मूषिक
mūṣikaपुं · masc.In 13 kośas: 12 synonym verses, 2 as a nānārtha head word, 29 as a meaning of another word.
मूषिको मूषको वज्रदशनः खनकोन्दुरौ ।उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने ॥ १३०० ॥
अनुष्टुप्
genderपुंmasc.
उन्दुरः स्यादुन्दुरुश्च मूषामूषिकमूषिकाः (मूषकाः?) ।तुल्या गोधैव गौधारगौधेयाः परिकीर्तिताः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
विलकारी धान्यभक्ष आखुर्मूडदरो नखी ।बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥ ५५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
पुस्तकेन पिभाकेन तथैव मुस्तकेन च ।मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥ १४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 4 स्य (wrong syllable)
genderपुंक्लीm. n.
उन्दरः खनको वज्रदशनो मूषिकस्तथा ।आखून्दुरू समौ प्रोक्तौ मूषको वृषलोचनः ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
मोदको मूषिकश्चैव रोचकातङ्ककञ्चुकाः ।चण्डातकभ्रमरकौ वैनीतककरण्डकौ ॥ १३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मुषको मूषकश्चैव मूषिको वृषलोचनः ।सूच्यास्यः खनको वज्रदशन उन्दरो वृषः ॥ २३४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
पुनर्लालाविषाः लोके लूताद्याः प्रथयन्ति वै ।कालान्तरविषाः स्युर्वै मूषिकाद्याश्च जन्तवः ॥ २३७२ ॥
अनुष्टुप्
genderपुंmasc.
मूषीको मूषिको मूषो मूषकश्चाखुरुन्दरुः ।उन्दुरः खणको बभ्रुर्वृष आखनिको वृशः ॥
अनुष्टुप्
genderपुंmasc.
सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः ।शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च ॥ ३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderपुंmasc.
मण्डल्याखुभुगोतुश्च दीनानाथस्तु मूषिकः ।इन्दुरुश्च वृषश्चाखुर्गिरिका बालमूषिका ॥ ७८० ॥
अनुष्टुप्
genderपुंmasc.
कुड्यमत्स्या सुरश्वेता कुण्डृणाची सुराजिका ।उन्दुरुर्मूषिकः काण्डमाखुस्तु खनकः क्रमः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
त्रि स्यान्मुसलवत्यर्थे मूषिकस्तु द्वयोरयम् ।आखुजातौ यदा तु स्यात् स्त्रियां वृत्तिस्तदा भवेत् ॥ १४३४ ॥
अनुष्टुप्
meaningsआखुजाति
मूषिका निर्विषाणां च जातिभेदे जलौकसाम् ।अनिष्टगन्धे विज्ञेयो मूषिकैः सदृशाकृतौ ॥ १४३५ ॥
अनुष्टुप्
मूषिक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वृषशुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२१ ॥ Amarakośa 3.3.221
- धरणिकोश खनककनकौ हेमधुस्तूरौ नागकेशरचम्पकौ । खनको दारणकरी खनको मूषिकः स्मृतः ॥ Dharaṇikośa 1.2.38
- नानार्थार्णवसंक्षेप आखुआजिः स्त्रियां क्वचित् पुंसि युद्धे सममहीतले । आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.76
- नानार्थार्णवसंक्षेप क्रमक्रमोऽङ्घ्रौ परिपाट्यां च वेदपाठान्तरे विधौ । क्रान्तौ स्थानकभेदे च द्वे त्वाख्वाह्वयमूषिके ॥ १४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.143
- नानार्थार्णवसंक्षेप कुन्दुवर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ । कुन्दुर्द्वयोर्मूषिके स्यात् पालक्यासंज्ञके तु ना ॥ २४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.249
- नानार्थार्णवसंक्षेप कोलवराहे मूषिके त्रिस्तु खञ्जे कोष्ठस्तु न स्त्रियाम् । कुसूलेऽन्तर्गृहे चान्तःकुक्षौ स्वीयेऽप्यधीयते ॥ २९० ॥ Nānārthārṇavasaṃkṣepa 2.5.290
- नानार्थार्णवसंक्षेप दंष्ट्रिन्वराहे मूषिके व्याघ्रेऽप्यथ दंष्ट्रावति त्रिषु । दासो भृत्ये द्वयोः स्त्री तु षडश्रासंज्ञवीरुधि ॥ ५८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.585
- नानार्थार्णवसंक्षेप वृषद्वे त्वश्वे मूषिके देवे त्रि तु स्याद्भूरिरेतसि । श्रेष्ठेऽपि सुकुले क्ली तु रेतस्यन्तःपुरेऽथ सा ॥ १२७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1276
- नानार्थार्णवसंक्षेप काचिकत्रिस्तु कासयितर्येष कासकः कसितर्यपि । काचिकस्तु पुमाञ्ज्ञेयः कमुण्डे द्वे तु मूषिके ॥ ४५४ ॥ Nānārthārṇavasaṃkṣepa 4.454
- नानार्थार्णवसंक्षेप कुहननप्स्त्री तु दम्भचर्यायां दम्भशीलत्व एव च । कुहना क्ली तु मायायां मूषिके तु द्वयोर्भवेत् ॥ ५२७ ॥ Nānārthārṇavasaṃkṣepa 4.527
- नानार्थार्णवसंक्षेप खनकशरीरे च खजाका तु स्त्री दर्व्यामसतीस्त्रियाम् । खनको मूषिके द्वे स्यान्मर्त्यजात्यन्तरे तथा ॥ ६१८ ॥ Nānārthārṇavasaṃkṣepa 4.618
- नानार्थार्णवसंक्षेप छिदिरछिदिरस्तु पुमानग्नौ वज्रे क्ली मूषिके द्वयोः । अस्त्री त्वायुधसामान्ये वज्रशब्दः प्रयोगवान् ॥ ७६४ ॥ Nānārthārṇavasaṃkṣepa 4.764
- नानार्थार्णवसंक्षेप विलेशयबिलखण्डं रक्तपद्मे क्ली समासादि पूर्ववत् । विलेशयो द्वे नकुले मूषिके मुजगेऽपि च ॥ ४२७ ॥ Nānārthārṇavasaṃkṣepa 6.427
- शब्दरत्नावली आखनिकशूकरे मूषिके चौरे भवेदाखनिकः पुमान् । हेलोत्कण्ठातरङ्गेषु भवेदुत्कलिका स्त्रियाम् ॥ Śabdaratnāvalī 7.1.159
- शब्दरत्नावली विटविटोऽद्रौ खदिरे षिङ्गे लवणे मूषिकेऽपि च ॥ Śabdaratnāvalī 7.11.27
- शब्दरत्नावली विलेशयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
- शब्दरत्नावली शुषिरशुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः । शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥ शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे । क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥ सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च । बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥ सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥ Śabdaratnāvalī 7.27.107
- शब्दरत्नावली वृषवृषो धर्मे वलीवर्दे संख्याराशिभिदोरपि । मूषिके शुक्तलेऽपि स्यादुत्तरस्थो वरार्थकः ॥ Śabdaratnāvalī 7.31.15
- शब्दरत्नाकर आखुहयकुत्सितयोरर्वा स्यादर्यः स्वामिवैश्ययोः । घृष्टिमूषिकयोराखुरारो भौमारकूटयोः ॥ १८७१ ॥ Śabdaratnākara 4.1.1871
- शब्दरत्नाकर दंष्ट्रिन्दुर्गमे त्रिषु दंष्ट्री तु शार्दूले मूषिके किटौ । सदंष्ट्रपन्नगे ग्राहे दानं हस्तिमदेऽपि च ॥ १९४० ॥ Śabdaratnākara 4.1.1940
- शब्दरत्नाकर वृषविश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना । मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥ Śabdaratnākara 4.1.2002
- शब्दरत्नाकर कुहनकुहनो मूषिके दम्भे कुद्दालो युगपत्रके । खनित्रभेदे सिंहादिस्कन्धरोम्णि तु केसरः ॥ २०७९ ॥ Śabdaratnākara 4.1.2079
- शब्दरत्नाकर खनकखनको मूषिके कोले ग्रामणीर्नापितेऽपि च । गृहिणी देहली जाया काञ्चिकं गृहकारिका ॥ २०८४ ॥ Śabdaratnākara 4.1.2084
- त्रिकाण्डशेष विटविटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च । पाञ्चलौहे श्रुतिकटः प्रायश्चित्तभुजङ्गयोः ॥ १०४ ॥ Trikāṇḍaśeṣa 3.3.104
- वैजयन्ती आखुयत्नेऽर्केऽग्नौ मतौ वातेऽप्याखू सूकरमूषिकौ । आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानबंधयोः ॥ ७ ॥ Vaijayantī 6.1.7
- वैजयन्ती दंष्ट्रिन्दंष्ट्री ग्राहे सदंष्ट्रेऽहौ शार्दूले मूषिके किटौ । परिमाणे दारुपात्रे द्रोणोऽस्त्री वायसे पुमान् ॥ ४० ॥ Vaijayantī 6.5.40
- वैजयन्ती कुहनकीनाशो रक्षसि यमे कदर्ये कर्षकेऽर्थवत् । कुहनो मूषिके सेर्ष्ये कुहना दंभशीलता ॥ २३ ॥ Vaijayantī 7.5.23
- वैजयन्ती खनककलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः । खनको भूमिवित्तज्ञे मूषिकेऽप्यवदारके ॥ ३३ ॥ Vaijayantī 7.5.33
- वैजयन्ती बिलेशयनकुले मूषिकेऽहौ ना गोधायां स्त्री बिलेशयः । बृन्दारकः पुमान्देवे श्रेष्ठसुन्दरयोस्त्रिषु ॥ १८ ॥ Vaijayantī 8.5.18