कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तुण्ड

tuṇḍaक्ली · neut.

In 14 kośas: 19 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.572 · p. 25
तुण्डमास्यं मुखं वक्त्रं लपनं वदनानने ॥ ५७२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.156
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.518 · p. 59
मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः ।तुण्डं वदनं वक्त्रं लपनं मुखमास्यमाननं च समम् ॥ ५१८ ॥
गीतिः
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.140 · p. 35
वक्त्रास्ये वदनं तुण्डमाननं लपनं पुनः ।वेरं घनोत्तरं स्नेहरसनं मुखमस्त्रियाम् ॥ १४० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.93 · p. 471
… तथा मोरटघृष्टयोः ।… गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 195
पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः ।वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि ।चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 219
पश्चान्मन्ये कलम्ब्यौ च व्युपो(?) स्त्रि मुखमाननम् ।चुब्रमास्यं च वदनं लपनं वक्त्रमस्त्रियाम् ॥श्म च तुण्डं तत्तु कर्णालंकारेण मनोहरम् ।स्यात्कार्णावेष्टिकं भालोऽस्त्र्यलीकं निटिलालिके ॥ललाटं स्त्री तु गोधिः स्यात्त्रिपताकं त्रिरेखकम् ।कर्णः शब्दग्रहः श्रुन्ना स्त्री श्रुतिः श्रवणोऽस्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.98 · p. 106
भाण्डाण्ड-तुण्डानि च चक्रवाडंगूढं च तीक्ष्ण-ग्रहणेरणानि ।द्राणं पुराणं द्रविणं शणेर्णेकल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥
इन्द्रवज्राmetre not read in every line
genderक्लीneut.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.237 · p. 130
काकपक्षस्तु बालानां शिखण्डकशिखाण्डकौ ।मुखं तु लपनं वक्त्रं तुण्डमास्यानने समे ॥ २३७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.89 · p. 222
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.136 · p. 10
उन्दुरुर्मूषको बालमूषिका गिरिकाऽऽखुका ।पल्ली लूताशिनी तुण्डो सरटः कृकलासकः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.28 · p. 22
मुखं तु वदनं वक्त्रं तुण्डमास्यं तथाननम् ।ललाटमलिकं भालं गोध्यलीके ललाटिका ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.916 · p. 140
आस्यं मुखं वरं वक्त्रं घनं घनोत्तमं चरम् ।आननं वदनं तुण्डं तेरं दन्तालयस्तथा ॥ ९१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.306 · p. 102
घाटो घाटा कृकाटी स्यादवटुश्च कृकाटिका ।मुखं वदनं तुण्डास्यवक्त्रं लपनमाननम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1080 · p. 134
तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः ।घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.86 · p. 180
मुण्डोऽस्त्री मस्तकाऽप्यस्त्री मुखन्तु वदनं घनम् ।तेरं तुण्डं वक्रमास्यमाननं च द्विजालयम् ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.

तुण्ड as a meaning in nānārtha verses