कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Pañcatattvaprakāśa

पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa

409 verses · 3,817 words tagged · 962 marked doubtful (dashed)

भूमिभानुः · चतुःपदमरीचिः

इति शैलमरीचिः

हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
1.3.126 · p. 9
अनुष्टुप्
कुञ्जरो वारणो नागो हस्ति स्तम्बेरमो द्विपः ।इभः पद्मी सामयोनिः पीलुः कुम्भी महामृगः ॥ १२७ ॥
1.3.127 · p. 9
अनुष्टुप्
गण्डाः कटः मदो दानं कलभः करिशावकः ।पोत्री कोलो घृणीर्द्दंष्ट्री वराहो भूमिदारकः ॥ १२८ ॥
1.3.128 · p. 9
अनुष्टुप्
उक्षा वृषो बलीवर्द्दो वृषभो गौर्विषाणभृत् ।धेनुर्गौः सुरभिर्गृष्टिर्वत्सकस्तर्णकोऽर्णकः ॥ १२९ ॥
1.3.129 · p. 9
अनुष्टुप्
गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः ।एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥
1.3.130 · p. 10
अनुष्टुप्
गण्डकः खड्गकः खड्गी सैरिभो महिषोऽश्वहा ।ईहामृगो वृकः कोकः श्वा कौलेयकुक्कुरौ ॥ १३१ ॥
1.3.131 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीतलाश्वो लम्बकर्णो रासभो धूसरः खरः ।उष्ट्रवामी वेसराख्यो लम्बग्रीवः क्रमेलकः ॥ १३२ ॥
1.3.132 · p. 10
अनुष्टुप्
ओतुर्बिडालो मार्जारो दुग्धारिर्मूषकान्तकः ।गोमायुर्वञ्चकः क्रोष्टा शृगालो मृगधूर्त्तकः ॥ १३३ ॥
1.3.133 · p. 10
अनुष्टुप्
प्लवङ्गमो वृक्षमृगो मर्कटो वानरः कपिः ।शल्यः श्वाविच्छरलोमा मृदुकः शशकः शशः ॥ १३४ ॥
1.3.134 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
ऋक्षो भल्लो दीर्घवालो नकुलोऽहिरिपुर्द्विभुक् ।शूकविषः शूककीटो वृश्चिकोऽलिः सरीसृपः ॥ १३५ ॥
1.3.135 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 वि (wrong syllable)
उन्दुरुर्मूषको बालमूषिका गिरिकाऽऽखुका ।पल्ली लूताशिनी तुण्डो सरटः कृकलासकः ॥ १३६ ॥
1.3.136 · p. 10
अनुष्टुप्
ऊर्णनाभो मर्कटकः तन्तुकीटः पटकृमिः ।खर्जूरः शतपात्कर्णजलौकाऽऽज्यमृतिप्रजः ॥ १३७ ॥
1.3.137 · p. 10
अनुष्टुप्metre not read in every line
उरगः पन्नगो भोगी व्यालोऽहिर्जिह्मगोऽयभुक् ।दर्वीकरो विषधरः फणी सर्पो मुखामृतः ॥ १३८ ॥
1.3.138 · p. 10
अनुष्टुप्
जलौका शोणितरुचिर्दध्न्यमृततुण्डिके ।जूका केशजनुर्लिक्षा लिक्षिका कृमिकः कृमिः ॥ १३९ ॥
1.3.139 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सिं[सि]ही पञ्चाननी श्वेता गण्डकी फलकत्वचा ।दन्तिनी करिणी नागी महामृगनितम्बिनी ॥ १४० ॥
1.3.140 · p. 10
अनुष्टुप्
उरगी सर्पिणी व्याली वृश्चिकी विषपुच्छिका ।पिपीलिका तीक्ष्णदंशा मत्कुणो राक्तबीजकः ॥ १४४ ॥
1.3.144 · p. 11
अनुष्टुप्
दिवान्धिका दीर्घतुण्डा छुछुन्दर्यहिबन्धिका ।गुडप्रियस्तीक्ष्णदंष्ट्रः शक्रगोपोऽम्बुशोणितम् ॥ १४५ ॥
1.3.145 · p. 11
अनुष्टुप्
ब्राह्मी विप्राणिका विप्रा प्रावृट्कीटो महीकृमिः ।दन्तकृमिर्दंष्ट्रिकाख्यः शिरःशूली शिरःकृमिः ॥ १४६ ॥
1.3.146 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कृ (wrong syllable)
आरोहयन्त्रं पल्याणं कशा ताडनपाशिका ।वग्लुः खलीनं गोपाशो नाथिकाऽऽरोहकुण्डिका ॥ १४७ ॥
1.3.147 · p. 11
अनुष्टुप्