उन्दुरु
unduruपुं · masc.In 13 kośas: 14 synonym verses, 2 as a meaning of another word.
मूषिको मूषको वज्रदशनः खनकोन्दुरौ ।उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने ॥ १३०० ॥
अनुष्टुप्
genderपुंmasc.
अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ।उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका ।
अनुष्टुप्
genderपुंmasc.
उन्दुरः स्यादुन्दुरुश्च मूषामूषिकमूषिकाः (मूषकाः?) ।तुल्या गोधैव गौधारगौधेयाः परिकीर्तिताः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
विलकारी धान्यभक्ष आखुर्मूडदरो नखी ।बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिसूर्यः शयानश्च कृकलासो घनोन्मदः ।मूषकोऽस्त्री द्वयोराखुर्मूखिको दहरो वृषः ।पुमांसो अयमियं वा आखुः ।निद्रीरेकारो(?) मूषकशब्दः पुंनपुंसकयोः ।आखुः*वक्र(?)दशना खनिका तुन्दुरून्दुरौ ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उन्दरः खनको वज्रदशनो मूषिकस्तथा ।आखून्दुरू समौ प्रोक्तौ मूषको वृषलोचनः ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
रौहिषः शम्बरः कण्वः शैलमेषे जतुप्रियः ।उन्दुरुर्मूषके तु स्यात्सरटे कृकलासकः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
उन्दुरुर्मूषको बालमूषिका गिरिकाऽऽखुका ।पल्ली लूताशिनी तुण्डो सरटः कृकलासकः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
उन्दुर उन्दुरुराखुरिति नामानि सन्ति वै ।छुछुन्दरी गन्धमूषी सैवास्ति गन्धमूषिका ॥ २३४९ ॥
metre not recognised
genderपुंmasc.
उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका ।मूषा च, गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥ ३३६ ॥
metre not recognised
genderपुंmasc.
कुन्दुरुन्दुरुरुन्दुरः ॥ १३० ॥
genderपुंmasc.
भद्रमूषिक आसन्दी कुन्दुरुन्दुरुरुन्दुरः ।मूषको वज्रदशनः क्रमः काण्डो बिलेशयः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
वनच्छागोऽथ गन्धौतुः खट्टाशो वनवासनः ।उन्दुरुस्तुटुमो रन्ध्रबभ्रुर्दीना तु मूषिका ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कुड्यमत्स्या सुरश्वेता कुण्डृणाची सुराजिका ।उन्दुरुर्मूषिकः काण्डमाखुस्तु खनकः क्रमः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
उन्दुरु as a meaning in nānārtha verses
- त्रिकाण्डशेष खनकनीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः । चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥ Trikāṇḍaśeṣa 3.3.17
- त्रिकाण्डशेष काचिघओधः स्याद्द्रुतनृत्ये च काचिघौ काञ्चनोन्दुरू । निदाघौ स्वेदतापौ च प्रतिधो रोषघातयोः ॥ ७२ ॥ Trikāṇḍaśeṣa 3.3.72