कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऋक्थ

ṛkthaक्ली · neut.

In 13 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.192 · p. 12
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.90
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.80 · p. 10
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderक्लीneut.
यौतवं पौतवं खारी खरिः खारश्च दृश्यते ।वण्टको वण्ट ऋक्थं स्याद्रिक्थं मुक्ता च मौक्तिकम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.536 · p. 192
नारं दाक्षायणं श्रीमत्कुम्भै वेणुतटीभवम् ।द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 294
द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् ।स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥
metre not recognised
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.534 · p. 94
द्रव्ये वित्तं स्वापतेयं ऋक्षं(क्थं?) रिक्षं(क्थं?) हिरण्यकम् ।धनं वसु हिरण्यं च द्युम्नं रा विभवो धनम् (मघम्?) ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.176 · p. 19
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.225 · p. 30
पृक्थमृक्थं च रिक्थं स्वं स्वापतेयं च रास्तथा ।ऋक्णमर्थो हिरण्यं स्याद् सारं द्युम्नं तथोच्यते ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.175 · p. 149
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.77 · p. 183
वस्वोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् ।वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.139 · p. 18
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderक्लीneut.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 240 · p. 346
हिरण्यं द्रविणं द्युम्नं रिक्थं ऋक्थं धनं वसु ॥ २४० ॥
genderक्लीneut.