कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खनक

khanakaपुं · masc.

In 13 kośas: 10 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1300 · p. 50
मूषिको मूषको वज्रदशनः खनकोन्दुरौ ।उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने ॥ १३०० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.14
अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ।उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.235 · p. 29
आखुर्वृषो मूषकः स्यादुन्दुरः खनकस्तथा ।छुच्छुन्दरी च विज्ञेया विद्वद्भिर्गन्धमूषिका ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.55 · p. 323
विलकारी धान्यभक्ष आखुर्मूडदरो नखी ।बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.202 · p. 77
उन्दरः खनको वज्रदशनो मूषिकस्तथा ।आखून्दुरू समौ प्रोक्तौ मूषको वृषलोचनः ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2348 · p. 380
मुषको मूषकश्चैव मूषिको वृषलोचनः ।सूच्यास्यः खनको वज्रदशन उन्दरो वृषः ॥ २३४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.38 · p. 155
पाटच्चरः परास्कन्दी कुम्भिलः खनकोऽपि च ।चोरः शङ्कितवर्णः स्यात्तथा खनिक इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1517 · p. 183
क्षत्रियायां तु माहिष्याजातौ चार्मिकसूचिकौ ।मागधात् खनकोऽम्बष्ठाज्जातो यो नापितश्च सः ॥ १५१७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.40 · p. 75
आयोगवाच्चर्मकारं राज्ञी वार्मिकसूचकौ ।माहिष्याच्चर्मकारं सा खनकं मागधादसौ ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.31 · p. 150
कुड्यमत्स्या सुरश्वेता कुण्डृणाची सुराजिका ।उन्दुरुर्मूषिकः काण्डमाखुस्तु खनकः क्रमः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.38 · p. 10
कनकौ हेमधुस्तूरौ नागकेशरचम्पकौ ।खनको दारणकरी खनको मूषिकः स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.25 · p. 139
तर्षे त्रिषु स्यात्सरकोऽथ न स्त्रीस इक्षुसीधुन्यपि सीधुपात्रे ।अच्छिन्नपान्थालिषु चान्तरिक्षे-ऽथो संधिचौरे खनकस्तथाखौ ॥ २५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.618 · p. 100
शरीरे च खजाका तु स्त्री दर्व्यामसतीस्त्रियाम् ।खनको मूषिके द्वे स्यान्मर्त्यजात्यन्तरे तथा ॥ ६१८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.619 · p. 100
राज्ञीमागधयोर्जाते त्रि तु स्यादवदारके ।तथा स्याद्भूमिवित्तज्ञे खनित्रं तु नपुंसकम् ॥ ६१९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.64 · p. 180
खनको ना सन्धिचौरे उन्दुरे त्रिषु दारके ।खड्गिगो महिषी क्षीरफेसो च शौनिकेऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2084 · p. 252
खनको मूषिके कोले ग्रामणीर्नापितेऽपि च ।गृहिणी देहली जाया काञ्चिकं गृहकारिका ॥ २०८४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.17 · p. 97
नीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः ।चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.33 · p. 259
कलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः ।खनको भूमिवित्तज्ञे मूषिकेऽप्यवदारके ॥ ३३ ॥
अनुष्टुप्