशूच्छ्रिते समे ॥ ३१८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.693 · p. 117
अतिदूरे दवीयश्च दवीयानपि च क्वचित् ।उन्नते प्रांशुभिन्नोच्चोदग्रोच्छ्रोच्छ्रितबन्धुराः ॥ ६९३ ॥
अनुष्टुप्
genderविadj.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.92 · p. 43
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2598 · p. 419
उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा ।उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1621 · p. 195
उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् ।उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.81 · p. 207
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
अनुष्टुप्
genderविadj.

उच्च as a meaning in nānārtha verses

  • कोषकल्पतरु तुङ्गवपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ Koṣakalpataru 6.3.200
  • वैजयन्ती उदात्तउदूढावूढपृथुलावुत्तमौ प्रवरान्तिमौ । महत्युदात्त उच्चोक्तेऽप्युपोढो निकटोढयोः ॥ ६ ॥ Vaijayantī 7.4.6